Sukta 1.10
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे । शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥
उ॒क्थमिन्द्रा॑य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे॑ । श॒क्रो यथा॑ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ॥
ukthám índrāya śáṃsyaṃ várdhanaṃ puruniṣṣídhe | śakró yáthā sutéṣu no rāránat sakhyéṣu ca ||
A hymn of inspired utterance for Indra—worthy to be proclaimed—an increase of force for the many-accomplishing Power; so that the Mighty One, in our poured Soma-energies, may take delight, and also in our acts of comradeship.
उ॒क्थम् । इन्द्रा॑य । शंस्य॑म् । वर्ध॑नम् । पु॒रु॒निः॒ऽसिधे॑ । श॒क्रः । यथा॑ । सु॒तेषु॑ । नः॒ । र॒रण॑त् । स॒ख्येषु॑ । च॒ ॥उक्थम् । इन्द्राय । शंस्यम् । वर्धनम् । पुरुनिःसिधे । शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च ॥uktham | indrāya | śaṃsyam | vardhanam | puruniḥ-sidhe | śakraḥ | yathā | suteṣu | naḥ | raraṇat | sakhyeṣu | ca