Sukta 1.100
स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् । अस्मिन्नहन्त्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥
स म॑न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके॑भि॒र्नृभि॒: सूर्यं॑ सनत् । अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
sá manyumī́ḥ samádanasyá kartā́smā́kebhir nṛ́bhiḥ sū́ryaṃ sanat | asmín ahan sátpatiḥ puruhūtó marútvān no bhavatu índra ūtī́ ||
He, the awakener of battle-fury, the maker of the combat, won the Sun with our men. Here he slew; the lord of the true, much-invoked—may that Indra with the Maruts be our help.
सः । म॒न्यु॒ऽमीः । स॒ऽमद॑नस्य । क॒र्ता । अ॒स्माके॑भिः । नृऽभिः॑ । सूर्य॑म् । स॒न॒त् । अ॒स्मिन् । अह॑न् । सत्ऽप॑तिः । पु॒रु॒ऽहू॒तः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥सः । मन्युमीः । समदनस्य । कर्ता । अस्माकेभिः । नृभिः । सूर्यम् । सनत् । अस्मिन् । अहन् । सत्पतिः । पुरुहूतः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥saḥ | manyu-mīḥ | sa-madanasya | kartā | asmākebhiḥ | nṛ-bhiḥ | sūryam | sanat | asmi n | ahan | sat-patiḥ | puru-hūtaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī