Sukta 1.101
रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः । इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥
रु॒द्राणा॑मेति प्र॒दिशा॑ विचक्ष॒णो रु॒द्रेभि॒र्योषा॑ तनुते पृ॒थु ज्रय॑: । इन्द्रं॑ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
rudrā́ṇām eti prádiśā vicakṣaṇó rudrébhir yóṣā tanute pṛthú járyaḥ | índraṁ manīṣā́ abhy àrcati śrutáṁ marútvantaṁ sakhyā́ya havāmahe ||
He moves in the directions of the Rudras, the seer of wide vision; with the Rudras the youthful power spreads out the broad harnessing. Our inspired thought chants to Indra, the well-heard, with the Maruts—we call him for comradeship.
रु॒द्रा॒णा॑म् । ए॒ति॒ । प्र॒ऽदिशा॑ । वि॒ऽच॒क्ष॒णः । रु॒द्रेभिः॑ । योषा॑ । त॒नु॒ते॒ । पृ॒थु । ज्रयः॑ । इन्द्र॑म् । म॒नी॒षा । अ॒भि । अ॒र्च॒ति॒ । श्रु॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥रुद्राणाम् । एति । प्रदिशा । विचक्षणः । रुद्रेभिः । योषा । तनुते । पृथु । ज्रयः । इन्द्रम् । मनीषा । अभि । अर्चति । श्रुतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥rudrāṇām | eti | pra-diśā | vi-cakṣaṇaḥ | rudrebhiḥ | yoṣā | tanute | pṛthu | jrayaḥ | indram | manīṣā | abhi | arcati | śrutam | marutvantam | sakhyāya | havāmahe