Sukta 1.100
यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् । स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥
यस्यान॑जस्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वत॑: सीम् । स पा॑रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
yásyā́jasraṃ śávasā mā́nam uktháṃ paribhújad ródasī viśvátas sīm | sá pā́riṣat kratúbhir mandasā́nó marútvān no bhavátv índra ūtī́ ||
He whose ceaseless force enjoys and encompasses the measure and the hymn, and from every side fills the two worlds—may he, exulting by his powers of will, protect us all around. May Indra, with the Maruts, be our help and protection.
यस्य॑ । अज॑स्रम् । शव॑सा । मान॑म् । उ॒क्थम् । प॒रि॒ऽभु॒जत् । रोद॑सी॒ इति॑ । वि॒श्वतः॑ । सी॒म् । सः । पा॒रि॒ष॒त् । क्रतु॑ऽभिः । म॒न्द॒सा॒नः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥यस्य । अजस्रम् । शवसा । मानम् । उक्थम् । परिभुजत् । रोदसी इति । विश्वतः । सीम् । सः । पारिषत् । क्रतुभिः । मन्दसानः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥yasya | ajasram | śavasā | mānam | uktham | pari-bhujat | rodasī iti | viśvataḥ | sīm | saḥ | pāriṣat | kratu-bhiḥ | mandasānaḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī