Adhyaya 280
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 280

Adhyaya 280

第280章为湿婆与女神的圣对话,介绍位于普拉婆娑圣域(Prabhāsa-kṣetra)中的“恰伐那自在天”(Cyavaneśvara)林伽,称其为“sarva-pātaka-nāśana”——能摧灭一切罪垢者。随后叙述婆罗伽婆族圣者恰伐那(Cyavana)的因缘:他来到普拉婆娑,行极严苦行,久而不动如“sthāṇu”(木桩般),终被蚁丘、藤蔓与蚂蚁层层覆盖。 舍利耶提王(Śaryāti)率大队随从并携女儿苏迦尼娅(Sukanyā)前来朝圣。苏迦尼娅与同伴游行时遇见蚁丘,误将圣者双眼当作发光之物,以刺戳伤。恰伐那之怒化为惩罚,令国王军队遭受使人瘫困的灾患,描述为排泄机能受阻;众人追问缘由,终至坦白。苏迦尼娅承认过失,国王求赦;恰伐那允赦,但以苏迦尼娅嫁与他为条件,国王应允。章末赞叹苏迦尼娅以戒律、待客与虔敬侍奉苦行夫君的典范之行,将圣地功德与伦理教诲相连:担当、补偿与忠诚奉事。

Shlokas

Verse 1

ईश्वर उवाच । ततो गच्छेन्महादेवि च्यवनेश्वरमुत्तमम् । तत्रैव संस्थितं लिंगं सर्वपातकनाशनम्

自在天说道:于是,噢大女神,应前往最胜的恰瓦内湿伐罗。彼处即有一尊安立于原地的林伽,能灭除一切罪垢。

Verse 2

यत्र शर्यातिना दत्ता सुकन्या सा महर्षये । यत्र संस्तंभितं सैन्यमानाहार्त्तमथाकरोत्

此处乃沙利耶帝王将苏甘雅许配给大圣仙之地;亦是军队被遏止、继而被迫止息侵扰之处。

Verse 3

एष शर्यातियज्ञस्य देशो देवि प्रकाशते । प्रभासक्षेत्रमध्ये तु साक्षात्पातकनाशनः

女神啊,此处以沙里亚提(Śaryāti)之祭祀之地而闻名;在普拉婆娑圣域(Prabhāsa-kṣetra)中央,它显现为当下灭罪之所。

Verse 4

साक्षात्तत्राभजत्सोममश्विभ्यां सह कौशिकः । चुकोप भार्गवश्चैव महेन्द्राय महातपाः

在那里,考希迦(Kauśika)亲自与阿湿毗双神(Aśvins)同享苏摩;而大苦行者婆尔伽瓦(Bhārgava)亦对摩诃因陀罗(Indra)动怒。

Verse 5

संस्तंभयामास च तं वासवं च्यवनः प्रभुः । सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान्

大能圣仙遮婆那(Cyavana)竟制止了瓦萨瓦(Indra)本人;并迎娶了苏甘雅(Sukanyā)——国王之女——为妻。

Verse 6

देव्युवाच । कथं विष्टंभितस्तेन भगवान्पाकशासनः । किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः

女神说道:“尊贵的帕迦沙萨那(Pākaśāsana,因陀罗)如何被他制住?又因何缘故,大苦行者婆尔伽瓦(Bhārgava)生起忿怒?”

Verse 7

नासत्यौ च कथं ब्रह्मन्कृ तवान्सोमपायिनौ । तत्सर्वं च यथावृत्तमाख्यातु भगवान्मम

“又如何,婆罗门啊,你使那对那萨提亚(Nāsatya)双子饮下苏摩?愿尊者将一切如实经过,尽皆为我宣说。”

Verse 8

ईश्वर उवाच । भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम नामतः । स प्रभासं समासाद्य तपस्तेपे महामुनिः

自在天(Īśvara)说道:“名闻遐迩的遮婆那(Cyavana),乃大圣仙婆利古(Bhṛgu)之子。抵达普罗婆娑(Prabhāsa)后,那位大牟尼便修行苦行。”

Verse 9

स्थाणुभूतो महातेजा वीरस्थाने च भामिनि । अतिष्ठत्सुचिरं कालमेकदेशे वरानने

光辉的女神啊,在那勇士之地(Vīrasthāna),他久立不移,宛如石柱般不动;端颜者啊,他只立于一处。

Verse 10

स वल्मीकोऽभवत्तत्र लताभिरभिसंवृतः । कालेन महता देवि समाकीर्णः पिपीलकैः

久而久之,女神啊,他在彼处竟如蚁丘(valmīka),为藤蔓所覆;历经漫长岁月,四周尽被群蚁充满。

Verse 11

स तथा संवृतो धीमान्मृत्पिंड इव सर्वतः । तप्यते स्म तपो घोरं वल्मीकेन समावृतः

他就这样四面封闭,宛如一团泥土;那位智者仍在蚁丘覆盖之中,修持严酷的苦行。

Verse 12

अथास्य यातकालस्य शर्यातिर्नाम पार्थिवः । तीर्थयात्राप्रसंगेन श्रीसोमेशदिदृक्षया । आजगाम महाक्षेत्रं प्रभासं पापनाशनम्

随后,时日推移,名为舍利耶提(Śaryāti)的国王因朝圣之缘而来,愿得瞻礼光辉的娑摩伊沙(Someśa);他来到大圣域普罗婆娑(Prabhāsa),能灭除诸罪。

Verse 13

तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः । एकैव तु सुता शुभ्रा सुकन्यानाम नामतः

他有四千位妻子;然而唯有一位光辉灿然的女儿,因名号而闻名,名为苏迦尼娅(Sukanyā)。

Verse 14

सा सखीभिः परिवृता सर्वाभरणभूषिता । चंक्रम्यमाणा वल्मीकं भार्गवस्य समासदत्

她被侍女同伴环绕,佩戴诸般珠宝饰物,徘徊行走间,来到了婆尔伽瓦(Bhārgava)仙人的蚁丘。

Verse 15

सा चैव सुदती तत्र पश्यमाना मनोरमान् । वनस्पतीन्विचिन्वंती विजहार सखीवृता

在那里,那位齿如玉的少女凝望悦目的林木,随同伴欢然游行,采撷草木与花朵。

Verse 16

रूपेण वयसा चैव सुरापानमदेन च । बभंज वनवृक्षाणां शाखाः परम पुष्पिताः

她恃其姿容与青春,又因饮酒而微醺,竟折断林中繁花盛开的枝条。

Verse 17

तां सखीरहितामेकामेकवस्त्रामलंकृताम् । ददर्श भार्गवो धीमांश्चरंतीमिव विद्युतम्

智者婆尔伽瓦仙人看见她独自一人,离了同伴,妆饰华美却仅着一衣,行走之间宛如电光一闪。

Verse 18

तां पश्यमानो विजने स रेमे परमद्युतिः । क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः

他在那幽寂之处凝望她,光辉无比者心生欢悦;那位婆罗门圣仙(Brahmarṣi)虽喉颈消瘦,却具足由苦行而生的威力,亦在其间。

Verse 19

तामभाषत कल्याणीं सा चास्य न शृणोति वै । ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी

他对那吉祥的少女开口言说,她却确实不肯听从。随后,苏甘雅在蚁丘中看见婆尔伽瓦圣者的双眼,便留意起来。

Verse 20

कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता । किन्नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने

出于好奇——心智被迷妄之力所蒙蔽——她说道:“这究竟是什么?”便以荆刺刺穿了他的双眼。

Verse 21

अकुध्यत्स तया विद्धो नेत्रे परममन्युमान् । ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत्

虽被她刺伤双目,他并未暴起嗔怒;然而随后,他令舍利耶提王的军队大小便皆不得通。

Verse 22

ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् । तथागतमभिभेक्ष्य पर्यतप्यत पार्थिवः

当大小便被阻断时,军队痛苦不堪,哀号呼喊;国王见此情状,内心深受煎熬。

Verse 23

तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः । केनापकृतमद्येह भार्गवस्य महात्मनः । ज्ञातं वा यदि वाऽज्ञातं तदिदं ब्रूत मा चिरम्

“这位伟大的婆罗伽婆(Bhārgava)恒常修持苦行,年迈而德高;尤在震怒之时,威可畏惧。今日在此,是谁冒犯了这位大圣?无论有意或无意——立刻禀告,不得迟延。”

Verse 24

तत्रोचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् । सर्वोपायैर्यथाकामं भवान्समधिगच्छतु

于是众军士齐声回答:“我们不知是谁犯下此过。愿您随所欲用诸般方法,终能查明。”

Verse 25

ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् । पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते

随后,那位护持大地的君王,时而以柔言,时而以厉语,亲自盘问左右亲友;然而他们全然不肯承认此事。

Verse 26

आनाहार्त्तं ततो दृष्ट्वा तत्सैन्यं संमुखोदितम् । पितरं दुःखितं चापि सुकन्यैवमथाब्रवीत्

这时,苏迦尼娅见军队在前愁苦伫立,仿佛断了粮饷;又见父亲亦满怀忧伤,便开口说道。

Verse 27

मया तातेह वल्मीके दृष्टं सर्वमभिज्वलत् । उद्द्योतवदविज्ञानात्तन्मया विद्धमन्तिकात्

“慈父啊,我在这蚁丘中见到一切炽然燃耀。因无明误认那如同明光闪烁,便在近处击中了它。”

Verse 28

एतच्छ्रुत्वा तु शर्याति र्वल्मीकं क्षिप्रमभ्यगात् । तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम्

听闻此言,舍利耶提迅速前往蚁丘。于彼处,他见到婆尔伽瓦——以苦行为大,且年岁已高。

Verse 29

अथावदत्स्वसैन्यार्थं प्रांजलिः स महीपतिः । अज्ञानाद्बालया यत्ते कृतं तत्क्षंतुमर्हसि

于是国王合掌,代自己的军队禀告道:“那少女因无知而对您所做之事,愿您垂慈宽恕。”

Verse 30

ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा । रूपौदार्यसमायुक्तां लोभमोहसमावृताम्

随后,婆尔伽瓦·支婆那对国王说道:她具足美貌与端雅,却被贪欲与迷妄所遮覆。

Verse 31

तामेव प्रतिगृह्याहं राजन्दुहितरं तव । क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते

“大王啊,若我接受你这位女儿,我便宽恕此过,地上之主啊——此乃我对你所说的真实之言。”

Verse 32

ईश्वर उवाच । ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् । ददौ दुहितरं तस्मै च्यवनाय महात्मने

自在天说道:领会了仙人的言辞后,舍利耶提毫不迟疑,将女儿许配给那位大心的支婆那。

Verse 33

प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह । प्राप्ते प्रसादे राजा तु ससैन्यः पुरमाव्रजत्

圣贤收受那位少女后,便慈然垂恩。既得其恩许,国王便率军返归城中。

Verse 34

सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दितम् । नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च

苏迦尼娅亦然,得一位无瑕的苦行者为夫,便日日以爱敬侍奉,行苦行并严守戒律。

Verse 35

अग्नीनामतिथीनां च शुश्रूषुरनसूयया । समाराधयत क्षिप्रं च्यवनं सा शुभानना

端颜的苏迦尼娅以无伪之敬、无嫉之心,勤谨侍奉圣火并款待宾客;由此她迅速赢得仙人遮婆那的圆满恩宠。

Verse 280

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनामाशीत्युत्तरद्विशततमोऽध्यायः

至此,《圣·斯坎达大往世书》之《普拉婆娑分部》(第七部)、《八万一千颂集成》中的《普拉婆娑圣地功德篇》里,题为《遮婆那伊湿伐罗功德之阐述》的第二百八十章圆满结束。