
Yamapurī–gopura-vibhāgaḥ sabhā-varṇanaṃ ca
Ethical-Discourse (Karmic Jurisprudence and Afterlife Topography)
在伐罗诃与大地(Varāha–Pṛthivī)的教诲框架中,本章以业报裁断为训诫,强调以自制与正行守护人间。经文描绘阎摩(Vaivasvata)之坚固天城,城门众多,因材质与光辉而各异。入城依道德品行而定:有功德者循序安然入门,作恶者则被引向可怖炽热、如铁般的门户,伴随火焰与恐惧的意象。城内有如宝石般的集会殿(sabhā)为审判之所,通达法(dharma)的权威——摩奴(Manu)、生主(Prajāpati)、诸仙与精通经典(śāstra)者——依据“所见”与“所教”审议诸行。文本强调程序严谨、公正中立与经教标准,以因果之理教化世间行为。
Verse 1
ऋषिपुत्र उवाच ॥ दशयोजनविस्तारं ततो द्विगुणमायतम् ॥ प्राकारेण परिक्षिप्तं प्रासादशतशोभितम् ॥
圣仙之子说道:“其宽十由旬,长为其二倍;以城垣环绕,装点着百座殿堂。”
Verse 2
समालिखदिवाकाशं प्रदीप्तमिव तेजसा ॥ गोपुरं तूत्तमं तत्र प्रासादशतशोभितम् ॥
白昼之中仿佛勾勒天穹,宛若以光辉炽燃;其处立有最胜的塔门(gopura),并以百座殿堂增其庄严。
Verse 3
नानायन्त्रैः समाकीर्णं ज्वालामालासमायुतम् ॥ देवतानामृषीणां च ये चान्ये शुभकारिणः ॥
其中遍布种种器具与机关,并配以火焰般的光鬘。此处(所归属者)为诸天与诸仙人,亦及其他行吉祥善业之人。
Verse 4
प्रवेशस्तत्र तेषां हि विहितो धर्मदर्शिनाम् ॥ राजते गोपुरं सर्वं शारदाभ्रचयप्रभम् ॥
确然,唯有洞见法(dharma)者方被规定得以入内。整座塔门(gopura)辉耀夺目,光泽如秋空云团之盛。
Verse 5
मानुषाणां सुकृतिनां प्रवेशस्तत्र निर्मितः ॥ अग्निघर्मसमाकीर्णं सर्वदोषसमन्वितम् ॥
为具善业的世人,彼处已设有入口。(另有一境)充满火焰与热灼,具足一切过失之相。
Verse 6
आयसಂ गोपुरं तत्र दक्षिणं भीमदर्शनम् ॥ रौद्रं प्रतिभयाकारं सुतप्तं दुर्निरीक्षणम् ॥
彼处南方的门楼为铁所成,观之骇人——凶猛如怖畏之形,炽热灼烫,令人难以直视。
Verse 7
प्रवेशो हि ततस्तेन विहितो रविसूनुना ॥ पापिष्ठानां नृशंसानां क्रव्यादानां दुरात्मनाम् ॥
确实,由太阳之子所规定,经由此途入者,乃最极罪恶之人——残忍者、食肉者,以及心性邪恶者。
Verse 8
पापानां चैव सर्वेषां ये चान्ये घातकारकाः ॥ औदुम्बरमवीचीकमुच्चावचमनःकृतम् ॥
又为一切罪人,以及其他行凶杀暴行者——有“乌檀婆罗”(Audumbara)与“无间”(Avīcī),以种种方式造成心神迷乱而造作。
Verse 9
गोपुरं पश्चिमं तच्च दुर्निरीक्षं समन्ततः ॥ महता वह्निजालेन समालिप्तं भयानकम् ॥
而那西方门楼四面皆难以直视;被巨大的火网所涂覆缠绕,令人恐惧。
Verse 10
सर्वरत्नमयी दिव्या वैवस्वतनियोजिता ॥ सभा परमसंपन्ना धार्मिकैः सत्यवादिभिः ॥
那神圣的会众,仿佛由一切宝珠所成,并奉于毗婆斯瓦多(阎摩)之统摄,极其圆满丰盛,充满持法而说真实语之人。
Verse 11
जितक्रोधैरलुब्धैश्च वीतरागैस्तपस्विभिः ॥ सा सभा धर्मयुक्तानां सा सभा पापकाणिराम् ॥
此会众由降伏忿怒、离贪、无著之苦行者组成;它是与法相应者之会众,亦是关涉作恶之人者之会众。
Verse 12
सा सभा सर्वलोकस्य शुभस्यैवाशुभस्य च ॥ कर्मणा सूचितस्याथ सा सभा धर्मसंहिता ॥
彼会众关涉一切世界——吉与凶皆然——并关涉由自身业行所显示之诸业;因此,它是依于法之秩序而成立的会众。
Verse 13
अनिर्वर्त्यं यथा कर्म शास्त्रदृष्टेन कर्मणा ॥ निर्विशङ्का निराक्षेपा धर्मज्ञा धर्मपाठकाः ॥
正如一项行为应依诸论典(śāstra)所认可之法而圆满完成,如是知法者与诵持/教授法者亦作审议,心无疑惧,亦无责难与异议。
Verse 14
चिन्तयन्ति च कार्याणि सर्वलोकहिताय ते ॥ यथादृष्टं यथाशास्त्रं यथाकालनिवेदकाः ॥
他们为一切众生之利益而思量诸事,并依所见、依诸论典之教、并依时宜而陈述与呈报其结论。
Verse 15
ततः सर्वे च तत्सर्वं चिन्तयन्ति सुयन्त्रिताः ॥ मनुः प्रजापतिश्चैव पाराशर्यो महामुनिः ॥
于是众人皆自持严整,思惟此一切——摩奴(Manu)、生主(Prajāpati)以及大牟尼帕罗沙利耶(Pārāśarya)。
Verse 16
अत्रिरौद्दालकिश्चैव आपस्तम्बश्च वीर्यवान् ॥ बृहस्पतिश्च शुक्रश्च गौतमश्च महातपाः ॥
阿特里(Atri)与奥达罗迦(Auddālaki)在彼,精力雄健的阿帕斯坦婆(Āpastamba)亦在;又有布里哈斯帕提(Bṛhaspati)、舒克罗(Śukra),以及大苦行者乔多摩(Gautama)。
Verse 17
शङ्खश्च लिखितश्चैव ह्यङ्गिरा भृगुरेव च ॥ पुलस्त्यः पुलहश्चैव ये चान्ये धर्मपाठकाः ॥
又有商迦(Śaṅkha)与利奇多(Likhita),并有安吉罗(Aṅgiras)与婆利古(Bhṛgu);普罗拉斯提耶(Pulastya)与普罗诃(Pulaha)亦在,及其余诵持、教授法(dharma)者。
Verse 18
यमेन सहिताः सर्वे चिन्तयन्ति प्रतिक्रियााम् ॥ सर्वे च कामप्रचुरा ये दिव्या ये च मानुषाः ॥
众人并与阎摩(Yama)同在,商议相应之对策与补救之法;而一切众生——无论天界或人间——皆多欲,故受衡量与裁断。
Verse 19
तेजसा वचसा चैव दुर्निरीक्ष्यो महाबलः ॥ एकस्थमिव सर्वेषां तेजस्तेजस्विनां तदा ॥
以其光辉与言辞,彼难以直视,具大威力;当时,一切光耀者之光辉,仿佛汇聚于同一处所。
Verse 20
तस्य पार्श्वे महादिव्या ऋषयो ब्रह्मवादिनः ॥ दीप्यमानाः स्ववपुषा वेदवेदाङ्गपारगाः ॥
在他身旁有伟大而光耀的圣仙(ṛṣi),宣说梵(Brahman)之义者;他们以自身光辉照耀,通达诸吠陀及吠陀支(Vedāṅga)。
Verse 21
वेदार्थानां विचारज्ञाः सत्यधर्मपुरस्कृताः ॥ छन्दःशिक्षाविकल्पज्ञाः सर्वशास्त्रविकल्पकाः ॥
他们善于辨析吠陀义理,以真实与法(dharma)为先;精通韵律学(chandas)与语音学(śikṣā)的分析传统,并通晓一切论典(śāstra)的诠释方法。
Verse 22
निरुक्तमतिवादाश्च सामगान्धर्वशोभिताः ॥ धातुवादाश्च विविधा निरुक्ताश्चैव नैगमाः ॥
他们以依于《尼卢克多》(nirukta,词源阐释)的讨论与精妙辩论为饰;又以萨曼圣歌的吟诵与乾闼婆(gāndharva)音乐艺术而增辉;并从事多种动词词根的分析,以及依nirukta而作的传统(naigama)义解。
Verse 23
तत्र चैव मया दृष्टा ऋषयः पितरस्तथा ॥ भवने धर्मराजस्य प्रगायन्तः कथाः शुभाः ॥
在那里,我也在法王(Dharma-rāja)的居所见到圣仙与祖灵(pitṛ),吟唱吉祥的圣传故事。
Verse 24
तस्य पार्श्वे मया दृष्टः कृष्णवर्णो महाहनुः ॥ उत्तमः प्रकृताकार ऊर्ध्वरोमा निराकृतिः ॥
在他身旁,我见到一位肤色黝黑、下颌巨大者——形貌雄伟,自然成相,毛发竖立,仪容令人震慑。
Verse 25
वामबाहुश्च दण्डेन प्रवरेण समन्वितः ॥ विकृतास्यो महादंष्ट्रो नित्यक्रुद्धो भयानकः ॥
他的左臂配有上等之杖;面容扭曲,獠牙巨大——恒常忿怒,令人战栗。
Verse 26
शिक्षार्थे धर्मराजेन सन्दिष्टः स पुनः पुनः ॥ शृणोति चैव कालोऽसौ नित्ययुक्तः सनातनः ॥
为施教与约束,法王(Dharma-rāja)屡次训示于他;而彼迦罗(Kāla,时间)确实聆受——恒常专注,永恒不变。
Verse 27
तथान्ये चापरे तत्र शासनॆषु समाहिताः ॥ दृष्टास्तत्र मया तात सर्वतेजोमयी शुभा ॥
又有他人亦在彼处专注于诸般法令;而我在那里见到,亲爱的啊,一种吉祥之相,通体由光辉所成。
Verse 28
अतः परं न कर्त्तव्यं साधनं कथितं बुधैः ॥ बिभ्यन्ति ह्यसुरास्तत्र ऋषयश्च तपोधनाः ॥
因此,除此之外不应再行他法修持——智者如是宣说;因为在那里,连阿修罗与具苦行之财的圣仙亦心生畏惧。
Verse 29
असुराश्च सुराश्चैव योगिनश्च महौजसः ॥ नमस्कार्या च पूज्या च मोहिनी सर्वसाधनी ॥
阿修罗与天神同样,及大威力之瑜伽行者,皆当致敬礼拜而供养;而摩希尼(Mohinī)——于一切成就皆有效者——亦应受崇敬。
Verse 30
तस्याङ्गेभ्यः समुद्भूता व्याधयः क्लेशसम्भवाः ॥ अपराश्च महाघोराः व्याधयः कालनिर्मिताः
从他的肢体中生起由苦恼所生的诸病;又有其他极其可怖的疾病——由时间(迦罗,Kāla)所造——亦随之显现。
Verse 31
पौरुषेण समायुक्ताः सर्वलोकनयायताः ॥ प्रकृत्या दुर्विनीतश्च महाक्रोधः सुदारुणः
他们具足凶猛之力,权势遍及一切世界;而又本性乖戾、难以调伏——那便是“大忿怒”,极其可怖。
Verse 32
महासत्त्वो महातेजाः जरामरणवर्जितः ॥ मृत्युर्दृष्टा दुराधर्षो दिव्यगन्धानुलेपनः
我见到“死”(Mṛtyu):体性宏大、光辉炽盛,离于衰老与再死;不可侵犯,身涂天界妙香。
Verse 33
गायकाः हासकाश्चैव सर्वजीवप्रबोधकाः ॥ मृत्युनासहिता नित्यं कालज्ञा कालसम्मताः
又有歌者与戏谑者,能唤醒一切众生;他们恒常随侍于死,通晓时间,并与时间的法令相应。
Verse 34
दिव्याभरणशोभाभिः शोभमानाः सुतेजसः ॥ सवालयवजनच्छन्नैः केचित्तत्र महौजसः
其中有些大有威势者,以天界庄严的璎珞饰物与光耀之辉而熠熠生辉,并以衣裳与扇盖等为标识而覆身。
Verse 35
पर्यास्तरणसंछन्नेष्वासनेषु तथा परे ॥ पूज्यमाना मया दृष्टाः केचित्तत्र महौजसः
我又见到一些人坐在铺着帷褥的榻与座上,在那里受人礼敬;其中有些具大威力与光辉。
Verse 36
अनेकाश्च नरास्तत्र वेदनाश्च सुदारुणाः ॥ नारीनरसवरूपाश्च मया दृष्टास्त्वनेकशः
那里有许多男子,也有极其可怖的痛苦;我又多次见到许多具女相与男相之形的众生。
Verse 37
तासां हलहलाशब्दः सर्वासां च समन्ततः ॥ धर्मराजसमीपे तु दारयन्ति धरामिमाम्
从她们众人四面八方传出“哈拉哈拉(halahalā)”的呼号;在法王(Dharmarāja)近旁,她们仿佛要撕裂这大地。
Verse 38
कूष्माण्डा यातुधानाश्च राक्षसाः पिशिताशनाः ॥ एकपादा द्विपादाश्च त्रिपादा बहुपादकाः
那里有库什曼达(Kūṣmāṇḍa)、夜图达那(Yātudhāna)与罗刹(Rākṣasa)——食肉者——有的一足,有的二足,有的三足,有的多足。
Verse 39
एकबाहुर्द्विबाहुश्च त्रिबाहुर्बहुबाहुकः ॥ शङ्कुकर्णा महाकर्णा हस्तिकर्णास्तथाऽपरे
有的独臂,有的双臂,有的三臂,有的多臂;有的耳如海螺,有的巨耳,亦有耳似象耳者。
Verse 40
केचित्तु तत्र पुरुषाः सर्वशोभाविशोभिताः ॥ केयूरैर्मुकुटैश्चान्ये चित्रैरङ्गैस्तथाऽपरे ॥
在那里,有些男子以种种光辉庄严其身;有的佩戴臂钏与冠冕;还有的身躯饰以斑斓多样的装饰。
Verse 41
स्रग्विणो बद्धपादाश्च सर्वाभरणभूषिताः ॥ सकुठाराः सकुद्दालाः सचक्राः शूलपाणयः ॥
有的佩戴花鬘,有的双足被缚,而众人皆以诸饰庄严;有的执斧与锄,有的持轮(cakra),有的手握长矛。
Verse 42
सशक्तितोमराः केचित्सधनुष्का दुरासदाः ॥ असिहस्तास्तथा चान्ये तथा मुद्गरपाणयः ॥
有的执长矛与投枪;有的为弓手,难以近前。另有的手持利剑,也有的手执钉锤(权杖)在手。
Verse 43
सज्जिता दधिहस्ताश्च गन्धहस्ता ह्यनेकशः ॥ विचित्रभक्षहस्ताश्च वस्त्रहस्तास्तथैव च ॥
他们皆已整备;有的手持凝乳(dadhi),许多人手捧香料与香膏。又有的手持各样饮食,也有的手持衣服。
Verse 44
धूपान्प्रगृह्य विविधान्वासांसि शुभदर्शनाः ॥ शिबिकाश्च महाशोभा यानानि विविधानि च ॥
他们手持种种熏香(dhūpa)与衣裳,观之悦目;又有极其华美的肩舆(śibikā),以及多种车辆。
Verse 45
वाजिकुञ्जरयुक्तानि हंसयुक्तानि चापरे ॥ शरभैरृषभैश्चापि हस्तिभिश्च सुदर्शनैः ॥
有些乘具套以马与象;另一些则套以天鹅。还有的由舍罗婆(śarabha)与公牛牵引,并由形貌殊胜的群象牵挽。
Verse 46
उज्ज्वला मलिनाश्चैव जीर्णवस्त्रा नवांशुकाः ॥ सुमनाभिमना मूका मारकाः शतमारकाः ॥
有的光耀明净,有的污秽不洁;有的衣衫破旧,有的披着新衣。(其中有)心地善良者与自负者,哑默者,杀人者,以及百倍杀戮者。
Verse 47
समार्जारी काचवर्णा कृष्णा चैव कलिस्तथा ॥ धर्महस्ता यशोहस्ता कीर्त्तिहस्तास्तथापरे ॥
其中有(名为)萨摩尔迦梨(Samārjārī)、迦遮色(Kāca-varṇā)、黑女(Kṛṣṇā),以及迦梨(Kali);又有他者(名为)持法者(Dharma-hastā)、持誉者(Yaśo-hastā)与持名声者(Kīrti-hastā)。
Verse 48
एते पुरोगमास्तत्र कृतान्तस्य महात्मनः ॥ यद्येतानि यजेद्विप्रो नास्ति तस्य पराभवः ॥
这些乃是大心之克利檀多(Kṛtānta)在彼处的前导者;若有婆罗门礼敬供奉此等,则于彼无有败北。
Verse 49
नमस्कार्याश्च पूज्याश्च आपन्नेन हि नित्यशः ॥ परितुष्य कृता नित्यं विहिताः सार्वलौकिकाः ॥
凡处困厄之人,当日日向彼等顶礼致敬而加以供养;既已如法令其欢喜,彼等便恒常被差遣,办理世间共通之事。
Verse 50
दुष्कृतिनां प्रवेशार्थं यमेन विहितं स्वयम् ॥ तस्मिन् पुरवरे रम्ये रम्या परम शोभना
为使作恶者得以进入,此处由阎摩亲自设立。在那座可爱而殊胜的城中,有一位极其庄严美妙的形相。
Verse 51
कुण्डलाभ्यां पिनद्धाभ्यामङ्गदाभ्यां महातपाः ॥ भ्राजते मुकुटस्तस्य ब्रह्मदत्तो महाद्युतिः
大苦行者啊,其身佩戴牢固的耳环与臂钏。其上有一顶由梵天所赐、光辉宏大的宝冠熠熠生辉。
Verse 52
यमेन पूज्यमाना सा दिव्यगन्धानुलेपनैः ॥ संहारः सर्वलोकानां गतीनां च महागतिः
阎摩以涂抹天界妙香而礼敬于她。她是诸世界的毁灭(归寂),亦是一切归趣之大归趣、至上所向。
Verse 53
कामक्रोधविचारिण्यो नानारूपधराः स्त्रियः ॥ जीवभक्षकरा घोरास्तीव्ररोषा भयानकाः
那里有种种形相的女子,游行于欲与嗔的境域;她们可怖、盛怒、令人战栗,并使众生遭受吞噬之害。
Verse 54
मयूरैः सारसैश्चैव चक्रवाकैश्च वाजिभिः ॥ एवम्रूपा मया दृष्टास्तत्र चान्ये भयानकाः
有孔雀、萨罗萨鹤、查克拉瓦卡鸟与骏马等——我在那里见到如此形相;并且还有其他可怖之众。
The text instructs that actions (karma) are evaluated through a rule-governed dharma framework: outcomes are assigned according to scriptural criteria and witnessed conduct, emphasizing personal accountability, restraint, and social order as enforceable ethical norms.
No tithi, lunar phase, vrata timing, or seasonal marker is specified in this excerpt. The chapter focuses on institutional judgment and spatial symbolism (gates and tribunal) rather than calendrical ritual scheduling.
Environmental balance is addressed indirectly through the Varāha–Pṛthivī instructional frame: the narrative links moral conduct to systemic consequences. By presenting a structured adjudication of harm (including violence and predation imagery), it reinforces norms that discourage destabilizing behaviors, which can be read as supporting social-ecological stability on Pṛthivī.
The sabhā is populated by authoritative dharma figures and śāstra specialists, including Manu, Prajāpati, Parāśarya (Vyāsa), Atri, Uddālaka, Āpastamba, Bṛhaspati, Śukra, Gautama, and other named dharma exegetes such as Śaṅkha and Likhita, alongside Yama (Vaivasvata).