Sukta 1.10
एहि स्तोमाँ अभि स्वराभि गृणीह्या रुव । ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥
एहि॒ स्तोमाँ॑ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व । ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ॥
ehi stomā́m̐ abhi svárābhi gṛṇīhy ā́ ruva | bráhma ca no vaso íti sacéndra yajñáṃ ca vardhaya ||
Come; answer our hymns with your shining utterance—sing forth, cry aloud. O Indra, companion of our aspiration, increase for us the brahman (the inspired word) and the yajña (the inner offering).
आ । इ॒हि॒ । स्तोमा॑न् । अ॒भि । स्व॒र॒ । अ॒भि । गृ॒णी॒हि॒ । आ । रु॒व॒ । ब्रह्म॑ । च॒ । नः॒ । व॒सो॒ इति॑ । सचा॑ । इन्द्र॑ । य॒ज्ञम् । च॒ । व॒र्ध॒य॒ ॥आ । इहि । स्तोमान् । अभि । स्वर । अभि । गृणीहि । आ । रुव । ब्रह्म । च । नः । वसो इति । सचा । इन्द्र । यज्ञम् । च । वर्धय ॥ā | ihi | stomān | abhi | svara | abhi | gṛṇīhi | ā | ruva | brahma | ca | naḥ | vaso iti | sacā | indra | yajñam | ca | vardhaya