एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॑ ऋ॒तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ता-ता॒ पिण्डा॑नां॒ प्र जु॑होम्यग्नौ
ékaḥ tváṣṭur áśvasya víśastā dvā́ yantā́rau bhavatas táthā r̥túḥ | yā́ te gā́trāṇām r̥tuthā́ kr̥ṇómi tā́-tā pínḍānāṃ prá juhomy agnáu
يُقطَّع جزءٌ واحدٌ من حصانِ تْفَشْتْرِ؛ وجزآنِ يكونانِ مُدبِّرَيْن، وكذلك يكونُ الموسمُ (رِتُو). وما أُرتِّبه من أعضائك ترتيبًا لائقًا بحسب نظامه، فتلكَ—تلكَ القِطَعُ المتكتِّلةُ منه—أُقَدِّمُها في أَغْنِي.
एकः । त्वष्टुः । अश्वस्य । विशस्ता । द्वौ । यन्तारौ । भवतः । तथा । ऋतुः । या । ते । गात्राणाम् । ऋतु-था । कृणोमि । ताः-ताः । पिण्डानाम् । प्र । जुहोमि । अग्नौ