वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ२ अ॑भि॒दास॒त्यध॑रं गमया॒ तम॑: । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृधे॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑
ví na indra mṛ́dho jahi nīcā́ yaccha pṛtanyatáḥ | yó asmā́n abhídāsaty ádharaṃ gamayā támaḥ | upayā́magṛhīto ’sī́ndrāya tvā vimṛ́dhe eṣá te yóniḥ índrāya tvā vimṛ́dhe
يا إندرا، اطرد عنا قوى العداوة، وادفع إلى أسفل العدوَّ المقاتل. ومن يهاجمنا فاسقْه إلى أسفل، إلى الظلمة. أُخذتَ بـ«أوباياما»؛ لكَ، لإندرا الغالب: هذا هو رحمُك؛ لكَ، لإندرا الغالب.
वि । नः । इन्द्र । मृधः । जहि । नीचाः । यच्छ । पृतन्यतः । यः । अस्मान् । अभिदासति । अधरम् । गमय । तमः । उपयाम-गृहीतः । असि । इन्द्राय । त्वा । वि-मृधे । एषः । ते । योनिः । इन्द्राय । त्वा । वि-मृधे ।