Sukta 1.100
एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः । ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥
ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राध॑: । ऋ॒ज्राश्व॒: प्रष्टि॑भिरम्ब॒रीष॑: स॒हदे॑वो॒ भय॑मानः सु॒राधा॑: ॥
etát tyát ta indra vṛ́ṣṇe uktháṃ vārṣāgirā́ abhí gṛṇanti rā́dhaḥ | ṛjrā́śvaḥ práṣṭibhir ambarī́ṣaḥ sahádevo bháyamānaḥ su-rā́dhāḥ ||
This very hymn to you, O Indra the Bull, the Vārṣāgiras chant for the gift. Ṛjraśva with his teams, Ambarīṣa, Sahadeva, Bhayamāna, the well-bounteous, proclaim it.
ए॒तत् । त्यत् । ते॒ । इ॒न्द्र॒ । वृष्णे॑ । उ॒क्थम् । वा॒र्षा॒गि॒राः । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ । ऋ॒ज्रऽअश्वः॑ । प्रष्टि॑ऽभिः । अ॒म्ब॒रीषः॑ । स॒हऽदे॑वः । भय॑मानः । सु॒ऽराधाः॑ ॥एतत् । त्यत् । ते । इन्द्र । वृष्णे । उक्थम् । वार्षागिराः । अभि । गृणन्ति । राधः । ऋज्रअश्वः । प्रष्टिभिः । अम्बरीषः । सहदेवः । भयमानः । सुराधाः ॥etat | tyat | te | indra | vṛṣṇe | uktham | vārṣāgirāḥ | abhi | gṛṇanti | rādhaḥ | ṛjra-aśvaḥ | praṣṭi-bhiḥ | ambarīṣaḥ | saha-devaḥ | bhayamānaḥ | su-rādhāḥ