स॒वि॒ता त्वा॑ स॒वाना॑ᳪ सुव॒ताम॒ग्निर्गृ॒हप॑तीना॒ᳪ सोमो॒ वन॒स्पती॑नाम् । बृह॒स्पति॑र्वा॒च इन्द्रो॒ ज्यैष्ठ्या॑य रु॒द्रः प॒शुभ्यो॑ मि॒त्रः स॒त्यो वरु॑णो॒ धर्म॑पतीनाम्
savitā́ tvā savā́nāṃ suvatām agnír gṛhápatīnām sómo vanaspátīnām | bṛ́haspátir vā́ca índro jyáiṣṭhyāya rudráḥ paśúbhyo mitráḥ satyó váruṇo dhármapatīnām
ليُحَرِّكْكَ سافيتṛ لأجلِ العَصْرَات (عصر السُّوما)؛ وليكن أَغْنِي لِسَادَةِ البيت؛ وسُوما لِسَادَةِ الغابة. وليكن بْرِهَسْپَتِي للكلام؛ وإندرا للسيادة؛ ورودرا للماشية؛ وميترا هو الصادق؛ وفارونا لِسَادَةِ الدَّهَرْما (الناموس/الشرع).
सविता । त्वा । सवानाम् । सुवताम् । अग्निः । गृहपतीनाम् । सोमः । वनस्पतीनाम् । बृहस्पतिः । वाचः । इन्द्रः । ज्यैष्ठ्याय । रुद्रः । पशुभ्यः । मित्रः । सत्यः । वरुणः । धर्मपतीनाम् ।