
本章以天女(Devī)发问、自在天(Īśvara)答复的方式,讲述朝圣者在阿耆尼圣渡(Agni-tīrtha)沐浴后,如何令旅途无障无碍。其仪轨次第为:依仪则(vidhāna)沐浴,并向大海(mahodadhi)奉献阿尔伽(arghya);以香、花、衣与涂香供养;随力将金饰或金镯投入圣水;并为祖先行塔尔帕那(tarpaṇa)之供。 继而前往卡帕尔丁(Kapardin,湿婆Śiva)处,以与众神侍从(gaṇa)相关之真言奉献阿尔伽,并说明真言受持之门径,亦提及供首陀罗(Śūdra)可持的八音节真言。随后谒见苏摩伊湿伐罗(Som(e)śvara),行阿毗湿迦(abhiṣeka)灌顶沐浴,诵读《百鲁陀罗》(Śatarudriya)及诸鲁陀罗(Rudra)赞诵;再以乳、酪、酥油、蜜、甘蔗汁等多种净物沐浴,并涂抹红粉(kunkuma)、樟脑、香根草(vetiver)、麝香与檀香。 章末又说焚香、献衣、供食(naivedya)、作阿拉提(ārātrika)、奏乐起舞,以及以正法(dharma)为旨的观礼与诵念;并劝行布施于二次生者、苦行者、贫者、盲者与困厄之人,且规定与瞻礼苏摩伊湿伐罗之日(tithi)相应的斋戒(upavāsa)。其果报为:净除人生诸阶段之罪垢,提升家族世系,远离贫困与不祥,并在道德艰难的迦梨时代(Kali-yuga)尤能增长虔敬(bhakti)。
Verse 1
देव्युवाच । स्नात्वा तत्राग्नितीर्थेषु कं देवं पूर्वमर्च्चयेत् । निर्विघ्ना जायते येन यात्रा नृणां सुरेश्वर । तन्मे यात्राविधानं तु यथावद्वक्तुमर्हसि
女神说道:在彼处阿耆尼圣渡(Agni-tīrtha)沐浴之后,应先礼敬哪一位神祇,噢诸天之主?凭借哪一位,使世人的朝圣之行无有障碍?因此,请你如法如仪,为我详说朝圣的正当次第。
Verse 2
ईश्वर उवाच । एवं स्नात्वा विधानेन दत्त्वार्घ्यं च महोदधौ । संपूज्य गंधपुष्पैश्च वस्त्रैः पुष्पावलेपनैः
自在天(Īśvara)说道:如法沐浴之后,又向大海献上阿尔伽(arghya,恭敬净水供),当以香与花、衣服,以及花香膏涂抹之供,圆满礼拜供养。
Verse 3
हिरण्मयं यथाशक्त्या प्रक्षिपेत्तत्र कंकणम् । ततः पितॄंस्तर्पयित्वा गच्छेद्देवं कपर्दिनम्
随己之力,当于彼处奉献一只金手镯。继而以塔尔帕那(tarpaṇa,奠水供)使诸祖灵(Pitṛ)得以满足,然后前往礼拜卡帕尔丁主(Kapardin,湿婆),那位结发披垂的神圣者。
Verse 4
पुष्पैर्धूपैस्तथा गन्धैर्वस्त्रैः संपूज्य भक्तितः । गणानां त्वेति मन्त्रेण अर्घ्यं चास्मै निवेदयेत्
当以虔敬之心,以花、香、熏香、芬芳与衣供,圆满礼拜主神;并以起首为“gaṇānāṃ tv…”之真言,向祂奉献阿尔伽(arghya,敬水供)。
Verse 5
शूद्राणामथ देवेशि मंत्रश्चाष्टाक्षरः स्मृतः । तत्र सोमेश्वरं गच्छेद्देवं पापहरं परम्
噢女神啊,为首陀罗(Śūdra)规定有八音节真言。随后,当前往索摩伊湿伐罗(Someśvara)之主,那至上神祇,能除灭诸罪。
Verse 6
स्नापयित्वा विधानेन जपेच्च शतरुद्रियम् । तथा रुद्रान्सपञ्चांगास्तथान्या रुद्रसंहिताः
依照仪轨为神尊沐浴之后,应诵《百鲁陀罗》(Śatarudrīya);亦当诵持鲁陀罗诸咒,连同五支辅分,并诵其他鲁陀罗经文汇编。
Verse 7
स्नापयेत्पयसा चैव दध्ना घृतयुतेन च । मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत्
应以乳汁为主尊沐浴,又以掺入酥油的凝乳沐浴;再以蜂蜜与甘蔗汁沐浴;并以藏红花(kunkuma)为其涂抹。
Verse 8
कर्पूरोशीरमिश्रेण मृगनाभियुतेन च । चन्दनेन सुगन्धेन पूज्यं संपूजयेत्ततः
随后应以芬芳檀香供奉可敬之主——檀香调和樟脑与乌尸罗(uśīra),并复合麝香——以此圆满礼拜。
Verse 9
धूपैर्बहुविधैर्देवं धूपयित्वा यथाविधि । वस्त्रैः संवेष्टयेत्पश्चाद्दद्यान्नैवेद्यमुत्तमम्
依仪轨以多种香熏供奉神尊之后,继而应以衣服披覆其身,并献上最上等的供食(naivedya)。
Verse 10
आरार्तिकं ततः कृत्वा नृत्यं कुर्याद्यथेच्छया । अष्टांगं प्रणिपत्यैवं गीतवाद्यादिकं ततः
随后行毕阿罗阿尔提迦(ārārtika,灯火供仪),可随心起舞。如此以八支投地顶礼之后,继而以歌唱、器乐等种种方式礼赞主尊。
Verse 11
धर्मश्रवणसंयुक्तं कार्यं प्रेक्षणकं विभोः । ततो दद्याद्द्विजातिभ्यस्तपस्विभ्यश्च शक्तितः
应为至尊主安排一场神圣的供奉仪式,并伴随聆听正法。随后量力而行,向二次出生者与苦行者布施供养。
Verse 12
दीनांधकृपणेभ्यश्च दानं कार्पटिकेषु च । वृषभस्तत्र दातव्यः प्रवृत्ते क्रूरकर्मणि । उपवासं ततः कुर्यात्तस्मिन्नहनि भामिनि
应施舍给贫者、盲者与困苦之人,也施与匮乏的行乞修行者。在彼处,当世间粗暴恶行兴起之时,应以一头公牛作布施。其后,啊美丽的女子,当日在彼日守斋禁食。
Verse 13
यस्मिन्नहनि पश्येत देवं सोमेश्वरं नरः । सा तिथिर्वर्षमेकं तु उपोष्या भक्तितत्परैः
无论哪一天,若有人得见神祇苏摩伊湿伐罗(Someśvara),则虔诚于奉爱(bhakti)者应在整整一年中,于该月日(tithi)持斋禁食。
Verse 14
एवं कृत्वा नरो भक्त्या लभते जन्मनः फलम् । तथा च सर्वतीर्थानां सकलं लभते फलम्
如此以虔敬而行者,便得人身之真实果报;同样也将圆满获得一切圣地渡口(tīrtha)的功德。
Verse 15
उद्धरेत्पितृवर्गं च मातृवर्गं च भामिनि । बाल्ये वयसि यत्पापं वार्धक्ये यौवनेऽपि वा
啊美丽的女子,他能超拔父系与母系两族;而无论在童年、青年,乃至老年所造的任何罪业——
Verse 16
क्षालयेच्चैव तत्सर्वं दृष्ट्वा सोमेश्वरं नरः । न दुःखितो न दारिद्रो दुर्भगो वा न जायते
凡得瞻礼苏摩自在天(Someśvara)者,诸罪悉得洗净;不生忧苦,不堕贫乏,亦不遭厄运。
Verse 17
सप्तजन्मान्तरेणैव दृष्टे सोमेश्वरे विभौ । धनधान्यसमायुक्ते स्फीते सञ्जायते कुले
若得瞻见威光赫奕的苏摩自在天(Someśvara)——纵隔七生——亦将生于兴盛之家,财宝与谷粮具足。
Verse 18
भक्तिर्भवति भूयोऽपि सोमनाथं प्रति प्रभुम् । क्षीरेण स्नपनं पूर्वं ततो धारासमुद्भवम्
对主苏摩那他(Somanātha)的虔敬(bhakti)愈加增长。先以乳行灌沐(abhiṣeka),继而供献之流如长瀑不断涌出。
Verse 19
प्रथमे प्रथमे यामे महास्ना नमतः परम् । मध्याह्ने देवदेवस्य ये प्रपश्यन्ति मानवाः । संध्यामारार्तिकं भूयो न जायन्ते च मानुषाः
于每一初更,行大灌沐而至诚顶礼者;于正午得见“诸天之天”者;并复于黄昏亲睹阿罗提(ārati)者——此等人不再复生为人。
Verse 20
मत्वा कलियुगं रौद्रं बहुपापं वरानने । नान्येन तरते दुर्गां कर्मणा दुर्गतिं नरः
既知迦利瑜伽(Kali-yuga)凶猛而罪业丛生,噢美颜者!世人除此外别无他途,不能渡越此艰险关隘——由业力所致的卑劣厄运。
Verse 30
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये सोमेश्वरमाहात्म्ये सोमेश्वरपूजामाहात्म्यवर्णनंनाम त्रिंशोध्यायः
至此,《圣·斯甘达大往世书》八万一千颂本(Ekāśīti-sāhasrī Saṃhitā)中,第七部《普拉婆娑篇》(Prabhāsa Khaṇḍa)之《普拉婆娑圣域功德》(Prabhāsakṣetra Māhātmya)内《苏摩伊湿伐罗功德》(Someśvara Māhātmya)之第三十章——《苏摩伊湿伐罗礼拜功德之叙述》圆满结束。