Sukta 10.88
वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम् । नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् ॥
वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् । नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥
vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam | nakṣatraṃ pratnam aminac cariṣṇu yakṣasyādhyakṣaṃ taviṣaṃ bṛhantam ||
কবিগণ, যজ্ঞিয়জন এবং দেবগণ অগ্নি—বৈশ্বানরকে—অজর, অবিনশ্বর—উৎপন্ন করেছেন। তিনি প্রাচীন নক্ষত্র; চলমান হয়েও ক্ষয়প্রাপ্ত হন না—যক্ষ-শক্তির অধ্যক্ষ, মহাবল, মহান।
वै॒श्वा॒न॒रम् । क॒वयः॑ । य॒ज्ञियाः॑ । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जु॒र्यम् । नक्ष॑त्रम् । प्र॒त्नम् । अमि॑नत् । च॒रि॒ष्णु । य॒क्षस्य॑ । अधि॑ऽअक्षम् । त॒वि॒षम् । बृ॒हन्त॑म् ॥वैश्वानरम् । कवयः । यज्ञियाः । अग्निम् । देवाः । अजनयन् । अजुर्यम् । नक्षत्रम् । प्रत्नम् । अमिनत् । चरिष्णु । यक्षस्य । अधिअक्षम् । तविषम् । बृहन्तम् ॥vaiśvānaram | kavayaḥ | yajñiyāḥ | agnim | devāḥ | ajanayan | arjuryam | nakṣatram | pratnam | aminat | cariṣṇu | yakṣasya | adhi-akṣam | taviṣam | bṛhantam