Sukta 1.100
न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः । स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥
न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः । स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
ná yásya devā́ devátā ná mártā ā́paś caná śávaso ántam ā́puḥ | sá prá-rikvā́ tvákṣasā kṣmó diváś ca marútvān no bhavátv índra ūtī́ ||
Whose ultimate limit of force neither the gods nor the godheads, nor mortals, nor even the waters have reached—he, the far-ranging, by his shaping energy spans earth and heaven. May Indra, with the Maruts, be our help and protection.
न । यस्य॑ । दे॒वाः । दे॒वता॑ । न । मर्ता॑ । आपः॑ । च॒न । शव॑सः । अन्त॑म् । आ॒पुः । सः । प्र॒ऽरिक्वा॑ । त्वक्ष॑सा । क्ष्मः । दि॒वः । च॒ । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥न । यस्य । देवाः । देवता । न । मर्ता । आपः । चन । शवसः । अन्तम् । आपुः । सः । प्ररिक्वा । त्वक्षसा । क्ष्मः । दिवः । च । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥na | yasya | devāḥ | devatā | na | martā | āpaḥ | cana | śavasaḥ | antam | āpuḥ | saḥ | pra-rikvā | tvakṣasā | kṣmaḥ | divaḥ | ca | marutvān | naḥ | bhavatu | indraḥ | ūtī