Sukta 1.101
यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः । वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥
यो अश्वा॑नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ॑रि॒तः कर्म॑णिकर्मणि स्थि॒रः । वी॒ळोश्चि॒दिन्द्रो॒ यो असु॑न्वतो व॒धो म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
yó áśvānāṁ yó gávāṁ gópatir vaśī́ yá ā́ritaḥ kármaṇi-kármaṇi sthiráḥ | vīḷóś cid índro yó ásunvato vadhó marútvantaṁ sakhyā́ya havāmahe ||
He who is lord of the horses and lord of the cows, the master of the herds; who stands firm, rightly set in every work; Indra who is even the slayer of the unpressing (who refuse the Soma)—this Indra with the Maruts we call for comradeship.
यः । अश्वा॑नाम् । यः । गवा॑म् । गोऽप॑तिः । व॒शी । यः । आ॒रि॒तः । कर्म॑णिऽकर्मणि । स्थि॒रः । वी॒ळोः । चि॒त् । इन्द्रः॑ । यः । असु॑न्वतः । व॒धः । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यः । अश्वानाम् । यः । गवाम् । गोपतिः । वशी । यः । आरितः । कर्मणिकर्मणि । स्थिरः । वीळोः । चित् । इन्द्रः । यः । असुन्वतः । वधः । मरुत्वन्तम् । सख्याय । हवामहे ॥yaḥ | aśvānām | yaḥ | gavām | go--patiḥ | vaśī | yaḥ | āritaḥ | karmaṇi-karmaṇi | sthiraḥ | vīḷoḥ | cit | indraḥ | yaḥ | asunvataḥ | vadhaḥ | marutvantam | sakhyāya | havāmahe