Yagyavalkya
नामादिभ्यः परे भूम्नि स्वाराज्ये चेत् स्थितोऽद्वये । प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥१२॥
नाम-आदिभ्यः । परे । भूम्नि । स्व-राज्ये । चेत् । स्थितः । अद्वये । प्रणमेत् । कम् । तत्-आत्म-ज्ञः । न । कार्यम् । कर्मणा । तदा ॥
nāmādibhyaḥ pare bhūmni svārājye cet sthito 'dvaye | praṇamet kaṃ tad-ātmajño na kāryaṃ karmaṇā tadā ||12||
若人安住于不二之自王(svārājya),住于超越名相等一切的圆满广大(bhūman),则知自性者将向谁顶礼?于彼时,亦无须以行为作任何应作之事。
If one is established in the non-dual sovereignty (svārājya), in the plenitude (bhūman) beyond name and the rest, to whom would that knower of the Self bow? Then there is no duty to be done by action.