Sukta 1.100
दस्यूञ्छिम्यूँश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् । सनत्क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥
दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् । सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभि॒: सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्र॑: ॥
dasyū́ñ chimyū́ṃś ca puruhū́ta évair hatvā́ pṛthivyā́ṃ śárvā ní barhīt | sánat kṣétraṃ sákhībhiḥ śvitnyébhíḥ sánat sū́ryaṃ sánad apáḥ su-vájraḥ ||
Having slain the Dasyus and the Shimyus by his impulsions, the much-invoked one cast them down upon the earth. With his shining comrades he won the field; he won the Sun; he won the Waters—he of the good thunderbolt.
दस्यू॑न् । शिम्यू॑न् । च॒ । पु॒रु॒ऽहू॒तः । एवैः॑ । ह॒त्वा । पृ॒थि॒व्याम् । शर्वा॑ । नि । ब॒र्ही॒त् । सन॑त् । क्षेत्र॑म् । सखि॑ऽभिः । श्वि॒त्न्येभिः॑ । सन॑त् । सूर्य॑म् । सन॑त् । अ॒पः । सु॒ऽवज्रः॑ ॥दस्यून् । शिम्यून् । च । पुरुहूतः । एवैः । हत्वा । पृथिव्याम् । शर्वा । नि । बर्हीत् । सनत् । क्षेत्रम् । सखिभिः । श्वित्न्येभिः । सनत् । सूर्यम् । सनत् । अपः । सुवज्रः ॥dasyūn | śimyūn | ca | puru-hūtaḥ | evaiḥ | hatvā | pṛthivyām | śarvā | ni | barhīt | sanat | kṣetram | sakhi-bhiḥ | śvitnyebhiḥ | sanat | sūryam | sanat | apaḥ | su-vajraḥ