Sukta 1.101
प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना । अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥
प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना । अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
prá mandíne pitumád arcatā váco yáḥ kṛṣṇá-garbhā nír áhann ṛjíśvanā | avasyávo vṛ́ṣaṇaṁ vájra-dakṣiṇaṁ marútvantaṁ sakhyā́ya havāmahe ||
Send forth a word of luminous delight, rich with the nourishing essence, to him who by the straight-going force smote the darkness pregnant with concealment. Seeking true aid, we call for comradeship Indra, the Bull of power whose right hand is the thunderbolt, accompanied by the Maruts (the life-energies).
प्र । म॒न्दिने॑ । पि॒तु॒ऽमत् । अ॒र्च॒त॒ । वचः॑ । यः । कृ॒ष्णऽग॑र्भाः । निः॒ऽअह॑न् । ऋ॒जिश्व॑ना । अ॒व॒स्यवः॑ । वृष॑णम् । वज्र॑ऽदक्षिणम् । म॒रुत्व॑न्तम् । स॒ख्याय॑ । ह॒वा॒म॒हे॒ ॥प्र । मन्दिने । पितुमत् । अर्चत । वचः । यः । कृष्णगर्भाः । निःअहन् । ऋजिश्वना । अवस्यवः । वृषणम् । वज्रदक्षिणम् । मरुत्वन्तम् । सख्याय । हवामहे ॥pra | mandine | pitu-mat | arcata | vacaḥ | yaḥ | kṛṣṇa-garbhāḥ | niḥ-ahan | ṛjiśvanā | avasyavaḥ | vṛṣaṇam | vajra-dakṣiṇam | marutvantam | sakhyāya | havāmahe