
Trimūrtidarśana, Gautamaśāpa, Godāvarīprādurbhāva, ca Niḥśvāsasaṃhitā-kathana
Ethical-Discourse (Dharma, Pāṣaṇḍa-critique) with Sacred-Geography (River Origin) and Ritual-Authority
婆罗诃对大地女神毗哩提毗讲述一段教诲故事,并以阿迦斯提耶向国王的报告为框架:诸仙见到梵天(莲座者,Kamalāsana)与那罗延那显现在鲁陀罗之中,因而追问三尊如何同受祭祀(yajña)供品,以及为何会出现不同教说。鲁陀罗阐明神圣参与本为不二,继而举述道德与历史的范例:在檀陀迦森林,乔多摩得赐取之不尽的谷粮,于十二年大旱中供养诸仙;后又被以“牛死”的幻相试探,诸仙误判而要求赎罪。乔多摩以苦行令恒河(Gaṅgā)降临,使牛复生,并由此形成戈达瓦里河(Godāvarī)。骗局揭露后,乔多摩诅咒立虚誓、行伪行者;鲁陀罗进一步说明迦梨时代的宗派歪曲,分辨吠陀戒律与旁陀(pāṣaṇḍa)之行,并将伦理秩序与圣地河川的显现及共同体的完整相联系。
Verse 1
अगस्त्य उवाच । एवमुक्तस्ततो देवा ऋषयश्च पिनाकिना । अहं च नृपते तस्य देवस्य प्रणतोऽभवम् ॥ ७१.१ ॥
阿伽斯提耶说道:“当持皮那迦弓者如此宣示时,诸天与诸仙——我亦然,噢大王——皆向那位神祇俯首致敬。”
Verse 2
प्रणम्य शिरसा देवं यावत् पश्यामहे नृप । तावत् तस्यैव रुद्रस्य देहस्थं कमलासनम् ॥ ७१.२ ॥
噢大王,我们以首礼拜那位神祇;在我们持续观见祂的整个期间,我们也同样看见莲座者(梵天)安住于鲁陀罗之身内。
Verse 3
नारायणं च हृदये त्रसरेणुसुसूक्ष्मकं । ज्वलद्भास्करवर्णाभं पश्याम भवदेहतः ॥ ७१.३ ॥
并且在心中,我们观见那罗延——比最微细的尘粒更为精微——其色相与光辉如烈日燃炽,从你自身之体内而显现。
Verse 4
तं दृष्ट्वा विस्मिताः सर्वे याजका ऋषयो मम । जयशब्दरवांश्चक्रुः सामऋग्यजुषां स्वनम् ॥ ७१.४ ॥
见到他时,众人——我的祭司与诸仙——皆惊异不已;他们高呼胜利之声,并使《娑摩》《梨俱》《夜柔》诸诵唱之音铿然回响。
Verse 5
कृत्वोचुस्ते तदा देवं किमिदं परमेश्वर । एकस्यामेव मूर्तौ ते लक्ष्यन्ते च त्रिमूर्त्तयः ॥ ७१.५ ॥
于是他们对那位神说道:“这是怎么回事,至上主宰啊?因为在你的一身形相之中,也能见到三身(即三相神,Trimūrti)。”
Verse 6
रुद्र उवाच । यज्ञेऽस्मिन् यद्धुतं हव्यं मामुद्दिश्य महर्षयः । ते त्रयोऽपि वयं भागं गृहीणीमः कविसत्तमाः ॥ ७१.६ ॥
鲁陀罗说道:“在此祭祀中,诸大圣仙以我为受供者而奉献的任何供物,我们三者也同取其应得之分,噢,诸贤中最胜者。”
Verse 7
नास्माकं विविधो भावो वर्तते मुनिसत्तमाः । सम्यग्दृशः प्रपश्यन्ति विपरीतेष्वनेकशः ॥ ७१.७ ॥
噢,诸牟尼中最胜者,我们之中并无多样分裂之性;具正见者,即使在相互对立的表象与见解之中,也能以多种方式洞见真理。
Verse 8
एवमुक्ते तु रुद्रेण सर्वे ते मुनयो नृप । पप्रच्छुः शङ्करं देवं मोहशास्त्रप्रयोजनम् ॥ ७१.८ ॥
鲁陀罗如此说罢,噢,大王,那些牟尼们便询问神圣的商羯罗:所谓“摩诃-沙斯特拉”(Moha-śāstra,令众生迷惑之教说/策略)的目的与施用为何。
Verse 9
ऋषय ऊचुः । मोहनार्थं तु लोकानां त्वया शास्त्रं पृथक् कृतम् । तत् त्वया हेतुना केन कृतं देव वदस्व नः ॥ ७१.९ ॥
诸仙人说道:“为使世人迷惑,你另行撰成一部《沙斯特拉》(śāstra)。神圣者啊,你为何如此撰作?请为我们说明。”
Verse 10
रुद्र उवाच । अस्ति भारतवर्षेण वनं दण्डकसंज्ञितम् । तत्र तीव्रं तपो घोरं गौतमो नाम वै द्विजः ॥ ७१.१० ॥
鲁陀罗说道:“在婆罗多界(Bhārata-varṣa)有一片名为檀陀迦(Daṇḍaka)的森林。其间有一位名叫乔达摩(Gautama)的二次生圣者,修行极其猛烈而严峻的苦行。”
Verse 11
चकार तस्य ब्रह्मा तु परितोषं गतः प्रभुः । उवाच तं मुनिं ब्रह्मा वरं ब्रूहि तपोधन ॥ ७१.११ ॥
于是梵天(Brahmā)这位主宰对他十分满意,便对那位牟尼说道:“噢,以苦行为财富者,说出你所愿求的恩赐(vara)吧。”
Verse 12
एवमुक्तस्तदा तेन ब्रह्मणा लोककर्तृणा । उवाच सद्यः पङ्क्तिं मे धान्यानां देहि पद्मज ॥ ७१.१२ ॥
当时被梵天——诸世界的创造者——如此问及,他立刻说道:“莲华所生者(Padmaja)啊,请即刻赐我一行谷粒。”
Verse 13
एवमुक्तो ददौ तस्य तमेवार्थं पितामहः । लब्ध्वा तु तं वरं विप्रः शतशृङ्गे महाश्रमम् ॥ ७१.१३ ॥
他如此请求后,祖父神(Pitāmaha,即梵天)便赐予他所求之事。得此恩赐后,那位婆罗门到达了沙多施陵伽(Śataśṛṅga)的宏大道场(隐修林)。
Verse 14
चकार तस्योषसि च पाकान्ते शालयो द्विजाः । लूयन्ते तेन मुनिना मध्याह्ने पच्यते तथा । सर्वातिथ्यमसौ विप्रो ब्राह्मणेभ्यो ददात्यलम् ॥ ७१.१४ ॥
黎明时,他安排稻田之事;待稻谷成熟之际,那位牟尼令诸二生者(婆罗门)收割。正午亦如是,烹煮之事完成。此婆罗门以圣礼款待一切来宾,并充足施与诸婆罗门。
Verse 15
कस्यचित्त्वथ कालस्य महती द्वादशाब्दिका । अनावृष्टिर्द्विजवरा अभवल्लोमहर्षिणी ॥ ७१.१५ ॥
在某一时刻,噢二生者中最殊胜者,发生了一场持续十二年的大旱,令人毛骨悚然。
Verse 16
तां दृष्ट्वा मुनयः सर्वे अनावृष्टिं वनेचराः । क्षुधया पीड्यमानास्तु प्रययुर्गौतमं तदा ॥ ७१.१६ ॥
见到那场旱灾,所有居于林中的仙人因饥饿所迫,便在那时前往乔达摩处。
Verse 17
अथ तानागतान् दृष्ट्वा गौतमः शिरसा नतः । उवाच स्थीयतां मह्यं गृहे मुनिवरात्मजाः ॥ ७१.१७ ॥
于是,乔达摩见他们到来,便俯首致敬,说道:“请诸位留在我家中吧,噢诸最上仙人的子嗣。”
Verse 18
एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् । भुञ्जमाना अनावृष्टिर्यावत्सा निवृताऽभवत् ॥ ७१.१८ ॥
他们既受其言,便留在那里,享用种种饮食,直到那段无雨之期终止。
Verse 19
निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः । तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ॥ ७१.१९ ॥
然而当那降雨止息、旱灾出现之时,那些二生者(婆罗门)以朝礼诸圣渡口(tīrtha)为名目,心中便倾向于启程离去。
Verse 20
तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् । प्रत्युवाचेतिसंचिन्त्य मिरीचः परमो मुनिः ॥ ७१.२० ॥
在那里,至上圣者弥利遮(Mīrīca)思量之后作答,提及名为商提利耶(Śāṇḍilya)的苦行者——诸牟尼中最胜者。
Verse 21
मारीच उवाच । शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः । तम् अनुक्त्वा न गच्छामस् तपश् चर्तुं तपोवनम् ॥ ७१.२१ ॥
摩利遮(Mārīca)说道:“噢,商提利耶(Śāṇḍilya),我将告知你一件吉祥之事:你的父亲是圣者瞿昙(Gautama)。不先禀告于他,我们决不前往苦行林(Tapovana)修行苦行(tapas)。”
Verse 22
एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा । किमस्माभिः स्वको देहो विक्रीतोऽस्य अन्नभक्षणात् ॥ ७१.२२ ॥
此言既出,诸牟尼当时皆笑道:“仅因吃了此人的食物,何以就说我们的身体仿佛‘被卖掉’了呢?”
Verse 23
एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति । कृत्वा मायामयीं गां तु तच्छालौ ते व्यसर्जयन् ॥ ७१.२३ ॥
说罢,他们又商议以托辞前去接近他;并以幻力造作一头幻牛,随后将其放入他的牛棚之中。
Verse 24
तां चरन्तीं ततो दृष्ट्वा शालौ गां गौतमो मुनिः । गृहीत्वा सलिलं पाणौ याहि रुद्रेtyभाषत । ततो मायामयी सा गौः पपात जलबिन्दुभिः ॥ ७१.२४ ॥
随后,见那母牛在娑罗林中行走,圣者乔达摩以掌掬水,说道:“往鲁陀罗处去。”于是那由幻力所成之牛,因水滴落其身而倒下。
Verse 25
निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा । उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ॥ ७१.२५ ॥
随后,他见她已被杀,又见诸圣者正欲离去;智者乔达摩俯身致敬而立,对那些圣者说道。
Verse 26
किमर्थं गम्यते विप्राः साधु शंसत माचिरम् । मां विहाय सदा भक्तं प्रणतं च विशेषतः ॥ ७१.२६ ॥
“诸婆罗门啊,你们为何要离去?请如实告知,勿再迟延——竟舍我这恒常敬信、尤为俯伏礼敬你们之人而去。”
Verse 27
ऋषय ऊचुः । गोवध्येमिह ब्रह्मन् यावत् तव शरीरगा । तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ॥ ७१.२७ ॥
诸圣者说道:“婆罗门啊,只要我们仍在此处、仍在你身在之境,我们便不食任何饮食——尤其不食你的食物,大圣者啊。”
Verse 28
एवमुक्तो गौतमोऽथ तान् मुनीन् प्राह धर्मवित् । प्रायश्चित्तं गोवध्याया दीयतां मे तपोधनाः ॥ ७१.२८ ॥
乔达摩既闻此言,作为通达法义者,便对诸牟尼说道:“诸位以苦行为财者,请为我制定杀牛之罪的忏悔与赎罪法(prāyaścitta)。”
Verse 29
इयं गौरमृता ब्रह्मन् मूर्च्छितेव व्यवस्थिताः । गङ्गाजलप्लुता चेयमुत्थास्यति न संशयः ॥ ७१.२९ ॥
婆罗门啊,这头母牛仿佛昏厥般躺着,似乎已死;然而一旦被恒河之水洒净或浸润,她必将再度起身——对此毫无疑问。
Verse 30
प्रायश्चित्तं मृतायाः स्यादमृतायाः कृतं त्विदम् । व्रतं वा मा कृथाः कोपमित्युक्त्वा प्रययुस्तु ते ॥ ७१.३० ॥
“这本应是为死者所行的赎罪仪式(prāyaścitta);但此事却为未死者而作。或者,就把它当作一项誓戒(vrata)吧。请勿动怒。”说罢,他们便离去。
Verse 31
गतैस्तैर्गौतमो धीमान् हिमवन्तं महागिरिम् । मामाराधयिषुः प्रायात् तप्तुं चाशु महत् तपः ॥ ७१.३१ ॥
他们离去之后,智者乔达摩启程前往喜马梵特那座大山,愿以苦行取悦于我,并迅速开始宏大的苦修。
Verse 32
शतमेकं तु वर्षाणामहमाराधितोऽभवम् । तुष्टेन च मया प्रोक्तो वरं वरय सुव्रत ॥ ७१.३२ ॥
“整整一百年,我受到了你的虔诚奉事而得以满足。随后我心生欢喜,说:‘善守戒行者啊,选择一个恩赐吧。’”
Verse 33
सोऽब्रवीन्मां जकटासंस्थां देहि गङ्गां तपस्विनीम् । मया सार्धं प्रयात्वेषा पुण्या भागीरथी नदी ॥ ७१.३३ ॥
他对我说:“噢,修苦行者,请赐予那位安住于盘结发髻中的恒河——薄伽罗提;愿这条圣河与我一同前行。”
Verse 34
एवमुक्ते जटाखण्डमेकं स प्रददौ शिवः । तां गृहीत्वा गतवान् सोऽपि यत्रास्ते सा तु गौर्मृता ॥ ७१.३४ ॥
话既如此,湿婆赐下一缕结发(其纠结长发之一段)。他取了那缕,也前往她所在之处;然而那头母牛已然死去。
Verse 35
तज्जलप्लाविता सा गौर्गता चोत्थाय भामिनी । नदी च महती जाता पुण्यतोया शुचिह्रदा ॥ ७१.३५ ॥
被那水所漫溢,母牛——起身而行,噢光辉的女士——便向前而去;随即出现一条大河,河水能净化成福,其水潭(河心)亦清净无垢。
Verse 36
तं दृष्ट्वा महदाश्चर्यं तत्र सप्तर्षयोऽमलाः । आजग्मुः खे विमानस्थाः साधुः साध्विति वादिनः ॥ ७१.३६ ॥
见到这伟大奇迹,无垢的七圣仙(七仙)乘坐空中天车而来,停驻于天际,高声称赞:“善哉,善哉!”
Verse 37
साधु गौतम साधूनां कोऽन्योऽस्ति सदृशस्तव । यदेवं जाह्नवीं देवीं दण्डके चावतारयत् ॥ ७१.३७ ॥
“善哉,乔多摩!在诸贤德之中,谁还能与你相比?因为你以此方式使女神阇诃那毗(即恒河)降下,又使她降临于檀陀迦林地。”
Verse 38
एवमुक्तस्तदा तैस्तु गौतमः किमिदं त्विति । गोवध्याकारणं मह्यं तावत् पश्यति गौतमः ॥ ७१.३८ ॥
当时他们如此对他说,乔多摩问道:“这究竟是什么?”随即乔多摩便在那程度上洞见了屠牛之事的缘由。
Verse 39
ऋषीणां मायया सर्वमिदं जातं विचिन्त्य वै । शशाप तान् जटाभस्ममिथ्याव्रतधरास्तथा । भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ॥ ७१.३९ ॥
他思惟此一切皆由诸仙(ṛṣi)之幻力(māyā)而起,遂诅咒他们:“你们亦将披结发、涂灰,守持虚妄之誓;必成三吠陀之外人,被摒弃于吠陀诸仪轨之外。”
Verse 40
तच्छ्रुत्वा क्रूरवचनं गौतमस्य महामुनेः । ऊचुः सप्तर्षयो मैवं सर्वकालं द्विजोत्तमाः । भवन्तु किं तु ते वाक्यं मोघं नास्त्यत्र संशयः ॥ ७१.४० ॥
听闻大圣者乔达摩的严厉之言,七仙说道:“愿莫如此,噢最胜二生者。然而汝之言辞必不徒然,此中无疑。”
Verse 41
यदि नाम कलौ सर्वे भविष्यन्ति द्विजोत्तमाः । उपकारीणि ये ते हि अपकर्तार एव हि । इत्थंभूता अपि कलौ भक्तिभाजो भवन्तु ते ॥ ७१.४१ ॥
纵然在迦利时代,众人皆被视为“最胜二生者”,那些外表似乎有益之人,实则正是加害者。即便如此,愿他们在迦利中仍得分沾奉爱(bhakti)。
Verse 42
त्वद्वाक्यवह्निनिर्दग्धाः सदा कलियुगे द्विजाः । भविष्यन्ति क्रियाहीना वेदकर्मबहिष्कृताः ॥ ७१.४२ ॥
在迦利时代,二生者将恒如被汝言语之火所灼;他们将失却所规定的行仪,被排除于吠陀祭仪义务之外。
Verse 43
अस्याश्च गौणं नामेह नदी गोदावरीति च । गौर्दत्ता वरदानाच्च भवेद् गोदावरी नदी ॥ ७१.४३ ॥
在此,这条河的次要(通行)之名为“戈达瓦丽(Godāvarī)”。因其为“由牛所赐”,又因蒙受赐福,此河遂得名为戈达瓦丽。
Verse 44
एतां प्राप्य कलौ ब्रह्मन् गां ददन्ति जनाश्च ये । यथाशक्त्या तु दानानि मोदन्ते त्रिदशैः सह ॥ ७१.४४ ॥
婆罗门啊,在迦利时代,凡得此功德机缘而施舍一牛,并随己力行诸布施者,皆与三十天(诸天神)同欢喜。
Verse 45
सिंहस्थे च गुरौ तत्र यो गच्छति समाहितः । स्नात्वा च विधिना तत्र पितॄन् स्तर्पयते तथा ॥ ७१.४५ ॥
当木星(师神,Guru)位于狮子宫时,凡以摄心而往彼处者,依仪轨沐浴,并以塔尔帕那(献水祭)同样令祖先得满足。
Verse 46
स्वर्गं गच्छन्ति पितरो निरये पतिता अपि । स्वर्गस्थाः पितरस्तस्य मुक्तिभाजो न संशयः ॥ ७१.४६ ॥
即便堕入地狱境的祖先也能趋向天界;而此人的祖先既在天上,便得分受解脱(穆克提)之果,此无疑也。
Verse 47
त्वं ख्यातिं महतीं प्राप्य मुक्तिं यास्यसि शाश्वतीम् । एवमुक्त्वाऽथ मुनयो ययुः कैलासपर्वतम् । यत्राहमुमया सार्धं सदा तिष्ठामि सत्तमाः ॥ ७१.४७ ॥
“得大名闻之后,你将趋入永恒的解脱。”如是说罢,诸牟尼前往凯拉萨山——在那里,我与乌玛常住不离;噫,诸善中之最胜者。
Verse 48
ऊचुर्मां ते च मुनयो भवितारो द्विजोत्तमाः । कलौ त्वद्रूपिणः सर्वे जटामुकुटधारिणः । स्वेच्छया प्रेतवेषाश्च मिथ्यालिङ्गधराः प्रभो ॥ ७१.४८ ॥
那些牟尼对我说:“在迦利时代,噫,最胜的二生者啊,众人都将仿作你的形相——以结发(jaṭā)如冠而戴;然而仅凭任性,他们将披上可怖的伪装,并佩持虚假的外相标记,主啊。”
Verse 49
तेषामनुग्रहार्थाय किञ्चिच्छास्त्रं प्रदीयताम् । येनास्मद्वंशजाः सर्वे वर्तेयुः कलिपीडिताः ॥ ७१.४९ ॥
为施予他们恩惠,应传授一些教诫(实用的《沙斯特拉》śāstra),使我族一切后裔虽受迦梨时代所迫,仍能继续生活并依正道行持。
Verse 50
एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्तमाः । वेदक्रियासमायुक्तां कृतवानस्मि संहिताम् ॥ ७१.५० ॥
因此,往昔他们向我祈请之时,噢,最殊胜的两次生者,我编纂了一部具足吠陀仪轨与祭仪程序的《三希塔》(saṃhitā)。
Verse 51
निःश्वासाख्यां ततस्तस्यां लीना बाभ्रव्यशाण्डिलाः । अल्पापराधाच्छ्रुत्वैव गता बैडालिका भवन ॥ ७१.५१ ॥
随后,巴布拉维亚与商提拉诸系(或圣贤)进入名为“尼赫施瓦萨”(Niḥśvāsa)之处;但他们仅听闻过失甚微,便转往“拜陀利迦”(Baiḍālika)的住处。
Verse 52
मयैव मोहितास्ते हि भविष्यं जानता द्विजाः । लौल्यार्थिनस्तु शास्त्राणि करिष्यन्ति कलौ नराः ॥ ७१.५२ ॥
确实,那些两次生者虽知未来,却被我所迷惑。在迦梨时代,人们因贪欲求利,将撰作种种论典(śāstra)。
Verse 53
निःश्वाससंहितायां हि लक्षमात्रं प्रमाणतः । सैव पाशुपती दीक्षा योगः पाशुपतस्त्विह ॥ ७१.५३ ॥
在《尼赫施瓦萨三希塔》(Niḥśvāsa-saṃhitā)中,据权威的度量说其规模为十万(单位/偈颂)。此即帕舒帕塔(Pāśupata)的灌顶入门(dīkṣā);而此处的修持则为帕舒帕塔瑜伽。
Verse 54
एतस्माद्वेदमार्गाद्धि यदन्यदिह जायते । तत्क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम् ॥ ७१.५४ ॥
因此,凡在此处脱离吠陀正道而生起者,当知皆为卑劣之业:性多暴烈,且无清净。
Verse 55
ये रुद्रमुपजीवन्ति कलौ वैडालिका नराः । लौल्यार्थिनः स्वशास्त्राणि करिष्यन्ति कलौ नराः । उच्छुष्मरुद्रास्ते ज्ञेया नाहं तेषु व्यवस्थितः ॥ ७१.५५ ॥
在迦利时代,那些以呼号鲁陀罗为生的卑劣投机之人,将因贪欲而编造自家的“论典”。当知彼等为“乌出舒摩—鲁陀罗”(污秽之鲁陀罗);我不住于他们之中。
Verse 56
भैरवेण स्वरूपेण देवकार्ये यदा पुरा । नर्तितं तु मया सोऽयं सम्बन्धः क्रूरकर्मणाम् ॥ ७१.५६ ॥
往昔我为成就诸天之事而现作怖畏尊(Bhairava)之形,确曾起舞;由此便生出我与凶猛之业的这一关联。
Verse 57
क्षयं निनीषता दैत्यानट्टहासो मया कृतः । यः पुरा तत्र ये मह्यं पतिता अश्रुबिन्दवः । असंख्यातास्तु ते रौद्रा भवितारो महीतले ॥ ७१.५७ ॥
当我意欲毁灭阿修罗族的代底耶时,曾发出震天的嘲笑。由此,那时从我处落下的泪滴——不可胜数——将于大地之上化为凶猛之众生。
Verse 58
uchChuShmaniratA raudrAH surAmAMsapriyAH sadA | strIlolAH pApakarmANaH saMbhUtA bhUtaleShu te || 71.58 ||
彼等沉溺于污秽,性情暴烈,恒喜酒与肉,耽恋女色,造作罪业;如是之众已在大地上出生。
Verse 59
तेषां गौतमशापाद्धि भविष्यन्त्यन्वये द्विजाः । तेषां मध्ये सदाचाराः ये ते मच्छासने रताः ॥ ७१.५९ ॥
确实,由于乔达摩的诅咒,他们的族系中将出现婆罗门(再生者)。其中将有持守正行者——乐于奉行我教诲者。
Verse 60
स्वर्गं चैवापवर्गं च इति वै संशयात् पुरा । वैडालिका अधो यास्यन्ति मम संततिदूषकाः ॥ ७१.६० ॥
往昔确有疑惑:“天界,亦或解脱(阿婆伐伽)。”然而毗陀利迦——败坏我族系者——必将下堕,趋入下劣之境。
Verse 61
प्राग्गौतमाग्निना दग्धाः पुनर्मद्वचनाद्द्विजाः । नरकं तु गमिष्यन्ति नात्र कार्या विचारणा ॥ ७१.६१ ॥
先前,再生者曾被乔达摩之火焚烧;而今又因我之言,他们将赴地狱——对此不必再作思量。
Verse 62
रुद्र उवाच । एवं मया ब्रह्मसुताः प्रोक्ता जग्मुर्यथागतम् । गौतमोऽपि स्वकं गेहं जगामाशु परंतपः ॥ ७१.६२ ॥
鲁陀罗说道:“如是,我已教诲梵天之子,他们便如来时一般离去而返。乔达摩亦迅速回到自己的住处,噢,降伏仇敌者。”
Verse 63
एतद्वः कथितं विप्रा मया धर्मस्य लक्षणम् । एतस्माद्विपरीतो यः स पाषण्डरतो भवेत् ॥ ७१.६३ ॥
诸位婆罗门圣贤,我已向你们宣说法(dharma)的界定之相。凡与此相违而行者,必将沉溺于波散荼(异端与伪善之宗教)。
The chapter presents a two-part instruction: (1) a theological-ritual claim that yajña offerings directed to Rudra are concurrently shared by the three (Rudra, Brahmā, Nārāyaṇa), suggesting a unified ground perceived by “samyag-dṛś” (right-seeing) observers; and (2) an ethical warning against deception, false vows, and outward insignia without discipline (mithyā-vrata, mithyāliṅga). The Gautama narrative functions as a case study in hospitality during ecological crisis, the dangers of misrecognition under māyā, and the social consequences of conduct deemed trayī-bāhya (outside Vedic normativity).
The narrative specifies a dvādaśābdikā anāvṛṣṭi (a twelve-year drought) as the major chronological marker. It also notes daily ritual-economy timing around food production and giving—grain is harvested in the morning (uṣasi), cooked at midday (madhyāhne), and distributed to guests—framing dharma as structured by diurnal cycles rather than explicit tithi-based calendrics. A later pilgrimage context is implied by the sages’ intention for tīrtha-yātrā, but no lunar tithis are named.
Environmental balance is treated through drought, water descent, and river formation as moral-ecological narrative. The twelve-year anāvṛṣṭi creates scarcity pressures; Gautama’s managed abundance supports community resilience (atithi-dharma as a response to ecological stress). The descent of Gaṅgā via Rudra’s jaṭā and the transformation into the Godāvarī links ascetic practice to hydrological renewal, presenting rivers as agents of purification and intergenerational benefit (pitṛ-tarpaṇa, uplift of ancestors). This framing supports an early ecological ethic: sustaining life during drought, safeguarding water sources, and sacralizing river stewardship through tīrtha practice.
Key sage figures include Agastya (narrator), Gautama (central ascetic), Mārīca, Śāṇḍilya, and the Saptarṣis. Divine figures include Rudra/Śaṅkara, Brahmā (Padmaja/Kamalāsana), and Nārāyaṇa. A royal addressee (nṛpati) appears as the audience in Agastya’s report. The chapter also references groups characterized as Vaiḍālika and “Uchchuṣma-rudrāḥ” in a Kali-yuga social typology, treating them as later descendants/imitators associated with false disciplinary forms.