Sukta 1.100
यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति । वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
यस्याना॑प्त॒: सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ । वृष॑न्तम॒: सखि॑भि॒: स्वेभि॒रेवै॑र्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
yásyānā́ptaḥ sū́ryasyeva yā́mo bháre-bhare vṛtrahā́ śúṣmo ásti | vṛ́ṣantamaḥ sákhibhiḥ svébhir évair marútvān no bhavatu índra ūtī́ ||
He whose march is unseized, like the Sun’s, and whose force as slayer of the Coverer is present in every onset—may that Indra, most potent, with his own comrades and his impetuous energies, be for us the help.
यस्य॑ । अना॑प्तः । सूर्य॑स्यऽइव । यामः॑ । भरे॑ऽभरे । वृ॒त्र॒ऽहा । शुष्मः॑ । अस्ति॑ । वृष॑न्ऽतमः । सखि॑ऽभिः । स्वेभिः॑ । एवैः॑ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥यस्य । अनाप्तः । सूर्यस्यइव । यामः । भरेभरे । वृत्रहा । शुष्मः । अस्ति । वृषन्तमः । सखिभिः । स्वेभिः । एवैः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥yasya | anāptaḥ | sūryasya-iva | yāmaḥ | bhare--bhare | vṛtra-hā | śuṣmaḥ | asti | vṛṣan-tamaḥ | sakhi-bhiḥ | svebhiḥ | evaiḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī