Sukta 1.101
यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् । इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥
यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे॑ प्रथ॒मो गा अवि॑न्दत् । इन्द्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
yó víśvasya jágataḥ prāṇatás páti r yó bráhmaṇe prathamó gā́ ávindat | índro yó dasyū́ṁr ádharāṁ avā́tirān marútvantaṁ sakhyā́ya havāmahe ||
He who is lord of all that moves and breathes; who first for the seeker of the Word found the cows (the rays); Indra who cast down the Dasyus into the lower darkness—this Indra with the Maruts we call for comradeship.
यः । विश्व॑स्य । जग॑तः । प्रा॒ण॒तः । पतिः॑ । यः । ब्र॒ह्मणे॑ । प्रथ॒मः । गाः । अवि॑न्दत् । इन्द्रः॑ । यः । दस्यू॑न् । अध॑रान् । अ॒व॒ऽअति॑रत् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यः । विश्वस्य । जगतः । प्राणतः । पतिः । यः । ब्रह्मणे । प्रथमः । गाः । अविन्दत् । इन्द्रः । यः । दस्यून् । अधरान् । अवअतिरत् । मरुत्वन्तम् । सख्याय । हवामहे ॥yaḥ | viśvasya | jagataḥ | prāṇataḥ | patiḥ | yaḥ | brahmaṇe | prathamaḥ | gāḥ | avi ndat | indraḥ | yaḥ | dasyūn | adharān | ava-atirat | marutvantam | sakhyāya | havāmahe