Adhyaya 206
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 206

Adhyaya 206

本章呈现伊湿伐罗(Īśvara)对祭祖施食之礼 śrāddha 的技术性阐释,尤以 pārvaṇa 体系为核心。文中层层说明邀请与迎请的规程、可受供者的资格与座次、清净与不净的限制、依 muhūrta(吉时分类)择时之法,并详述器皿、薪柴、花、食物与仪式用草的选择。 经文同时提出严正的伦理告诫:不当的同席共食与程序疏失,会使祖灵不得受供。又规定在特定环节须守默(如 japa 诵念、进食、pitr̥-kārya 祖先事务等),区分供奉天神与供奉祖灵时的方位规则,并给出若干缺失的实用补救。 此外,本章罗列吉与不吉之物(samidh 供柴所宜之木、可取与当避之花与食物),提及某些地域不宜行 śrāddha,并澄清历法问题,如 malamāsa/adhimāsa(闰月)之限制与月份计算。结尾提供多组真言(含“saptārcis”赞颂)并宣说功德:如法诵持与修行可得净化、社会与仪礼之正当性,并获富足、记忆力与健康等利益,尤以在普拉婆娑(Prabhāsa)萨拉斯瓦蒂河与大海交汇处行持为胜。

Shlokas

Verse 1

ईश्वर उवाच । अथ श्राद्धविधिं वक्ष्ये पार्वणस्य विधानतः । यथाक्रमं महादेवि शृणुष्वैकमनाः प्रिये

自在天(Īśvara)说道:如今我将依仪则宣说帕尔瓦那施罗陀(Pārvaṇa Śrāddha)的行法。挚爱的摩诃提毗啊,请以一心专注,按次第聆听。

Verse 2

कृत्वापसव्यं पूर्वेद्युः पितृपूर्वं निमंत्रयेत् । भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदथ

于前一日先行作阿帕萨维亚(apasavya:圣线置于左侧之仪),随后当邀请婆罗门,先以祭请诸祖灵(Pitṛ)为首,并说道:“愿诸位为我等成办祖先之事,垂慈赐悦。”

Verse 3

सवर्णान्प्रेषयेदाप्तान्द्विजानामुपमन्त्रणे

为施罗陀之邀请,当遣同一种姓中可信之人,前去召请诸“二次生”者(dvija)。

Verse 4

अभोज्यं ब्राह्मणस्यान्नं क्षत्रियाद्यैर्निमन्त्रितैः । तथैव ब्राह्मणस्यान्नं ब्राह्मणेन निमन्त्रितौः

若婆罗门受刹帝利等人之邀,其所属之食物不应食用;同样,若邀请之法不如仪,婆罗门之食亦成应当禁食之物。

Verse 5

ब्राह्मणान्नं ददेच्छूद्रः शूद्रान्नं ब्राह्मणो ददेत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत्

首陀罗可以施与本为婆罗门所备之食,婆罗门亦可施与本为首陀罗所备之食;然此二食皆不宜食用。若已食之,当行“月行斋”(Cāndrāyaṇa)以作忏悔。

Verse 6

उपनिक्षेपधर्मेण शूद्रान्नं यः पचेद्द्विजः । अभोज्यं तद्भवेदन्नं स च विप्रः पतेदधः

若二次生者(dvija)假托“寄存之法”(upanikṣepa-dharma)而烹煮首陀罗之食,则此食即成不宜食用;而该婆罗门亦将从正行中堕落。

Verse 7

शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् । शूद्राज्ज्ञानागमश्चैव ज्वलंतमपि पातयेत्

受食于首陀罗、与首陀罗亲近往来、与首陀罗同席而坐、并以首陀罗为权威之师而受其教诲——据说此等皆能使人堕落,纵使其人以苦行与清净而炽然发光亦然。

Verse 8

शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः । कुपिताः किं करिष्यंति निर्विषा इव पन्नगाः

婆罗门一旦为首陀罗之食所损,便心神摇荡,贪恋欲乐;纵然愤怒,又能成就何事——如同失去毒液的蛇一般。

Verse 9

नग्नः स्यान्मलवद्वासा नग्नः कौपीनवस्त्रधृक् । द्विकच्छोऽनुत्तरीयश्च विकच्छोऽवस्त्र एव च

若身着污秽之衣,亦被视为“裸”;同样,仅系兜裆布(kaupīna)者亦称“裸”。又如仅以双褶之布而无上衣者、衣布松散不整者,以及全无衣者,皆名为“裸”。

Verse 10

नग्नः काषायवस्त्रः स्यान्नग्नश्चार्धपटः स्मृतः । अच्छिन्नाग्रं तु यद्वस्त्रं मृदा प्रक्षालितं तु यत्

依此戒则,身着染成赭黄(袈裟色)之衣者,被判为“裸”;仅披半幅布者,亦被记作“裸”。然而,衣缘不破损者,以及以净土(洁净之泥)洗涤过的衣服,则被视为可接受。

Verse 11

अहतं धातुरक्तं वा तत्पवित्रमिति स्थितम् । अग्रतो वसते मूर्खो दूरे चास्य गुणान्वितः

未曾穿用之布,或以矿物颜料染色之布,被定为清净。然而愚人或坐于前近处,具德之人却在远处安住。

Verse 12

गुणान्विते च दातव्यं नास्ति मूर्खे व्यतिक्रमः । यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते । दूरस्थं पूजयेन्मूढो गुणाढ्यं नरकं व्रजेत्

当以恭敬与布施施予具德者;越过愚人并无过失。然若有人轻慢近前之婆罗门(除堕行者外),而愚昧地礼敬远处之人——纵其德行丰足——此人将堕地狱。

Verse 13

वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते । क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम्

当一位Śrotriya(诵习吠陀者)——以吠陀学识、誓戒与圣浴而得清净——来到家中时,一切疗愈草药皆欢喜,仿佛说道:“我们将证得至上之境。”

Verse 15

संध्ययोरुभयोर्जाप्ये भोजने दंतधावने । पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः । गुरूणां संनिधौ दाने योगे चैव विशेषतः । एतेषु मौनमातिष्ठन्स्वर्गं प्राप्नोति मानवः

于晨昏二时(sandhyā)持诵japa之际,进食之时,洁齿之时,行祭祖(Pitṛ)之礼与敬神之供时,乃至小便大便之时;在师长前、行布施时,尤其在修瑜伽时——于这些时刻守持默然者,得至天界。

Verse 16

यदि वाग्यमलोपः स्याज्जपादिषु कथंचन । व्याहरेद्वैष्णवं मंत्रं स्मरेद्वा विष्णुमव्ययम्

若在持诵(japa)及相关戒行中,因故失却语业的约束,应诵出一则毗湿奴派(Vaiṣṇava)圣咒;或当忆念毗湿奴——不坏不变之主。

Verse 17

दाने स्नाने जपे होमे भोजने देवतार्चने । देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा

于布施、沐浴、持诵、护摩、进食与礼拜诸天之时:为诸天(Deva)当直置达尔婆草(darbha);为祖灵(Pitṛ)则亦当成双而置。

Verse 18

उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः । अग्निना भस्मना वापि यवेनाप्युदकेन वा । द्वारसंक्रमणेनापि पंक्तिदोषो न विद्यते

为诸天(Deva)行仪,当面向北;为祖灵(Pitṛ)行仪,当面向南。并且即使以火、以灰、以大麦、以水,乃至仅仅跨过门槛而作净化,也不会生起所谓“行列之过”(paṅkti-doṣa)。

Verse 19

इष्टश्राद्धे क्रतुर्दक्षो वृद्धौ सत्यवसू स्मृतौ । नैमित्तिके कालकामौ काम्ये चाध्वविरोचनौ

于所愿施的祭祖(iṣṭa-śrāddha),当忆念克拉图(Kratu)与达克沙(Dakṣa)为主受者;于增益祭祖(vṛddhi-śrāddha),当忆念萨提亚瓦苏(Satyavasu);于因缘祭祖(naimittika-śrāddha),当启请迦罗(Kāla)与迦摩(Kāma);而于求愿祭祖(kāmya-śrāddha),当启请阿德瓦(Adhva)与毗罗遮那(Virocana)。

Verse 20

पुरूरवा आर्द्रवश्च पार्वणे समुदाहृतौ । पुष्टिं प्रजां च न्यग्रोधे बुद्धिं प्रज्ञां धृतिं स्मृतिम्

于朔望祭祖(pārvaṇa-śrāddha),宣说当启请普鲁罗婆斯(Purūravas)与阿尔德拉瓦(Ārdrava)。若以尼耶伽罗陀(nyagrodha,榕树)为所依之器而行此仪,则得滋养与子嗣,并赐聪慧、明辨、坚忍与记忆。

Verse 21

रक्षोघ्नं च यशस्यं च काश्मीर्यं पात्रमुच्यते । सौभाग्यमुत्तमं लोके मधूके समुदाहृतम्

以迦湿弥梨耶木制成之器,传说能摧破诸恶势力,并成就美名;而以摩度迦木之器,则宣示世间至上的吉祥福运。

Verse 22

फाल्गुनपात्रे तु कुर्वाणः सर्वकामानवाप्नुयात् । परां द्युतिमथार्के तु प्राकाश्यं च विशेषतः

以法尔古那之器行仪者,得一切所愿圆满;以阿尔迦之器行之,则得至上光辉,尤得显著耀明。

Verse 23

बिल्वे लक्ष्मीं तपो मेधां नित्यमायुष्यमेव च । क्षेत्रारामतडागेषु सर्वपात्रेषु चैव हि

以毕尔瓦之器,则得吉祥富饶(拉克什弥)、苦行功德、敏锐智慧与恒常长寿。诚然,此亦适用于田地、园圃与池塘之处——并及其间一切器具。

Verse 24

वर्षत्यजस्रं पर्जन्ये वेणुपात्रेषु कुर्वतः । एतेषां लभ्यते पुण्यं सुवर्णै रजतैस्तथा

当雨神波阇尼耶不息降雨之时,以竹器行仪者所得功德,等同于供奉黄金,亦同于供奉白银。

Verse 25

पलाशफलन्यग्रोधप्लक्षाश्वत्थविकंकताः । औदुम्बरस्तथा बिल्वं चंदनं यज्ञियाश्च ये

婆罗娑木、法罗木、尼耶拘陀、普罗叉、阿湿婆他、毗迦恩迦多、优陀婆罗、毕尔瓦、旃檀香木,以及一切适于祭祀(yajña)之木——皆为仪式所称赞。

Verse 26

सरलो देवदारुश्च शालाश्च खदिरास्तथा । समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः

Saralā、devadāru、śālā 与 khadira——这些树木尤其被称许,适合作为 samidh(祭祀用的圣柴、引火柴)。

Verse 27

श्लेष्मातको नक्तमाल्यः कपित्थः शाल्मली तथा । निंबो बिभीतकश्चैव श्राद्धकर्मणि गर्हिताः

Śleṣmātaka、naktamālya、kapittha、śālmalī、nimba 与 bibhītaka——这些树木被指为不宜用于 Śrāddha(祭祖追荐之礼)。

Verse 28

अनिष्टशब्दां संकीर्णा रूक्षां जन्तुमतीमपि । प्रतिगंधां तु तां भूमिं श्राद्धकर्मणि गर्हयेत्

行 Śrāddha 之礼时,应摒弃那种充满不祥喧声、拥挤扰乱、干枯粗硬、虫类滋生,或被恶臭逆味所染的地面。

Verse 29

त्रैशंकवं त्यजेद्देशंसर्वद्वादशयोजनम् । उत्तरेण महानद्या दक्षिणेन च केवलम्

应当完全避开名为 Traiśaṃkava 的地域,绵延十二由旬;其北以大河为界,南界亦如经文所述。

Verse 30

देशस्त्रैशं कवोनाम वर्जितः श्राद्धकर्मणि । कारस्काराः कलिंगाश्च सिंधोरुत्तरमेव च । प्रणष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः

名为 Traiśaṃkava 的土地,在 Śrāddha 之礼中应当回避。同样也应避开 Kāraskāra、Kaliṅga,以及越过 Sindhu 以北之地;凡诸国土中四住期(āśrama)之戒律已败坏者,皆当谨慎远离。

Verse 31

ब्राह्मणं तु कृतं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् । वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम्

经中宣说:克利多纪(Kṛta-yuga)具“婆罗门”之性;特雷塔纪(Tretā)被忆为“刹帝利”;德瓦帕罗纪(Dvāpara)被称为“吠舍”;而迦利纪(Kali-yuga)被忆为“首陀罗”——意指各纪元所主导的气质倾向。

Verse 32

कृते तु पितरः पूज्यास्त्रेतायां च सुरास्तथा । मुनयो द्वापरे नित्यं पाखंडाश्च कलौ युगे

在克利多纪,应当礼敬祖灵(Pitṛ);在特雷塔纪,同样礼敬诸天;在德瓦帕罗纪,恒常尊奉诸牟尼圣贤;而在迦利纪,邪见异端与伪善之道反而盛行。

Verse 33

शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः । कृष्णपक्षेऽपराह्ने तु रौहिणं न विलंघयेत्

明达之人应在白半月(Śukla-pakṣa)之前午行施祖祭(Śrāddha);而在黑半月(Kṛṣṇa-pakṣa)则于午后举行——且不可违越罗希尼(Rohiṇī)之应守时法。

Verse 35

रत्निमात्रप्रमाणं च पितृतीर्थं तु संस्कृतम् । उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः । तथा श्यामाकनीवारा दूर्वाश्च समुदाहृताः । स्व कीर्तिमतां श्रेष्ठो बहुकेशः प्रजापतिः

应依一“罗多尼”(ratni,一拃)之量,如法整治祖灵圣地(Pitṛ-tīrtha)。近根剪取之库沙草(kuśa)被宣为铺设仪轨基座之最胜;又称许 śyāmāka、nīvāra 与 dūrvā 等草。于诸有名者中,生主(Prajāpati)“多发者”Bahukeśa 被说为最上。

Verse 36

तस्य केशा निपतिता भूमौ काशत्वमागताः । तस्मान्मेध्याः सदा काशाः श्राद्धकर्मणि पूजिताः

其发落于大地,遂化为迦舍草(kāśa)。因此,迦舍草恒为清净,在施祖祭(Śrāddha)之行持中备受尊崇。

Verse 37

पिण्डनिर्वपणं तेषु कर्तव्यं भूतिमिच्छता । उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेशयेत्

欲求安康与兴盛者,应于彼处奉献皮ṇḍa(团食供);并以信心向二生者(dvija)供奉热而新煮之食。

Verse 39

अन्यत्र फलपुष्पेभ्यः पानकेभ्यश्च पण्डितः । हस्ते दत्त्वा तु वै स्नेहाल्लवणं व्यञ्जनानि च । आयसेन च पात्रेण तद्वै रक्षांसि भुञ्जते । द्विजपात्रेषु दत्त्वान्नं तूष्णीं संकल्पमाचरेत्

除果品、花与饮品外,智者不应因爱怜而将盐与佐菜直接置于手中。若以铁器盛供,则为罗刹(rākṣasa)所食。将食物置于二生者(dvija)之器皿后,当默然行作意(saṃkalpa)。

Verse 40

दर्व्यादिस्थेन नो तेषां संबन्धो दृश्यते यतः । यश्च शूकरवद्भुंक्ते यश्च पाणितले द्विजः । न तदश्नंति पितरो यः सवाचं समश्नुते

因手执勺杓等器具而食,则不见与仪轨相应之正当联系;又如野猪般吞食者,或二生者(dvija)以掌心取食者——凡边说话边食之物,祖灵(Pitṛ)不取其分。

Verse 41

द्विहायनस्य वत्सस्य विशंत्यास्यं यथा सुखम् । तथा कुर्यात्प्रमाणेन पिण्डान्व्यासेन भाषितम्

如同食物安然入于两岁小牛之口,亦当依其分量恰当制备皮ṇḍa——此乃毗耶娑(Vyāsa)之教。

Verse 42

न स्त्री प्रचालयेत्तानि ज्ञानहीनो न चाव्रतः । स्वयं पुत्रोऽथवा यस्य वाञ्छेदभ्युदयं परम्

女子不应触动彼等供品(皮ṇḍa/Śrāddha),无仪轨之知者亦不可,无持戒行(vrata)者亦不可。应由其子亲自——或求至上福祉者——如法而行。

Verse 43

भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः । तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः

当器皿仍然摆着之时,若二次生者过早宣诵“svasti”(吉祥祝祷),那食物便为阿修罗所食,而祖灵(Pitṛ)失望离去。

Verse 44

अप्स्वेकं प्लावयेत्पिण्डमेकं पत्न्यै निवेदयेत् । एकं वै जुहुयादग्नावेषा तु त्रिविधा गतिः

一枚供团(piṇḍa)当放入水中任其漂浮;一枚当奉献给妻子;一枚确当投入火中作供——此即三重行法。

Verse 45

छन्दोगं भोजयेच्छ्राद्धे वैश्वदेवे च बह्वृचम् । पुष्टिकर्मण्यथाध्वर्युं शान्तिकर्मण्यथर्वणम्

在施罗陀(Śrāddha)中,应供养一位诵《歌咏吠陀》者(Chāndoga);在毗湿瓦提婆(Vaiśvadeva)仪中,应供养一位《梨俱吠陀》诵者(Bahvṛc)。在求滋养增盛(puṣṭi)之仪中,应供养一位 Adhvaryu;在息灾安宁(śānti)之仪中,应供养一位 Atharvan 祭司。

Verse 46

द्वौ देवेऽथर्वणौ विप्रौ प्राङ्मुखौ च निवेशयेत् । पित्र्ये ह्युदङ्मुखान्कुर्याद्बह्वृचाध्वर्युसामगान्

为奉献诸天之仪,应安坐两位阿闼婆吠陀系的婆罗门,使其面向东方;而为奉献祖灵(Pitṛ)之仪,则应安坐 Bahvṛc、Adhvaryu 与 Sāmaga 诸祭司,使其面向北方。

Verse 47

जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका । जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम्

应奉献一切茉莉之花——mallikā 与白色 yūthikā;亦当奉献所有水生之花,并且还要奉献旃波迦(campaka)花。

Verse 48

मधूकं रामठं चैव कर्पूरं मरिचं गुडम् । श्राद्धकर्मणि शस्तानि सैंधवं त्रपुसं तथा

Madhūka、rāmaṭha、樟脑、黑胡椒与粗糖(jaggery)——皆为施行施罗陀(Śrāddha)所称赞;同样还有岩盐(saindhava)与 trapusa。

Verse 49

ब्राह्मणः कम्बलो गावः सूर्योग्निरतिथिश्च वै । तिला दर्भाश्च कालश्च नवैते कुतपाः स्मृताः

婆罗门、毯褥(kambala)、牛群、太阳、火与宾客;芝麻、达尔婆草(darbha)与时间——此九者被忆念为“库塔帕”(kutapa)。

Verse 50

आपद्यनग्नौ तीर्थे च चंद्रसूर्यग्रहे तथा । नाचरेत्संग्रहे चैव तथैवास्तमुपागते

在困厄之时、火灾之时、于圣渡(tīrtha)之处、逢月食或日食之际;在囤积聚敛之时,亦在日已西沉之时——不应行持所规定的仪轨。

Verse 51

संशुद्धा स्याच्चतुर्थेऽह्नि स्नाता नारी रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति

经期之女,沐浴之后,于第四日被视为清净;然于奉神之仪与祭祖之礼,则至第五日方为清净而堪行。

Verse 52

द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि । आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला

若资具匮乏、无婆罗门可请、旅居在外、或逢生子之时——若其妻正值经期,当行“阿摩施罗陀”(āma-śrāddha),即因缘所限而作的简略施罗陀。

Verse 53

सर्पविप्रहतानां च दंष्ट्रिशृंगिसरीसृपैः । आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत्

不应为被蛇所伤、或被具獠牙或角之爬行类咬杀者举行施罗陀(śrāddha),亦不应为自弃其命者举行。

Verse 54

चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि । दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम्

由旃陀罗、由水、由蛇、由婆罗门,乃至由雷电,以及由咬噬之物与猛兽而致死——此等死亡被说是作恶者之果报。

Verse 55

सर्वैरनुमतं कृत्वा ज्येष्ठेनैव च यत्कृतम् । द्रव्येण च विभक्तेन सर्वैरेव कृतं भवेत्

当众人皆已同意时,长兄所行之事即被视为众人所行——尤其在费用已按理分担之时。

Verse 56

अमावास्यां पितृश्राद्धे मंथनं यस्तु कारयेत् । तत्तक्रं मदिरातुल्यं घृतं गोमांसवत्स्मृतम्

若在新月日(amāvāsyā)举行祖先施罗陀(pitr-śrāddha)时令人为乳/酪作搅拌,则所得酪乳被视同酒类,而酥油被记作如同牛肉——即于该仪式中为不净不宜。

Verse 57

भुंजंति क्रमशः पूर्वे तथा पिंडाशिषो ऽपि च । निमंत्रितो द्विजः श्राद्धे न शयीत स्त्रिया सह

先辈与尊长依次而食,受取与供奉团食(piṇḍa)相应之祝福亦复如是。受邀参加施罗陀的二生者(dvija),在此斋仪期间不应与女子同卧。

Verse 58

श्रादभुक्प्रातरुत्थाय प्रकुर्याद्दन्तधावनम् । श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः

凡已食用施行 śrāddha(祭祖供食)之餐者,清晨起身应行洁齿之事;但亲自主持 śrāddha 的行者,既为智者,于守持仪轨期间不应洁齿。

Verse 59

वर्षेवर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि । मलमासे न कर्तव्यं व्यासस्य वचनं यथा

每年于父母忌日所行之年祭 śrāddha,不应在闰月(malamāsa,夹月)中举行,此乃依毗耶娑(Vyāsa)之言。

Verse 60

गर्भे वार्धुषिके प्रेते भृत्ये मासानुमासिके । आब्दिके च तथा श्राद्धे नाधिमासो विधीयते

凡与流产(garbha)相关之仪、vārddhuṣika 之行、亡者丧仪、仆役之亡礼、月度 śrāddha 以及年度 śrāddha,皆不应以闰月(adhimāsa)作为施行之期。

Verse 61

विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः । आब्दिके पितृकार्ये तु चान्द्रो मासः प्रशस्यते

凡自婚礼等起首之仪,教以太阳历(saura)为准;凡自祭祀 yajña 等起首之仪,教以 sāvana(日数计)为准。然于祖先年祭之事,则以阴历月(cāndra māsa)为最胜而称赞。

Verse 62

यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्द्विजन्मनः । तद्राशावेव कर्तव्यं पितृकार्यं मृतेऽहनि

若太阳进入某一星宫(黄道宫位)时,会使二次生者(dvija)遭遇不祥,则祖先之祭应当正于该星宫中举行——就在忌日当天。

Verse 63

वषट्कारश्च होमश्च पर्व चाग्रायणं तथा । मलमासेऽपि कर्तव्यं काम्या इष्टीर्विवर्जयेत्

即使在被称为“不净”的闰月(malamāsa)中,也应行持Vaṣaṭ呼声、护摩(homa)、节期仪轨(parvan)与初谷供献(āgrāyaṇa);但为欲望与世间利益而作的可选祭祀iṣṭi,应当避免。

Verse 64

अग्न्याध्येयं प्रतिष्ठां च यज्ञदानव्रतानि च । वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः

对圣火(agni)的学习与奉事、安置奉献礼(pratiṣṭhā)、祭祀、布施与誓戒;以及吠陀学子之戒(veda-vrata)、施放公牛(vṛṣotsarga)、剃发礼(cūḍākaraṇa)与系带受戒(mekhalā)——此处皆列为诸仪轨,应依正法与相应时令而判定施行。

Verse 65

मांगल्यमभिषेकं च मलमासे विवर्जयेत् । नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे । तीर्थे स्नानं गज च्छायां प्रेतश्राद्धं तथैव च

在malamāsa之月,应避开吉祥的māṅgalya仪式与灌顶涂洒(abhiṣeka)。然而当自持精进,即便在被称为malimluca的月份,也当履行日常与因缘所定的必行之业(nitya、naimittika)。并且称许:于圣渡处(tīrtha)沐浴、施“象影”(gaja-chāyā)之布施,以及为新亡者行śrāddha。

Verse 66

रसा यत्र प्रशस्यन्ते भोक्तारो बंधुगोत्रिणः । राजवार्तादि संक्रंदो रक्षःश्राद्धस्य लक्षणम्

若在施食之处,食者皆为亲族同姓同族,却称赞菜肴滋味;又喧哗谈论王事、流言与诸般闲话:此等便是“罗刹式施祖供”(rakṣaḥ-śrāddha)的相状,即因不正行而败坏的śrāddha。

Verse 67

श्राद्धं कृत्वा परश्राद्धे यस्तु भुंक्ते च विह्वलः । पतंति पितरस्तस्य लुप्तपिण्डोदकक्रियाः

若有人既已行完śrāddha,却又因贪食迷乱而在他人之śrāddha中进食,则令自家祖灵堕落;因为他所献的团食(piṇḍa)与奠水(udaka)之仪,如同失落,遂成无效。

Verse 68

तैलमुद्वर्तनं स्नानं दन्तधावनमेव च । क्लृप्तरोमनखेभ्यश्च दद्याद्गत्वापरेऽहनि

以油涂身而摩擦、沐浴、刷牙——连同剪下的头发与指甲——都应在进入次日之后,方可依仪如法弃置。

Verse 69

निमन्त्रिता यथान्यायं हव्ये कव्ये द्विजोत्तमाः । कथंचिदप्यतिक्रामेत्पापः शूकरतां व्रजेत्

若依正法受邀参加供奉诸天之供(havya)或祭奉祖灵之供(kavya),最上等的再生者绝不可因任何缘故失约或逾越约期;犯此罪者将堕为猪身。

Verse 70

दैवे च पितृ श्राद्धे चाप्याशौचं जायते यदा । आशौचान्तेऽथवा तत्र तेभ्यः श्राद्धं प्रदीयते

若在供奉诸神之祭,或为祖灵行施罗陀(śrāddha)之时,忽生阿修遮(āśauca,仪式不净),则应在不净期结束之后,或依仪轨当场办理,恭敬奉献施罗陀于彼诸祖灵(Pitṛ)。

Verse 71

अथ श्राद्धावसाने तु आशिषस्तत्र दापयेत् । दीर्घा नागास्तथा नद्यो विष्णोस्त्रीणि पदानि च । एवमेषां प्रमाणेन दीर्घमायुरवाप्नुयाम्

随后,在施罗陀(śrāddha)圆满之时,应令于彼处宣说祝福:“愿(我之寿命)长久,如大那伽(Nāga)之久,如诸河之长,如毗湿奴(Viṣṇu)三步之广大。”以此吉祥比量,愿我得获长寿。

Verse 72

अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः

诸神安住于水之中;一切万有皆依水而立。置于婆罗门之手时,愿此诸水于我等成为吉祥、成为利益。

Verse 73

लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे । लक्ष्मीर्वसतु वासे मे सौमनस्यं ददातु मे

吉祥天女拉克什米住于花中,也住于莲华之中。愿拉克什米安住我家,赐我心境安宁与内心欢喜。

Verse 74

अक्षतं चाऽस्तु मे पुण्यं शांतिः पुष्टिर्धृतिश्च मे । यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम

愿我的功德不致断绝;愿安宁、滋养与坚忍归于我。世间凡真正导向福祉之事,愿恒常属于我。

Verse 75

दक्षिणायां तु सर्वत्र बहुदेयं तथास्तु नः । एवमस्त्विति तैर्वाच्यं मूर्ध्ना ग्राह्यं च तेन तत्

于供奉达克希纳(dakṣiṇā)之事,当处处慷慨布施——愿我等亦如是。司祭者当言“如是成就”,施主当俯首恭敬,领受其允诺。

Verse 76

पिंडमग्नौ सदा देयाद्भोगार्थी सततं नरः । प्रजार्थं पत्न्यै वै दद्यान्मध्यमं मंत्रपूर्वकम्

求享乐之人,当恒常将一团供食(piṇḍa)投入火中奉献。为求子嗣,应以相应真言,将中间那一团 piṇḍa 施与其妻。

Verse 77

उत्तमां द्युतिमविच्छन्गोषु नित्यं प्रदापयेत् । आज्ञामिच्छेद्यशः कीर्तिमप्सु नित्यं प्रवेशयेत्

欲求上妙光辉者,当恒常向牛作供养。欲求权威、名声与声誉者,当恒常将其托付于水中而奉献。

Verse 78

प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रदापयेत् । कुमारलोकमन्विच्छन्कुक्कुटेभ्यः प्रदापयेत्

祈求长寿者,应向乌鸦施供。欲求证得“鸠摩罗之界”者,应向公鸡施供。

Verse 79

आकाशे प्रक्षिपेद्वापि स्थितो वा दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणा चैव दिक्तथा

亦可将(供物)抛向虚空,或面向南方站立而行。对诸祖灵(Pitṛ)而言,虚空为其居处,南方亦同为其方位。

Verse 80

नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् । सर्वस्वेनापि कर्तव्यं क्षिप्रं वै राहुदर्शनात्

夜间之施祖祭(śrāddha)当避之,唯见罗睺(食,日月蚀)之时例外。罗睺现前,应即刻行礼,纵倾尽所有资具亦当为之;因彼一见,催促速行圣业。

Verse 81

उपरागे न कुर्याद्यः पंके गौरिव सीदति । कुर्वाणस्तु तरेत्पापं सा च नौरिव सागरे

逢食时不行所规定之仪者,沉陷如牛没于泥淖;而行之者则越过罪垢,如舟载人渡海。

Verse 82

कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः । महायवा व्रीहियवास्तथैव च मसूरिकाः

用于祖祭(śrāddha)之供品,黑豆与芝麻被宣说为最胜;同样,大麦及诸谷物,如大粒大麦、稻麦合谷与小扁豆,亦被称许为相宜之资粮。

Verse 83

कृष्णाः श्वेताश्च वा ग्राह्याः श्राद्धकर्मणि सर्वदा । बिल्वामलकमृद्वीकं पनसाम्रातदाडिमम्

在施行 śrāddha 祭仪时,黑色或白色之物皆可恒常受纳。又可供奉毕尔瓦果、余甘子(āmalaka)、葡萄、菠萝蜜、芒果与石榴等果品。

Verse 84

भव्यं पारापतं चैव खर्जूरं करमर्द्दकम् । सकोरका बदर्यश्च तालकंदं तथा बिसम्

又以 bhavya 与 pārāpata 为宜,并可供以椰枣与 karamarda;同样,sakorakā、枣类(badarī/jujube)、棕榈之块茎,以及莲茎亦皆认可。

Verse 85

तमालासनकंदं च मावेल्लं शतकंदली । कालेयं कालशाकं च मुद्गान्नं च सुवर्चलम्

tamālāsana 之块茎、māvella 与 śata-kaṁdalī 皆可受纳;同样,kāleya、深色叶菜、以绿豆(mudga)所制之食,以及 suvarcalā 亦为仪式所许可。

Verse 86

मांसं क्षीरं दधि शाकं व्योषं वेत्रांकुरस्तथा । कट्फलं वज्रकं द्राक्षां लकुचं मोचमेव च

肉、乳、酪(dadhi)、叶菜与三辛香料(vyōṣa)皆可受纳;又可并供竹笋、kaṭphala、vajraka、葡萄、lakuca 与香蕉,作为如法供品。

Verse 87

प्रियामलकदुर्ग्रीवं तिंडुकं मधुसाह्वयम् । वैकंकतं नालिकेरं शृङ्गाटकपरूषकम्

priyāmalaka、durgrīva、tiṇḍuka 以及名为 madhusāhvaya 的果实皆可供献;同样,vaikaṅkata、椰子、荸荠(水栗)与 parūṣaka 亦可奉上。

Verse 88

पिप्पलीमरिचं चैव पटोली बृहतीफलम् । आरामस्य तु सीमाऽन्तः संभवं सर्वमेव तु

长胡椒与黑胡椒皆可取用,paṭolī 以及 bṛhatī 之果亦然。凡果园疆界之内所生之物,皆可视为适宜而取。

Verse 89

एवमादीनि चान्यानि पुष्पाणि श्राद्धकर्मणि । मसूराः शतपुष्प्याश्च कुसुमं श्रीनिकेतनम्

同样,这些及其他花朵皆可用于 śrāddha 祭仪——如 masūrā、śatapuṣpī,以及名为“śrī-niketana”的花。

Verse 90

वर्या स्वातियवा नित्यं तथा वृषयवासकौ । वंशा करीरा सुरसा मार्जिता भूतृणानि च

于 Śrāddha 之仪,可常用 varyā、svātiyavā 及 vṛṣayavāsaka 为适宜之蔬草;亦可用竹笋(vaṃśā)、karīra、surasā、mārjitā,并及 bhūtṛṇa 诸草。

Verse 91

वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः । लशुनं गृंजनं चैव पलांडुं पिण्डमूलकम् । मोगरं चात्र वैदेहं दीर्घमूलकमेव च

今当宣说于施行 Śrāddha 时恒应避者:蒜、gṛñjana、葱、piṇḍamūlaka,及 mogara;又 vaideha 与 dīrghamūlaka 亦当避之。

Verse 92

दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठते

若于白昼已至第八分、日轮渐弱之时行 Śrāddha,则此 Śrāddha 变为“āsura”之性,不能达于诸 Pitṛ(祖灵)。

Verse 93

चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः । वृथा श्राद्धमवाप्नोति दाता च नरकं व्रजेत्

若有人在第四更已至时行施“施罗陀”(Śrāddha)祭,则所得唯是徒然之施罗陀;施主因违失仪轨,甚至可能堕入地狱。

Verse 94

लेखाप्रभृत्यथादित्ये मुहूर्तास्त्रय एव च । प्रातस्तस्योत्तरं कालं भगमाहुर्विपश्चितः

从与太阳相关的名为“Lekhā(勒迦)”之分段起,确有三段牟呼尔多(muhūrta);其后紧随的晨后时分,智者称之为“Bhaga(婆伽)”。

Verse 95

संगवस्त्रिमुहूर्तोऽयं मध्याह्नस्तु समन्ततः । ततश्च त्रिमुहूर्ताश्च अपराह्णो विधीयते

“Saṃgava(僧伽婆)”由三段牟呼尔多组成;“madhyāhna(正午)”周遍而满;其后再有三段牟呼尔多,名为“aparāhṇa(午后)”。

Verse 96

पञ्चमोऽथ दिनांशो यः स सायाह्न इति स्मृतः

白昼的第五分段,被忆念为“sāyāhna(傍晚)”。

Verse 97

तथा च श्रुतिः । यदैवादित्योऽथ वसन्तो यदा संगविकोऽथ ग्रीष्मो यदा वा माध्यंदिनोऽथ वर्षा यदपराह्णोऽथ शरत् । घदेवास्तमेत्यथ हेमन्त इति

而《闻传》(śruti)亦如是说:日出之时为春;至Saṃgava之时为夏;至正午为雨季;至午后为秋;而诸神于日落归息之时为冬——如是宣说。

Verse 98

प्रारभ्य कुतपे श्राद्धे कुर्यादारोहणं बुधः । विधिज्ञो विधिमास्थाय रोहिणं न तु लंघयेत्

在库塔帕(Kutapa)之穆呼尔塔开始施行施罗达(Śrāddha)时,智者应依仪轨行“阿罗诃那”(ārohaṇa,次第推进)。明了法则而守持法则者,不可逾越罗希那(Rauhiṇa)之穆呼尔塔。

Verse 99

अष्टमो यो मुहूर्तश्च कुतपः स निगद्यते । नवमो रौहिणः प्रोक्त इति श्राद्धविदो विदुः

第八个穆呼尔塔称为库塔帕(Kutapa);第九个被宣说为罗希那(Rauhiṇa)——施罗达之行家皆如是知。

Verse 100

एकोद्दिष्टं तु मध्याह्नं प्रातर्वै जातकर्मणि । पित्र्यार्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च

“一祖施罗达”(ekoddiṣṭa,专为一位祖灵之祭)应在正午举行;与出生相关的仪式则在清晨行之。应烹煮并奉献食物,既为皮特里(Pitṛ,祖灵),亦为毗湿瓦提婆(Vaiśvadeva)之供献。

Verse 101

वैश्वदेवे न पित्र्यार्थं न पित्र्यं वैश्वदेविके । कृत्वा श्राद्धं महादेवि ब्राह्मणांश्च विसर्ज्य च

在毗湿瓦提婆(Vaiśvadeva)之仪中,不应行专属于皮特里(Pitṛ,祖灵)之事;在祖灵之祭中,也不应夹入毗湿瓦提婆之分。完成施罗达(Śrāddha)之后,噢摩诃提毗(Mahādevī),并恭敬送别婆罗门(brāhmaṇa)之后,当依次而行。

Verse 102

वैश्वदेवादिकं कर्म ततः कुर्याद्वरानने । बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः

随后,噢容颜端丽者,应行以毗湿瓦提婆(Vaiśvadeva)为首的诸仪,尤其当火焰燃得旺盛,供献与柴薪充足之时。

Verse 103

विधूमे लेलिहाने च कुर्यात्कर्म प्रसिद्धये । अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने

当火焰无烟,焰舌向上舔升之时,应行其仪轨,以得必然成就;若于昏钝而冒烟之火中投献供物,则违背正法之行。

Verse 104

यजमानो भवेदन्धः कुपुत्र इति निश्चितम् । दुर्गन्धश्चैव कृष्णश्च नीलश्चैव विशेषतः

经明言断定:若(火之征兆)恶臭、呈黑色,尤以泛青为甚,则祭主必遭不祥——致盲,并得恶子。

Verse 105

भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् । अर्चिष्मान्पिंगलशिखः सर्पिःकांचनसप्रभः

凡见火势似沉入大地之处,当知彼处有败亡与损失;而吉祥之火则光焰炽盛,焰色黄褐,辉耀如酥油与黄金。

Verse 106

स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये । अंजनाभ्यंजनं गंधान्मन्त्रप्रणयनं तथा

光明润泽、并向右旋转之火,能令所作之事得以成就;同样,亦宜用安阇那(眼药/眼线膏)、涂膏香油、诸香,并如法施用与诵持真言。

Verse 107

काशैः पुनर्भवेत्कार्यं हयमेधफलं लभेत् । अष्टजातिकपुष्पं च अञ्जनं नित्यमेव हि

以迦舍草(kāśa)行之,仪事可再得成就,并获马祭(Aśvamedha)之果报;而八香花(aṣṭajāti)与安阇那(眼药)亦确应日日常用。

Verse 108

कृष्णेभ्यश्च तिलेभ्यश्च तैलं यत्नात्सुरक्षितम् । चन्दनागरुणी चोभे तमालोशीरपद्मकम्

以黑芝麻籽所榨之油,宜当谨慎珍藏而供用。又宜檀香与沉香(二者),并用多摩罗、乌施罗(香根草)及钵摩迦。

Verse 109

धूपश्च गौग्गुलः श्रेष्ठस्तौरुष्को धूप एव च । शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च

诸香之中,古古卢为最胜;陶鲁湿迦亦为上妙之香。诸花之中,白花最为殊胜;莲华与优钵罗(睡莲)亦复如是。

Verse 110

गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः । निशिगंधा जपा भिण्डिरूपकः सकुरंटकः

凡香气浓烈之花,以及一切同类之花——如夜间芬芳之花、阇婆(朱槿)、毗ṇḍirūpaka与库兰塔迦——此处皆被举出,乃就施行Śrāddha时所当避忌者而言。

Verse 111

पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः । सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते

于施行Śrāddha之业,花卉当恒常避用。为诸Pitṛ(祖灵),金、银、铜之器皿被宣说为相应之受器。

Verse 112

रजतस्य तथा किञ्चिद्दर्शनं पुण्यदायकम् । कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव च

同样地,纵然仅得一见白银,亦能赐予福德。黑羚羊皮(kṛṣṇājina)之在旁、得见之,以及施与供赠之,皆为有功德。

Verse 113

रक्षोघ्नं चैव वर्चस्यं पशून्पुत्रांश्च तारयेत् । अथ मन्त्रं प्रवक्ष्यामि अमृतं ब्रह्मनिर्मितम्

此咒能摧灭敌对恶灵,增长灵性光辉,并护佑牛畜与子嗣得以超拔安稳。今我将宣说此真言——如甘露般,由梵天(Brahmā)所造。

Verse 114

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः

礼敬诸天(Deva),礼敬祖灵(Pitṛ),亦礼敬诸大瑜伽行者。礼敬于“娑婆诃”(Svāhā)与“娑陀诃”(Svadhā)——恒常不息,屡屡顶礼。

Verse 115

आद्यावसाने श्राद्धस्य त्रिरावर्तमिमं जपन् । अश्वमेधफलं ह्येतद्विप्रैः संज्ञाय पूजितम्

在施行祭祖供养(Śrāddha)之始与终,三遍持诵此咒者,得如马祭(Aśvamedha)之功德;此为博学婆罗门所共认并敬奉。

Verse 116

पिण्डनिर्वपणे वापि जपेदेनं समाहितः । पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च

或于供献团食(piṇḍa)之时,摄心持诵此咒。祖灵(Pitṛ)迅速降临,罗刹(rākṣasa)则四散逃遁。

Verse 117

सप्तार्चिषं प्रवक्ष्यामि सर्वकामशुभप्रदम्

我将宣说“七焰”(Saptārciṣ)之赞咒,能赐诸善祥瑞,并成就一切正当愿求。

Verse 118

अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यायिनां दिव्यचक्षुषाम्

我恒常顶礼诸位祖灵(Pitṛ)——或无形或具形——光辉炽盛,安住禅观,具足天眼。

Verse 119

इन्द्रादीनां च नेतारो दक्षमारीचयस्तया । तान्नमस्यामि सर्वान्वै पितॄंश्चैवौषधीस्तथा

我顶礼一切——与因陀罗等相系的诸领袖,以及达克沙与摩利支的诸系族;我亦顶礼诸祖灵(Pitṛ),并同样顶礼诸药草灵植。

Verse 120

नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनपि । द्यावापृथिव्योश्च सदा नमस्यामि कृताञ्जलिः

我合掌恭敬,恒常顶礼诸星宿与诸行星,顶礼风神与火神,顶礼祖灵(Pitṛ),亦顶礼苍天与大地。

Verse 121

नमः पितृभ्यः सप्तभ्यो नमो लोकेषु सप्तसु । स्वयंभुवे नमस्यामो ब्रह्मणे योगचक्षुषे

顶礼七类祖灵(Pitṛ);顶礼七界诸世。我们礼敬自生的梵天(Brahmā Svayambhū),具足瑜伽之眼的圣见者。

Verse 122

एतत्त्वदुक्तं सप्तर्षिब्रह्मर्षिगणसेवितम् । पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम्

此教诲由汝所宣说,为诸位七仙(Saptarṣi)与梵仙(Brahmarṣi)众所奉行。它至为清净、吉祥,并能摧灭诸恶煞之力。

Verse 123

अनेन विधिना युक्तस्त्रीन्वारांस्तु जपेन्नरः । भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः

男子依此仪轨,应诵念三遍;具至上虔敬与信心(śraddhā),并能调伏诸根。

Verse 124

सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः । स तु सप्तसमुद्रायाः पृथिव्या एकराड्भवेत्

若有人恒常摄心,每日诵念“七焰”(Saptārciṣa)之咒赞,便能成为为七海所环之大地上的独一君王。

Verse 125

श्राद्धकल्पं पठेद्यो वै स भवेत्पंक्तिपावनः । अष्टादशानां विद्यानां स च वै पारगः स्मृतः

凡诵读《施罗陀仪轨》(Śrāddha-kalpa)者,能净化整列受食之众;亦被铭记为通达十八门学艺之人。

Verse 126

पूजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च । प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः

人类的祖灵(Pitāmaha)若得欢喜,便恒常赐予:尊荣、滋养、记忆、慧智、王权与健康。

Verse 127

एवं प्रभासक्षेत्रे स सरस्वत्यब्धिसंगमे । कुर्याच्छ्राद्धं विधानेन प्रभासे चैव भामिनि

因此,在普罗婆娑圣地——萨拉斯瓦蒂河与大海交汇之处——应依仪则修行施罗陀(Śrāddha),就在普罗婆娑那里,卿这丽人。

Verse 206

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये सरस्वत्यब्धिसंगमे श्राद्धकल्पे श्राद्धविधिवर्णनंनाम षडुत्तरद्विशततमोऽध्यायः

至此,在尊贵的《斯甘达摩诃往世书》——八万一千颂之汇编——中,位于第七“普罗婆娑品”、第一“普罗婆娑圣地功德章”、在萨拉斯瓦蒂河与大海汇合处之“施祖祭(Śrāddha)仪轨”部分,名为《施祖祭程序之阐述》的第206章圆满结束。