Sukta 1.101
यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः । इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥
यः शूरे॑भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभि॑: । इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं॑द॒धुर्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
yáḥ śūrébhir hávyo yáś ca bhīrúbhir yó dhā́vadbhir hūyáte yáś ca jigyúbhiḥ | índraṁ yáṁ víśvā bhúvanā́bhi sáṁdadhur marútvantaṁ sakhyā́ya havāmahe ||
He who is to be invoked by the heroic and by the fearful alike; whom the striving runners call and the conquerors call; Indra whom all the worlds set together in one harmony—this Indra with the Maruts we call for comradeship.
यः । शूरे॑भिः । हव्यः॑ । यः । च॒ । भी॒रुऽभिः॑ । यः । धाव॑त्ऽभिः । हू॒यते॑ । यः । च॒ । जि॒ग्युभिः॑ । इन्द्र॑म् । यम् । विश्वा॑ । भुव॑ना । अ॒भि । स॒म्ऽद॒धुः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यः । शूरेभिः । हव्यः । यः । च । भीरुभिः । यः । धावत्भिः । हूयते । यः । च । जिग्युभिः । इन्द्रम् । यम् । विश्वा । भुवना । अभि । सम्दधुः । मरुत्वन्तम् । सख्याय । हवामहे ॥yaḥ | śūrebhiḥ | havyaḥ | yaḥ | ca | bhīru-bhiḥ | yaḥ | dhāvat-bhiḥ | hūyate | yaḥ | ca | jigyubhiḥ | indram | yam | viśvā | bhuvanā | abhi | sam-dadhuḥ | marutvantam | sakhyāya | havāmahe