
本章以嵌套对话铺陈:苏多(Sūta)为叙事框架,伊湿伐罗(Īśvara)向帕尔瓦蒂(Pārvatī)开示,在普拉婆娑(Prabhāsa)境内、桑伽勒湿伐罗(Saṅgāleśvara)附近,恒河女神(Gaṅgā,三道行者 Tripathagāminī)如何于当地显现。帕尔瓦蒂提出两件异事:恒河何以到此,以及为何出现“三眼之鱼”(trinetra-matsya)。 伊湿伐罗叙述其因缘:诸仙曾卷入与大天(Mahādeva)相关的诅咒事件,后生悔悟,遂在桑伽勒湿伐罗处严修苦行(tapas)并虔诚礼拜。因长久奉爱,他们得“第三眼”之印记,作为世间的示现(nidarśana)。湿婆(Śiva)欢喜,允其所求:为行灌顶沐浴礼(abhiṣeka)而迎请恒河。恒河即刻显现,并携鱼群而来;诸仙一见,鱼亦蒙神恩而成“三眼”。 章末明示修行与果报:于该圣池(kuṇḍa)沐浴,可脱离五大重罪(pañca-pātaka)。又于无月日(amāvāsyā),若沐浴后施金、牛、衣与芝麻予婆罗门(brāhmaṇa),则被说将得“三眼”之相,象征湿婆慈恩。聆听此段圣事亦被称为功德殊胜,能成就所愿。
Verse 1
ईश्वर उवाच । ततो गच्छेन्महादेवि गंगां त्रिपथगामिनीम् । संगालेशादथैशान्यां धनुषां सप्तके स्थिताम्
自在天(Īśvara)说道:“随后,噢大女神,应前往三途流行的恒河。她位于桑伽勒湿之东北,距七弓之远。”
Verse 2
तस्यां त्रिनेत्रा मत्स्याः स्युर्नित्यमांभसिकाः प्रिये । कलौयुगेऽपि दृश्यंते सत्यंसत्यं मयोदितम्
在那条河中,有三眼之鱼,恒常栖居于水中,卿为我所爱。即使在迦梨时代亦可见之——此乃真实,真实,正如我所宣说。
Verse 3
तस्यां स्नात्वा महादेवि मुच्यते पञ्चपातकैः
大女神啊,凡于彼处沐浴者,得解脱于五大重罪。
Verse 4
सूत उवाच । तस्य तद्वचनं श्रुत्वा विस्मिता गिरिजा सती । उवाच तं द्विजश्रेष्ठाः प्रचलच्चंद्रशेखरम्
苏多说道:听闻此言,萨蒂——吉丽迦——满怀惊异。随后她对那月冠之主开口;彼为“二次生”中最胜者,结发飞动。
Verse 5
पार्वत्युवाच । कथं तत्र समायाता गंगा त्रिपथगामिनी । कथं त्रिनेत्राः संजाता मत्स्या आंभसिकाः शिव
帕尔瓦蒂说道:三途而行的恒河,如何来到此处?三眼之鱼——水中之类——又如何生起,噢,湿婆?
Verse 6
एतद्विस्तरतो ब्रूहि यद्यहं ते प्रिया विभो
大能之主啊,若我确为你所爱,愿你为我详尽宣说此事。
Verse 7
ईश्वर उवाच । शृणु देवि प्रवक्ष्यामि यदि पृच्छसि मां शुभे । आस्तिकाः श्रद्दधानाश्च भवंतीति मतिर्मम
自在天(Īśvara)说道:听着,女神啊;既然你来问我,吉祥者,我将为你开示。依我所知,你具足信心与虔诚的信受。
Verse 8
यदा शप्तो महादेवो ह्यज्ञानतिमिरावृतैः । ऋषिभिः कोपयुक्तैश्च कस्मिंश्चित्कारणांतरे
曾有一次,因某种缘由,摩诃提婆(Mahādeva)被诸仙圣诅咒;那些仙人被无明之暗所覆,又为嗔怒所摄。
Verse 9
तदा ते मुनयः सर्वे शप्तं ज्ञात्वा महेश्वरम् । निरानंदं जगत्सर्वं दृष्ट्वा चात्मानमेव च
于是诸位牟尼皆知摩诃伊湿伐罗(Maheśvara)已遭诅咒;又见整个世界失却欢悦,并省悟自身之过——
Verse 10
आराध्य परमेशानं दधतं गजरूपकम् । उन्नतं स्थानमानीय सानंदं चक्रिरे द्विजाः
诸位二生者虔诚礼敬帕拉梅沙那(Parameśāna)——彼时祂示现为象形——遂迎请至崇高之处,使世间复得欢喜。
Verse 11
ततः प्रभृति सर्वे ते शिवद्रोहकरं परम् । आत्मानं मेनिरे नित्यं प्रसन्नेऽपि महेश्वरे
自此以后,他们众人即使见摩诃伊湿伐罗已垂慈悦纳,仍恒常自认犯下对湿婆的重大冒犯之罪。
Verse 12
महोदयान्महातीर्थं सर्व आगत्य सत्वरम् । तपस्तेपुर्महाघोरं संगालेश्वरसन्निधौ
因此,他们众人迅速来到名为“摩诃欧达雅”的大圣渡口,在桑伽勒湿伐罗面前修行极其严峻的苦行。
Verse 13
संगालेश्वरनामानं सर्वे पूज्य यथाविधि । भृगुरत्रिस्तथा मंकिः कश्यपः कण्व एव च
众人依照仪轨礼敬名为“桑伽勒湿伐罗”的主宰——婆利古、阿底利、曼祇、迦叶波,以及迦ṇ婆亦在其中。
Verse 14
गौतमः कौशिकश्चैव कुशिकश्च महातपाः । शूकरोऽथ भरद्वाजो भार्गविश्च महातपाः
乔多摩、憍尸迦与俱尸迦——皆为大苦行者——并有输迦罗、婆罗堕阇与婆伽毗,诸位皆以苦行之力而雄健,(亦至其处)。
Verse 15
जातूकर्ण्यो वसिष्ठश्च सावर्णिश्च पराशरः । शांडिल्यश्च पुलस्त्यश्च वत्सश्चैव महातपाः
阇都迦耳尼耶、婆悉吒、娑伐尔尼与波罗舍罗,并有商提利耶、普罗罗底耶与筏蹉——皆为大苦行者——亦在其处。
Verse 16
एते चान्ये च बहवो ह्यसंख्याता महर्षयः
这些人以及其他许多众多者,皆为不可胜数的大圣仙。
Verse 17
संगालेश्वरमासाद्य प्रभासे पापनाशने । तपः कुर्वंति सततं प्रतिष्ठाप्य महेश्वरम्
他们抵达普拉婆娑——灭罪之地的桑伽勒湿伐罗,安立大自在天(湿婆)于彼处,恒常修行苦行。
Verse 18
ततः कालेन महता ते सर्वे मुनिपुंगवाः । ध्यानात्त्रिलोचनस्यैव अदृष्टे तु महेश्वरे
其后经久时日,那些最上牟尼们——虽大自在天尚未显现——唯以禅观三眼之主,便证得奇妙境界。
Verse 19
त्रिनेत्रत्वमनुप्राप्तास्तपोनिष्ठास्तपोधनाः । परस्परं वीक्षमाणास्त्रिनेत्रस्याभिशंकया
他们安住苦行、积聚深厚苦行力,得成三眼之相;彼此相视,心生疑念:莫非各自已如三眼之主?
Verse 20
स्तुवंति विविधैः स्तोत्रैर्मन्यमाना महेश्वरम् । ज्ञात्वा ध्यानेन देवस्य त्रिनेत्रत्वमुपागताः
他们以此境为大自在天的恩赐,便以种种赞颂歌咏祂;又由禅观天神而了知:自己已得三眼之相。
Verse 21
चकुरुग्रं तपस्ते तु पूजां देवस्य शूलिनः । तेषु वै तप्यमानेषु कृपाविष्टो महेश्वरः
他们确实行持猛烈苦行,并礼敬执三叉戟之神(湿婆);当他们如是修苦行时,大自在天对他们充满悲悯。
Verse 22
उवाच तान्मुनीन्सर्वाञ्छृणुध्वं वरमुत्तमम् । प्रसन्नोऽहं मुनिश्रेष्ठास्तपसा पूजयापि च
大自在天(摩醯首罗)对诸牟尼说道:“汝等当听最胜之赐。诸圣仙中之最,我已欢喜——因汝等苦行(tapas)与供奉礼拜。”
Verse 23
ऋषय ऊचुः । यदि प्रसन्नो देवेश वरं नो दातुमर्हसि । गंगामानय वेगेन ह्यभिषेकाय नो हर
诸仙人说道:“若汝欢喜,噢天神之主,且认为应赐我等恩愿——噢哈罗(破坏者),请速引恒河而来,使我等行灌顶沐浴(abhiṣeka)。”
Verse 24
तस्यां कृताभिषेकास्तु तव द्रोहकरा वयम् । अज्ञानभावात्पूतत्वं यास्यामः पृथिवीतले
在那神圣之处受灌顶沐浴之后,我等——曾对汝行背逆之事者——因无明之态,亦将于大地之上归于清净。
Verse 25
ईश्वर उवाच । यूयं पवित्रकरणाः पावनानां च पावनाः । गंगां चैवानयिष्यामि युष्माकं चित्ततुष्टये
自在天说道:“汝等能成就清净——即在诸净化者之中亦为净化者。为令汝等心意欢悦,我将亲自引恒河而来。”
Verse 26
पावित्र्याद्भवतां जातं त्रैनेत्र्यं मुनिसत्तमाः । एवमुक्त्वा ततः शंभुर्ध्यानस्तिमितलोचनः । सस्मार क्षणमात्रेण गंगां मीनकुलावृताम्
“诸最胜牟尼啊,由汝等清净,生起了‘三眼’之境。”言毕,商婆(Śambhu)双目于禅定中寂然不动,顷刻之间忆念恒河,见其为鱼群所环绕。
Verse 27
स्मृतमात्रा तदा देवी गंगा त्रिपथगामिनी । भित्वा भूमितलं प्राप्ता तत्र मीनकुलावृता
就在忆念之际,女神恒河——行于三途之流——穿破大地表层而至,周围簇拥着无数鱼群。
Verse 28
ऋषिभिश्च यदा दृष्टा गंगा मीनयुता शुभा । दृष्टमात्रास्तु ते मत्स्यास्त्रिनेत्रत्वमुपागताः
当诸仙见到吉祥的恒河女神,身旁伴随鱼群时,那些鱼仅凭一见,便得成“三眼”之境。
Verse 29
ईश्वर उवाच । युष्माकं दर्शनाद्विप्रास्त्रिनेत्रत्वमुपागताः । एतन्निदर्शनं सर्वं लोकानां च प्रदर्शनम्
自在天说道:“婆罗门啊,仅因见到你们,他们便得三眼之相。此乃圆满的示现,为诸世界作教诲之明证。”
Verse 30
ऋषय ऊचुः । अस्मिन्कुंडे महादेव मत्स्यानां संततिः सदा । त्रिनेत्रा त्वत्प्रसादेन भूयात्सर्वा युगेयुगे
诸仙人说道:“大天啊,在此池中愿鱼族世系恒常不断;并凭汝之恩赐,愿它们在每一劫中皆具三眼。”
Verse 31
अस्मिन्कुंडे समागत्य नरः स्नानं करोति यः । ददाति हेम विप्राय गाश्च वस्त्रं तथा तिलान्
凡来到此圣池而在此沐浴者,并以黄金施与婆罗门,又施牛、衣服与芝麻—
Verse 32
अमावास्यां विशेषेण त्रिनेत्रः स प्रजायताम् । एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो हरः
尤其在阿摩婆娑耶(新月日),愿那人得生三目。说罢“必将如此”,哈罗(湿婆)便隐没无踪,离于众目。
Verse 33
ब्राह्मणास्तुष्टिसंयुक्ता गताः सर्वे महोदयम्
诸婆罗门皆心满意足,遂得大兴盛与崇高提升。
Verse 34
एतत्ते कथितं देवि गंगामाहात्म्यमुत्तमम् । श्रुतं पापप्रशमनं सर्वकामफलप्रदम्
女神啊,我已向你宣说恒河至上的功德。凡得闻者,能灭诸罪,并赐一切正当愿求之果报。
Verse 304
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरसमीपवर्ति गंगामाहात्म्यवर्णनंनाम चतुरुत्तरत्रिशततमोऽध्यायः
如是,于圣《室建陀摩诃往世书》——八万一千颂之汇编——第七卷“普罗婆娑分部”,第一分“普罗婆娑圣地功德篇”中,题为《近桑伽勒湿伐罗之恒河功德叙述》的第三百零四章至此圆满。