Sukta 1.101
यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः । यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥
यस्य॒ द्यावा॑पृथि॒वी पौंस्यं॑ म॒हद्यस्य॑ व्र॒ते वरु॑णो॒ यस्य॒ सूर्य॑: । यस्येन्द्र॑स्य॒ सिन्ध॑व॒: सश्च॑ति व्र॒तं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
yásya dyā́vā-pṛthivī́ paúṁsyaṁ mahád yásya vraté váruṇo yásya sū́ryaḥ | yásyéndrasya síndhavaḥ sáścati vratáṁ marútvantaṁ sakhyā́ya havāmahe ||
He whose mighty manhood upholds Heaven and Earth; in whose law even Varuṇa moves, and the Sun; whose ordinance the Rivers follow in their flow—this Indra with the Maruts we call into friendship.
यस्य॑ । द्यावा॑पृथि॒वी इति॑ । पौंस्य॑म् । म॒हत् । यस्य॑ । व्र॒ते । वरु॑णः । यस्य॑ । सूर्यः॑ । यस्य॑ । इन्द्र॑स्य । सिन्ध॑वः । सश्च॑ति । व्र॒तम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यस्य । द्यावापृथिवी इति । पौंस्यम् । महत् । यस्य । व्रते । वरुणः । यस्य । सूर्यः । यस्य । इन्द्रस्य । सिन्धवः । सश्चति । व्रतम् । मरुत्वन्तम् । सख्याय । हवामहे ॥yasya | dyāvāpṛthivī iti | paiṃsyam | mahat | yasya | vrate | varuṇaḥ | yasya | sūryaḥ | yasya | indrasya | sindhavaḥ | saścati | vratam | marutvantam | sakhyāya | havāmahe