Sukta 1.100
दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः । तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑ना॒: पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः । त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
divó ná yásya rétaso dúghānāḥ pánthāso yánti śávasā́parītāḥ | tarád-dvéṣāḥ sāsahíḥ paúṃsyebhir marútvān no bhavatu índra ūtī́ ||
He whose paths, like the outpourings of heaven, stream forth milking their seed, encompassed by strength—conquering hatreds, prevailing by manly powers: may that Indra with the Maruts be our help.
दि॒वः । न । यस्य॑ । रेत॑सः॑ । दुघा॑नाः । पन्था॑सः । यन्ति॑ । शव॑सा । अप॑रिऽइताः । त॒रत्ऽद्वे॑षाः । स॒स॒हिः । पौंस्ये॑भिः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥दिवः । न । यस्य । रेतसः । दुघानाः । पन्थासः । यन्ति । शवसा । अपरिइताः । तरत्द्वेषाः । ससहिः । पौंस्येभिः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥divaḥ | na | yasya | retasaḥ | dughānāḥ | panthāsaḥ | yanti | śavasā | apari-itāḥ | tarat-dveṣāḥ | sasahiḥ | paiṃsyebhiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī