Sukta 1.100
तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् । स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥
तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तय॑: कृण्वत॒ त्राम् । स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
tám ūtáyo raṇayáñ chū́rasātau tám kṣémasya kṣitáyaḥ kṛṇvata trā́m | sá víśvasya karúṇasyeśá éko marútvān no bhavatu índra ūtī́ ||
Him the helps make victorious in the winning of heroes; him the peoples make a shelter for peace. He alone rules over all compassion—may that Indra with the Maruts be our help.
तम् । ऊ॒तयः॑ । र॒ण॒य॒त् । शूर॑ऽसातौ । तम् । क्षेम॑स्य । क्षि॒तयः॑ । कृ॒ण्व॒त॒ । त्राम् । सः । विश्व॑स्य । क॒रुण॑स्य । ई॒शे॒ । एकः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥तम् । ऊतयः । रणयत् । शूरसातौ । तम् । क्षेमस्य । क्षितयः । कृण्वत । त्राम् । सः । विश्वस्य । करुणस्य । ईशे । एकः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥tam | ūtayaḥ | raṇayat | śūra-sātau | tam | kṣemasya | kṣitayaḥ | kṛṇvata | trām | saḥ | viśvasya | karuṇasy a | īśe | ekaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī