Sukta 1.127
त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये । शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः । अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥
त्वम॑ग्ने॒ सह॑सा॒ सह॑न्तमः शु॒ष्मिन्त॑मो जायसे दे॒वता॑तये र॒यिर्न दे॒वता॑तये । शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतु॑: । अध॑ स्मा ते॒ परि॑ चरन्त्यजर श्रुष्टी॒वानो॒ नाज॑र ॥
tvám agne sáhasā sáhantamaḥ śuṣmíntamo jāyase devá-tātaye rayír ná devá-tātaye | śuṣmíntamo hí te mádo dyumníntama utá krátúḥ | ádha smā te pári caranty ajara śruṣṭī́vāno nā́jara ||
Du, o Agni, bist durch Kraft der Überwältigendste; als der Kraftvollste wirst du geboren zur Gottwerdung (devatātí), wie Fülle zur Gottwerdung. Denn dein Rausch (mada) ist der kraftvollste, dein Glanz der leuchtendste, und dein Entschluss‑Wille (krátu) der wirksamste. Dann umschreiten dich, o Unalternder, die Gehorsamen (śruṣṭīvā́n), ohne zu altern — wie Unalternde.
त्वम् । अ॒ग्ने॒ । सह॑सा । सह॑न्ऽतमः । शु॒ष्मिन्ऽत॑मः । जा॒य॒से॒ । दे॒वऽता॑तये । र॒यिः । न । दे॒वऽता॑तये । शु॒ष्मिन्ऽत॑मः॑ । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ । अध॑ । स्म॒ । ते॒ । परि॑ । च॒र॒न्ति॒ । अ॒ज॒र॒ । श्रु॒ष्टी॒वानः॑ । न । अ॒ज॒र॒ ॥त्वम् । अग्ने । सहसा । सहन्तमः । शुष्मिन्तमः । जायसे । देवतातये । रयिः । न । देवतातये । शुष्मिन्तमः । हि । ते । मदः । द्युम्निन्तमः । उत । क्रतुः । अध । स्म । ते । परि । चरन्ति । अजर । श्रुष्टीवानः । न । अजर ॥tvam | agne | sahasā | sahan-tamaḥ | śuṣmin-tamaḥ | jāyase | deva-tātaye | rayiḥ | na | deva-tātaye | śuṣmin-tamaḥ | hi | te | madaḥ | dyumnin-tamaḥ | uta | kratuḥ | adha | sma | te | pari | caranti | ajara | śruṣṭīvānaḥ | na | ajara