Sukta 1.101
यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे । अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥
यद्वा॑ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा॑व॒मे वृ॒जने॑ मा॒दया॑से । अत॒ आ या॑ह्यध्व॒रं नो॒ अच्छा॑ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ॥
yád vā marutvaḥ paramé sádhasthé yád vāvamé vṛjáné mādayāse | atá ā́ yāhy adhvaráṁ no ácchā tvāyā́ havíś cakṛma satya-rādhaḥ ||
Whether, O Marut-possessing One, you take delight in the highest seat or in the nearer field of action, from there come to our sacrifice. For you we have made ready the offering, O true-accomplisher of the rite.
यत् । वा॒ । म॒रु॒त्वः॒ । प॒र॒मे । स॒धऽस्थे॑ । यत् । वा॒ । अ॒व॒मे । वृ॒जने॑ । मा॒दया॑से । अतः॑ । आ । या॒हि॒ । अ॒ध्व॒रम् । नः॒ । अच्छ॑ । त्वा॒ऽया । ह॒विः । च॒कृ॒म॒ । स॒त्य॒ऽरा॒धः॒ ॥यत् । वा । मरुत्वः । परमे । सधस्थे । यत् । वा । अवमे । वृजने । मादयासे । अतः । आ । याहि । अध्वरम् । नः । अच्छ । त्वाया । हविः । चकृम । सत्यराधः ॥yat | vā | marutvaḥ | parame | sadha-sthe | yat | vā | avame | vṛjane | mādayāse | ataḥ | ā | yāhi | adhvaram | naḥ | accha | tvāyā | haviḥ | cakṛma | satya-rādhaḥ