Sukta 1.102
अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् ॥
अ॒स्य श्रवो॑ न॒द्य॑: स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा॑ पृथि॒वी द॑र्श॒तं वपु॑: । अ॒स्मे सू॑र्याचन्द्र॒मसा॑भि॒चक्षे॑ श्र॒द्धे कमि॑न्द्र चरतो वितर्तु॒रम् ॥
asyá śrávo nadyàḥ saptá bíbhrati dyā́vākṣā́mā pṛthivī́ darśatáṃ váp uḥ | asm é sū́ryācandramásā abhí-cakṣe śraddhé kám indra carato vi-tarturám ||
Seven rivers bear his fame; Heaven-and-Earth and the wide world carry his visible form. For us the Sun and Moon look on; O Faith, whom do they move with Indra—those two that traverse, widening the passage?
अ॒स्य । श्रवः॑ । न॒द्यः॑ । स॒प्त । बि॒भ्र॒ति॒ । द्यावा॒क्षामा॑ । पृ॒थि॒वी । द॒र्श॒तम् । वपुः॑ । अ॒स्मे इति॑ । सू॒र्या॒च॒न्द्र॒मसा॑ । अ॒भि॒ऽचक्षे॑ । श्र॒द्धे । कम् । इ॒न्द्र॒ । च॒र॒तः॒ । वि॒ऽत॒र्तु॒रम् ॥अस्य । श्रवः । नद्यः । सप्त । बिभ्रति । द्यावाक्षामा । पृथिवी । दर्शतम् । वपुः । अस्मे इति । सूर्याचन्द्रमसा । अभिचक्षे । श्रद्धे । कम् । इन्द्र । चरतः । वितर्तुरम् ॥asya | śravaḥ | nadyaḥ | sapta | bibhrati | dyāvākṣāmā | pṛthivī | darśatam | vapuḥ | asme iti | sūryācandramasā | abhi-cakṣe | śraddhe | kam | indra | carataḥ | vi-tarturam