Sukta 1.10
नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः । जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥
न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा॑ण॒मिन्व॑तः । जेष॒: स्व॑र्वतीर॒पः सं गा अ॒स्मभ्यं॑ धूनुहि ॥
náhi tvā́ rodasī ubhé ṛ́ghāyámāṇam ínvataḥ | jeṣáḥ svàr-vatīr apáḥ sám gā́ asmábhyaṃ dhūnuhi ||
For neither Heaven nor Earth can drive you back when you surge forward in your impetuous might. O Conqueror, shake down for us together the waters that bear the luminous world, and the rays of Light (the Cows).
न॒हि । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । ऋ॒घा॒यमा॑णम् । इन्व॑तः । जेषः॑ । स्वः॑ऽवतीः । अ॒पः । सम् । गाः । अ॒स्मभ्य॑म् । धू॒नु॒हि॒ ॥नहि । त्वा । रोदसी इति । उभे इति । ऋघायमाणम् । इन्वतः । जेषः । स्वःवतीः । अपः । सम् । गाः । अस्मभ्यम् । धूनुहि ॥nahi | tvā | rodasī iti | ubhe iti | ṛghāyamāṇam | invataḥ | jeṣaḥ | svaḥ-vatīḥ | apaḥ | sam | gāḥ | asmabhyam | dhūnuhi