Sukta 1.101
त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः । अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥
त्वा॒येन्द्र॒ सोमं॑ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः । अधा॑ नियुत्व॒: सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ॥
tvāyéndra sómaṁ suṣumā su-dakṣa tvāyā́ havíś cakṛma brahma-vāhaḥ | ádhā niyutváḥ ságaṇo marúdbhīr asmín yajñé bárhiṣi mādayasva ||
For you, O Indra, we have pressed the Soma, O well-skilled; for you we have prepared the offering, O bearer of the sacred Word. Then, yoked in your teams, together with the Marut host, take delight here on this sacred grass in our sacrifice.
त्वा॒ऽया । इ॒न्द्र॒ । सोम॑म् । सु॒सु॒म॒ । सु॒ऽद॒क्ष॒ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । ब्र॒ह्म॒ऽवा॒हः॒ । अध॑ । नि॒ऽयु॒त्वः॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । मा॒द॒य॒स्व॒ ॥त्वाया । इन्द्र । सोमम् । सुसुम । सुदक्ष । त्वाया । हविः । चकृम । ब्रह्मवाहः । अध । नियुत्वः । सगणः । मरुत्भिः । अस्मिन् । यज्ञे । बर्हिषि । मादयस्व ॥tvāyā | indra | somam | susuma | su-dakṣa | tvāyā | haviḥ | cakṛma | brahma-vāhaḥ | adha | ni-yutvaḥ | sa-gaṇaḥ | marut-bhiḥ | asmin | yajñe | barhiṣi | mādayasva