Sukta 1.100
स सूनुभिर्न रुद्रेभिॠभ्वा नृषाह्ये सासह्वाँ अमित्रान् । सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥
स सू॒नुभि॒र्न रु॒द्रेभि॒ॠभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् । सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
sá sūnúbhir ná rudrébhir ṛ́bhvā nṛṣā́hye sāsahvā́n amítrān | sanī́ḷebhiḥ śravasyā́ni tū́rvan marútvān no bhavatu índra ūtī́ ||
He, strong with the sons, like the Rudras, overpowering the non-friends in the man-conquering strife; with the comrades of one nest, driving on to glorious achievements—may that Indra with the Maruts be our help.
सः । सू॒नुऽभिः॑ । न । रु॒द्रेभिः॑ । ऋभ्वा॑ । नृ॒ऽसह्ये॑ । स॒स॒ह्वान् । अ॒मित्रा॑न् । सऽनी॑ळेभिः । श्र॒व॒स्या॑नि । तूर्व॑न् । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥सः । सूनुभिः । न । रुद्रेभिः । ऋभ्वा । नृसह्ये । ससह्वान् । अमित्रान् । सनीळेभिः । श्रवस्यानि । तूर्वन् । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥saḥ | sūnu-bhiḥ | na | rudrebhiḥ | ṛbhvā | nṛ-sahye | sasahvān | amitrān | sa-nīḷebhiḥ | śravasyāni | tūrvan | marutvān | naḥ | bhavatu | indraḥ | ūtī