Sukta 1.10
सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः । गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥
सु॒वि॒वृतं॑ सुनि॒रज॒मिन्द्र॒ त्वादा॑त॒मिद्यश॑: । गवा॒मप॑ व्र॒जं वृ॑धि कृणु॒ष्व राधो॑ अद्रिवः ॥
suvivṛ́taṃ sunirájam índra tvā́dātam íd yáśaḥ | gavā́m ápa vrajáṃ vṛ́dhi kṛṇuṣvá rā́dho adrivaḥ ||
O Indra, wielder of the pressing-stone, the glory that is given by you is a wide opening and a sure driving-force. Increase for us the pen of the Cows (the rays of inner Light); open it out—make the plenitude (rādhas) manifest.
सु॒ऽवि॒वृत॑म् । सु॒निः॒ऽअज॑म् । इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ । गवा॑म् । अप॑ । व्र॒जम् । वृ॒धि॒ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ॥सुविवृतम् । सुनिःअजम् । इन्द्र । त्वादातम् । इत् । यशः । गवाम् । अप । व्रजम् । वृधि । कृणुष्व । राधः । अद्रिवः ॥su-vivṛtam | suniḥ-ajam | indra | tvādātam | it | yaśaḥ | gavām | apa | vrajam | vṛdhi | kṛṇuṣva | rādhaḥ | adri-vaḥ