Sukta 1.102
इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे । तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥
इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं॑ दे॒वास॒: शव॑सामद॒न्ननु॑ ॥
imā́ṃ te dhíyaṃ prá bhare mahó mahī́m asyá stótre dhiṣáṇā yát ta ānáje | tám utsavé ca prasavé ca sāsahím índraṃ devā́saḥ śávasā amádan ánu ||
This thought of illumination I bring forth to thee—great, for the Great—when the inspired intelligence is yoked in the act of praise. That conquering Indra, in the uprush and in the forward impulsion, the gods follow and rejoice in, by his force.
इ॒माम् । ते॒ । धिय॑म् । प्र । भ॒रे॒ । म॒हः । म॒हीम् । अ॒स्य । स्तो॒त्रे । धि॒षणा॑ । यत् । ते॒ । आ॒न॒जे । तम् । उ॒त्ऽस॒वे । च॒ । प्र॒ऽस॒वे । च॒ । स॒स॒हिम् । इन्द्र॑म् । दे॒वासः॑ । शव॑सा । अ॒म॒द॒न् । अनु॑ ॥इमाम् । ते । धियम् । प्र । भरे । महः । महीम् । अस्य । स्तोत्रे । धिषणा । यत् । ते । आनजे । तम् । उत्सवे । च । प्रसवे । च । ससहिम् । इन्द्रम् । देवासः । शवसा । अमदन् । अनु ॥imām | te | dhiyam | pra | bhare | mahaḥ | mahīm | asya | stotre | dhiṣaṇā | yat | te | ānaje | tam | ut-save | ca | pra-save | ca | sasahim | indram | devāsaḥ | śavasā | amadan | anu