Sukta 1.101
यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् । इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥
यो व्यं॑सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तम् । इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ्म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
yó vyàṁsaṁ jahṛṣāṇéna manyúnā yáḥ śámbaraṁ yó áhann píprum avratám | índro yáḥ śúṣṇam aśúṣaṁ ny ā́vṛṇan marútvantaṁ sakhyā́ya havāmahe ||
Him who with an exultant wrath smote Vyāṃsa, who struck down Śambara, who slew Pipru the lawless; Indra who shut in Śuṣṇa the drought-power that withholds—this Indra with the Maruts we call for comradeship.
यः । विऽअं॑सम् । ज॒हृ॒षा॒णेन॑ । म॒न्युना॑ । यः । शम्ब॑रम् । यः । अह॑न् । पिप्रु॑म् । अ॒व्र॒तम् । इन्द्रः॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । नि । अवृ॑णक् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥यः । विअंसम् । जहृषाणेन । मन्युना । यः । शम्बरम् । यः । अहन् । पिप्रुम् । अव्रतम् । इन्द्रः । यः । शुष्णम् । अशुषम् । नि । अवृणक् । मरुत्वन्तम् । सख्याय । हवामहे ॥yaḥ | vi-aṃsam | jahṛṣāṇena | manyunā | yaḥ | śambaram | yaḥ | ahan | piprum | avratam | indraḥ | yaḥ | śuṣṇam | aśuṣam | ni | avṛṇak | marutvantam | sakhyāya | havāmahe