Previous Mantra

Mantra 12

Sukta 10

(१७) (3) (१-८) १ चतुष्दा विराडनुष्टुप्, २ आर्ची त्रिष्टुप्, ३,५,७ चतुष्पदा प्राजापत्या पङ्क्तिः, ४,६,८ आर्ची बृहती। सोदक्रामत् सा वनस्पतीनागच्छत् तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।।१।। तस्माद् वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥२॥ (१८) सोदक्रामत् सा पितॄनागच्छत् तां पितरोऽघ्नत सा मासि समभवत्।।३।। तस्मात् पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥४॥(१९) सोदक्रामत् सा देवानागच्छत् तां देवा अघ्नत सार्धमासे समभवत्।।५।। तस्माद् देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥६॥(२०) सोदक्रामत् सा मनुष्या३नागच्छत् तां मनुष्याऽ अघ्नत सा सद्यः समभवत्।।७।। तस्मान्मनुष्येऽभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥८॥(२१) (4-5) (१-१६, १-१६) २२-२३, २६,२९(प्र०) चतुष्पदा साम्नी जगती, २२-२४, २८-२९(द्वि०) साम्नी बृहती, २२,२६ (तृ०) साम्नी उष्णिक्, २२-२३,२६,२९ (च०) आर्च्यनुष्टुप्, २३ (तृ०) आर्ची गायत्री, २४-२५, २८ (प्र०) चतुष्पदा उष्णिक्, २४ (तृ०) प्राजापत्यानुष्टुप्, २४-२५, २७ आर्ची त्रिष्टुप्, २५-२६ (द्वि०) साम्नी उष्णिक्, २५, २७-२८ (तृ०) विराड् गायत्री २७ (प्र०)चतुष्पदा प्राजापत्या जगती, २७ (द्वि०) साम्नी बृहती त्रिष्टुप्, २८ (च०) त्रिपदा ब्राह्मी भुरिग्गायत्री, २९ (तृ०) साम्नी अनुष्टुप्। सोदक्रामत् सासुरानागच्छत् तामसुरा उपाह्वयन्त माय एहीति ।। १।। तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम्।।२।। तां द्विमूर्धार्त्व्योऽधोक् तां मायामेवाधोक्।।३।। तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ।।४॥(२२) सोदक्रामत् सा पितॄनागच्छत् तां पितर उपाह्वयन्त स्वध एहीति ।।५।। तस्या यमो राजा वत्स आसीद् रजतपात्रं पात्रम्।।६।। तामन्तको मार्त्यवोऽधोक् तां स्वधामेवाधोक्।।७।। तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद।।८॥(२३) सोदक्रामत् सा मनुष्या३नागच्छत् तां मनुष्या३ उपाह्वयन्तेरावत्येहीति ।।९।। तस्या मनुर्वैवस्वतो वत्स आसीत् पृथिवी पात्रम् ।।१०।। तां पृथी वैन्योऽधोक् तां कृषिं च सस्यं चाधोक् ।।११।। ते कृषिं च सस्यं च मनुष्या३उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ।।१२॥(२४) सोदक्रामत् सा सप्तऋषीनागच्छत् तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ।।१३।। तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ।।१४।। तां बृहस्पतिराङ्गिरसोऽधोक् तां ब्रह्म च तपश्चाधोक् ।।१५।। तद् ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युऽपजीवनीयो भवति य एवं वेद ।१६॥(२५) (5) सोदक्रामत् सा देवानागच्छत् तां देवा उपाह्वयन्तोर्ज एहीति ।।१।। तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ।।२।। तां देवः सविताधोक् तामूर्जामेवाधोक् ।।३।। तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ।।४॥(२६) सोदक्रामत् सा गन्धर्वाप्सरस आगच्छत् तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।।५।। तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत् पुष्करपर्णं पात्रम् ।।६।। तां वसुरुचिः सौर्यवर्चसोऽधोक् तां पुण्यमेव गन्धमधोक् ।।७।। तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ।।८॥(२७) सोदक्रामत् सेतरजनानागच्छत् तामितरजना उपाह्वयन्त तिरोध एहीति।।९।। तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ।।१०।। तां रजतनाभिः काबेरकोऽधोक् तां तिरोधामेवाधोक् ।।११। तां तिरोधामितरजना उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद

sódakrāmat sā vanaspátīn ā́gacchat tā́m vanaspátayo ’ghnata sā́ saṃvatsaré sámabhavat ||1||

She stepped forth; she came unto the Lords of the Forest. The Forest-Lords smote her; within the year she came to full being.

सःhe/that (one)
सः:
Kartā
TypePronoun
Rootतद् (सः-शब्दः)
उद्up, out
उद्:
TypeIndeclinable (preverb)
Rootउद्
अक्रामत्stepped forth/advanced
अक्रामत्:
TypeVerb
Rootक्रम्
साshe/that (female)
सा:
Kartā
TypePronoun
Rootतद् (सा-शब्दः)
वनस्पतीन्lords of the forest; trees
वनस्पतीन्:
Karma
TypeNoun
Rootवनस्पति
towards
:
TypeIndeclinable (preverb)
Root
अगच्छत्went/approached
अगच्छत्:
TypeVerb
Rootगम्
ताम्her
ताम्:
Karma
TypePronoun
Rootतद्
वनस्पतयःthe trees
वनस्पतयः:
Kartā
TypeNoun
Rootवनस्पति
अघ्नतstruck/killed
अघ्नत:
TypeVerb
Rootहन्
साshe
सा:
Kartā
TypePronoun
Rootतद्
संवत्सरेin a year
संवत्सरे:
Adhikaraṇa
TypeNoun
Rootसंवत्सर
सम्together, completely
सम्:
TypeIndeclinable (preverb)
Rootसम्
अभवत्became
अभवत्:
TypeVerb
Rootभू

Rishi: Atharvanic/anonymous (etiological prose-verse style within AVŚ 8.10)

Devata: Vanaspati (plant-power) / the personified ‘she’ (a potency moving among classes of beings)

Chandas: Mixed; this unit is in a briefer narrative cadence (AV often labels surrounding verses with varying meters; input notes multiple meters across the section).

{"primary_rasa":"adbhuta","secondary_rasa":"shanta","emotional_arc":"A mysterious wandering potency meets plants → is ‘struck’ → ripens into full being across the year.","listener_experience":"Wonder at nature’s law; calm confidence in regrowth and remedy reliability.","intensity":4}