ताᳪ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाऽहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाᳪ स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम्
tā́m savitúr váreṇyasya citrā́m ā́haṃ vṛṇe sumatíṃ viśvájanyām | yā́m asyá káṇvo áduhat prápīnām sahásra-dhārāṃ páyasā mahī́ṃ gā́m
Jene leuchtende, wählenswerte Gunst Savitṛs — seine gute Huld, allen Menschen gemeinsam — die wähle ich. Sie, die Kaṇva molk, wohlgenährt: die mächtige Kuh, groß, mit Milch in tausend Strömen fließend.
ताम् । स॒वि॒तुḥ । वरे॑ण्यस्य । चि॒त्राम् । आ । अहम् । वृ॒णे । सु॒-मतिम् । वि॒श्व-ज॑न्याम् । याम् । अ॒स्य॒ । कण्वः॑ । अ॒दु॑हत् । प्र-पी॑नाम् । स॒हस्र॑-धाराम् । पय॑सा । म॒हीं । गाम्