Adhyaya 166
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 166

Adhyaya 166

本章以女神与自在天(Devī–Īśvara)对话展开:先叙述普拉婆娑(Prabhāsa)之地的萨维特丽(Sāvitrī)传统,继而将叙事转为可依循的誓戒仪轨。女神请问萨维特丽誓(Sāvitrī-vrata)的因缘(itihāsa)与功德果报;自在天说,阿湿婆波提王(Aśvapati)朝圣普拉婆娑时,于萨维特丽圣处(Sāvitrī-sthala)修持此誓,蒙神恩而得女,并以“萨维特丽”为名。随后概述萨维特丽与萨提耶梵(Satyavān)之事:她不顾那罗陀(Nārada)预言其夫将亡,仍择之为夫;随夫入林,直面阎摩(Yama),以坚贞与智慧求得诸愿——复明并复国于丢摩特塞那(Dyumatsena),赐其父与自身以子嗣,并令夫命归还。 后半为仪轨规定:指出在吉耶什塔月(Jyeṣṭha)自十三日起行持,三夜守戒与斋禁;并说沐浴法门,含般度井(Pāṇḍukūpa)之殊胜功德,以及满月以芥子水沐浴之福。又令塑造并布施萨维特丽像(可用金、泥、木),披红衣,以真言供养(称其为执维那琴与经典之女神,并祈“avaidhavya”——护持妇女不遭寡居、婚姻吉祥),夜间守夜诵读奏乐,并行将萨维特丽与梵天(Brahmā)作“婚礼式”供养之仪。章中细列供食次第(多对夫妇/婆罗门)、饮食禁忌(避酸与碱,重甜食)、施礼赠物与送别礼敬,并含一段含蓄的家内施行 śrāddha(追荐供养)之法。末了以“圆满结行”(udhyāpana)作结,称此法能净罪增福、护持妇女婚姻祥瑞,并许行者乃至闻者皆得世间安乐与福祉。

Shlokas

Verse 1

देव्युवाच । प्रभासे संस्थिता या तु सावित्री ब्रह्मणः प्रिया । तस्याश्चरित्रं मे ब्रूहि देवदेव जगत्पते

女神说道:“请为我宣说那居于普罗婆娑(Prabhāsa)、为梵天所钟爱的萨维特丽(Sāvitrī)之奇妙事迹吧,噢诸神之神、宇宙之主。”

Verse 2

व्रतमाहात्म्यसंयुक्तमितिहाससमन्वितम् । पाति व्रत्यकरं स्त्रीणां महाभाग्यं महोदयम्

此段记述兼具誓戒(vrata)之功德,并以圣史为凭;能护持行誓之女子,赐予大福与崇高的安泰兴盛。

Verse 3

ईश्वर उवाच । कथयामि महादेवि सावित्र्याश्चरितं महत् । प्रभासक्षेत्रसंस्थायाः स्थल स्थाने महेश्वरि । यथा चीर्णं व्रतकरं सावित्र्या राजकन्यया

自在天(Īśvara)说道:“噢大女神,我将宣说萨维特丽那宏大而神圣的行传:在普罗婆娑圣域(Prabhāsa Kṣetra)那处圣地,噢摩诃伊湿瓦丽(Maheśvarī),王女萨维特丽如何如法圆满地奉行誓戒。”

Verse 4

आसीन्मद्रेषु धर्मात्मा सर्वभूतहिते रतः । पार्थिवोऽश्वपतिर्नाम पौरजानपद प्रियः

在摩陀罗(Madra)之地,有一位奉持正法的国王,名为阿湿婆波提(Aśvapati),常勤于一切众生之福祉,深受城邑与乡里百姓爱戴。

Verse 5

क्षमावाननपत्यश्च सत्यवादी जितेन्द्रियः । प्रभासक्षेत्रयात्रायामाजगाम स भूपतिः । यात्रां कुर्वन्विधानेन सावित्रीस्थलमागतः

那位国王忍辱宽和、无子嗣、言行真实、能制御诸根;他启程朝礼普拉婆娑圣域(Prabhāsa Kṣetra)。依正法仪轨行旅,遂抵达名为“娑毗特丽”(Sāvitrī)的圣地。

Verse 6

स सभार्यो व्रतमिदं तत्र चक्रे नृपः स्वयम् । सावित्रीति प्रसिद्धं यत्सर्वकामफलप्रदम्

在那里,国王与王后同在,亲自修持此誓戒;此戒名闻为“娑毗特丽誓”(Sāvitrī-vrata),能赐予一切善愿之果。

Verse 7

तस्य तुष्टाऽभवद्देवि सावित्री ब्रह्मणः प्रिया । भूर्भुवःस्वरितीत्येषा साक्षान्मूर्तिमती स्थिता

噢女神!娑毗特丽——梵天(Brahmā)所钟爱者——对他心生欢喜。她以具身之相立于其前,正是“bhūr bhuvaḥ svaḥ(布尔·布瓦ḥ·斯瓦ḥ)”圣句之力的化现。

Verse 8

कमंडलुधरा देवी जगामादर्शनं पुनः । कालेन वहुना जाता दुहिता देवरूपिणी

那位手持迦曼陀卢(kamaṇḍalu,净水壶)的女神,再次隐没不见。经久之后,诞生了一位女儿,容光焕发,具足天人之美。

Verse 9

सावित्र्या प्रीतया दत्ता सावित्र्याः पूजया तथा । सावित्रीत्येव नामाऽस्याश्चक्रे विप्राज्ञया नृपः

此女因娑毗特丽欢喜而赐下,又因礼敬娑毗特丽而得。国王依婆罗门的劝告,便为女儿取名曰“娑毗特丽”。

Verse 10

सा विग्राहवतीव श्रीः प्रावर्धत नृपात्मजा । सावित्री सुकुमारांगी यौवनस्था बभूव ह

那位公主萨维特丽仿佛是吉祥女神室利(Śrī)化身而日益成长;肢体柔美,确已臻于青春圆满之时。

Verse 11

या सुमध्या पृथुश्रोणी प्रतिमा काञ्चनी यथा । प्राप्तेयं देवकन्या वा दृष्ट्वा तां मेनिरे जनाः

她腰肢纤细、臀胯丰阔,光辉如金像;众人见之,便以为:“莫非有天界仙女降临此处?”

Verse 12

सा तु पद्मा विशालाक्षी प्रज्वलतीव तेजसा । चचार सा च सावित्री व्रतं यद्भृगुणोदितम्

那位如莲花般的广目少女,仿佛以自身威光而炽然;萨维特丽依圣贤婆利古(Bhṛgu)所宣示,奉行“萨维特丽誓戒”(Sāvitrī-vrata)。

Verse 13

अथोपोष्य शिरःस्नाता देवतामभिगम्य च । हुत्वाग्निं विधिवद्विप्रान्वाचयेद्वरवर्णिनी

随后她斋戒并沐浴洗发,前往亲近神祇;依仪轨向圣火投献供品之后,那位殊妙的少女请婆罗门诵读圣典。

Verse 14

तेभ्यः सुमनसः शेषां प्रतिगृह्य नृपात्मजा । सखीपरिवृताऽभ्येत्य देवी श्रीवत्सरूपिणी

她欢喜地从他们那里领受余下的花朵;王女在侍女相伴簇拥中归来,光彩如女神,身具吉祥的室利跋蹉(Śrīvatsa)圣相。

Verse 15

साऽभिवाद्य पितुः पादौ शेषां पूर्वं निवेद्य च । कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता

她先礼拜父王足下,先呈上余下的供品;继而合掌恭敬,那位高贵的少女立于国王身侧。

Verse 16

तां दृष्ट्वा यौवनप्राप्तां स्वां सुतां देवरूपिणीम् । उवाच राजा संमन्त्र्य पुत्र्यर्थं सह मन्त्रिभिः

国王见到自己的女儿已至青春,光辉如天女,便与群臣商议,随后谈及女儿的前程。

Verse 17

पुत्रि प्रदानकालस्ते न हि कश्चिद्वृणोति माम् । विचारयन्न पश्यामि वरं तुल्यमिहात्मनः

“女儿啊,到了为你出嫁之时;然而无人来求与我结盟。纵我思量,也不见此间有与我相称的佳婿。”

Verse 18

देवादीनां यथा वाच्यो न भवेयं तथा कुरु । पठ्यमानं मया पुत्रि धर्मशास्त्रेषु च श्रुतम्

“你当如此行事,使我不致在诸天及众人前受人讥责。女儿啊,这正是我在《法论》(Dharma-śāstra)中所读所闻。”

Verse 19

पितुर्गेहे तु या कन्या रजः पश्यत्यसंस्कृता । ब्रह्महत्या पितुस्तस्य सा कन्या वृषली स्मृता

“若有少女尚未出嫁(未受婚礼之净化仪轨),却在父家见到月事来潮——则人说其父之罪如同杀婆罗门之罪;而那少女被称作‘vṛṣalī’。”

Verse 20

अतोऽर्थं प्रेषयामि त्वां कुरु पुत्रि स्वयंवरम् । वृद्धैरमात्यैः सहिता शीघ्रं गच्छावधारय

因此我派你前往:女儿啊,亲自筹办“自择婚”(svayaṃvara)之礼。速速启程,偕同年高而可信的重臣——于此事当坚决不移。

Verse 21

एवमस्त्विति सावित्री प्रोच्य तस्माद्विनिर्ययौ । तपोवनानि रम्याणि राजर्षीणां जगाम सा

娑毗特丽答曰:“愿如是。”遂自彼处启行。她前往王仙(rājarṣi)所居的清美苦行林苑与隐修道场。

Verse 22

मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् । ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमाणि च

在彼处,她先向诸位可敬的长老行足礼致敬。随后又遍访一切圣渡处(tīrtha)以及诸般隐修林庵。

Verse 23

आजगाम पुनर्वेश्म सावित्री सह मंत्रिभिः । तत्रापश्यत देवर्षिं नारदं पुरतः शुचिम्

娑毗特丽与随侍大臣一同回到居所。其间她见天仙圣者那罗陀(Nārada)清净光明,立于她前。

Verse 24

आसीनमासने विप्रं प्रणम्य स्मितभाषिणी । कथयामास तत्कार्यं येनारण्यं गता च सा

她向端坐座上的婆罗门顶礼致敬,含笑柔声,陈述那件事——正因其故她曾入林而行。

Verse 25

सावित्र्युवाच । आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः । द्युमत्सेन इति ख्यातो दैवादन्धो वभूव सः

萨维特丽说道:“在沙尔瓦族中,曾有一位持守正法的刹帝利国王,统御大地,名闻为‘丢摩特塞那’;然而因命运使然,他竟失明。”

Verse 26

आर्यस्य बालपुत्रस्य द्युमत्सेनस्य रुक्मिणा । सामन्तेन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा

“那位高贵的丢摩特塞那,虽有年幼之子,却被鲁克敏——一位封臣、亦是旧敌——乘此破绽夺走了王国。”

Verse 27

स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्

“他便与仍怀抱幼子的王后一道,启程入林。”

Verse 28

स तस्य च वने वृद्धः पुत्रः परमधार्मिकः । सत्यवागनुरूपो मे भर्तेति मनसेप्सितः

“在那片森林里,他的儿子长大成人——至为守法行德,言语真实;而他正是我心所愿的夫君,端正相称,堪为我配。”

Verse 29

नारद उवाच । अहो बत महत्कष्टं सावित्र्या नृपते कृतम् । बालस्वभावादनया गुणवान्सत्यवाग्वृतः

那罗陀说道:“唉!大王啊,萨维特丽竟招致了巨大的艰难;只因年少之性,她选择了那位具德之人——守真理、言语诚实者。”

Verse 30

सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते । सत्यं वदेति मुनिभिः सत्यवान्नाम वै कृतम्

“他的父亲说真语;他的母亲也宣说真语。诸牟尼称他‘说真语’,因此他确实得名为萨提亚梵(Satyavān)。”

Verse 31

नित्यं चाश्वाः प्रियास्तस्य करोत्यश्वाश्च मृन्मयान् । चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते

“马常为他所钟爱:他甚至以泥土塑马,又在画卷中描绘群马;因此他也被称为‘奇特拉阿湿瓦’(Citrāśva),意为‘有彩绘之马者’。”

Verse 32

सत्यवान्रंतिदेवस्य शिष्यो दानगुणैः समः । ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा

萨提亚梵是阑提提婆(Rantideva)的弟子,在布施之德上与师齐等。他敬奉婆罗门,言语真实——如同乌希那罗之子尸毗(Śibi)。

Verse 33

ययातिरिव चोदारः सोमवत्प्रियदर्शनः । रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली

如同耶耶提(Yayāti),他胸怀宏阔;如同苏摩(Soma),他令人悦目。其容貌可比阿湿毗尼双神(Aśvin);他亦是丢摩特塞那(Dyumatsena)强健的儿子。

Verse 34

एको दोषोऽस्ति नान्यश्च सोऽद्यप्रभृति सत्यवान् । संवत्सरेण क्षीणायुर्देहत्यागं करिष्यति

唯有一过,别无他瑕:自今日起,萨提亚梵的寿命正在消减。于一年之内,他将舍离此身(迎来死亡)。

Verse 35

नारदस्य वचः श्रुत्वा दुहिता प्राह पार्थिवम्

听闻那罗陀的言语后,公主便对国王开口说道。

Verse 36

सावित्र्युवाच । सकृज्जल्पंति राजानः सकृज्जल्पंति ब्राह्मणाः । सकृत्कन्या प्रदीयेत त्रीण्येतानि सकृत्सकृत्

娑维特丽说道:“君王所立之誓言只说一次;婆罗门之言亦只说一次。少女出嫁亦只一次——此三者皆为‘唯一次’。”

Verse 37

दीर्घायुरथवाल्पायुः सगुणो निर्गुणोऽपि वा । सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम्

无论他寿长或寿短,无论具德或甚至无德——既然我已择他为夫,便不再择第二人。

Verse 38

मनसा निश्चयं कृत्वा ततो वाचाऽभिधीयते । क्रियते कर्मणा पश्चात्प्रमाणं हि मनस्ततः

先在心中立下坚固之决意,继而以言语宣告,随后以行动践行。因此,心意才是真正的尺度(意向之根)。

Verse 39

नारद उवाच । यद्येतदिष्टं भवतः शीघ्रमेव विधीयताम् । अविघ्नेन तु सावित्र्याः प्रदानं दुहितुस्तव

那罗陀说道:“若此事合你心意,便当速速安排。愿将你之女娑维特丽出嫁之事,无有障碍而得成就。”

Verse 40

एवमुक्त्वा समुत्पत्य नारूदस्त्रिदिवं गतः । राजा च दुहितुः सर्वं वैवाहिकमथाकरोत् । शुभे मुहूर्ते पार्श्वस्थैर्ब्राह्मणैर्वेदपारगैः

说罢此言,纳罗陀起身腾空,往三界天界而去。国王随即在吉祥时辰,为女儿备办一切婚礼仪轨,身旁有通达吠陀的婆罗门相伴。

Verse 41

सावित्र्यपि च तं लब्ध्वा भर्तारं मनसेप्तितम् । मुमुदेऽतीव तन्वंगी स्वर्गं प्राप्येव पुण्यकृत्

萨维特丽亦然,得到了心中所愿的夫君,便极其欢喜——身姿纤秀——宛如积德之人得登天界。

Verse 42

एवं तत्राश्रमे तेषां तदा निवसतां सताम् । कालस्तु पश्यतां किञ्चिदतिचक्राम पार्वति

如是,当那些贤善之人住在那座林修之庵时,时光——在他们眼前——悄然流逝了些许,哦,帕尔瓦蒂。

Verse 43

सावित्र्यास्तु तदा नार्यास्तिष्ठन्त्याश्च दिवानिशम् । नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते

然而萨维特丽,这位贞雅的女子,昼夜不懈地坚守着;纳罗陀所说之语,常在她心中萦回不去。

Verse 44

ततः काले बहुतिथे व्यतिक्रान्ते कदाचन । प्राप्तः कालोऽथ मर्तव्यो यत्र सत्यव्रतो नृपः

随后,许多日子过去了;在某一时刻,命定之时终于到来——正是萨提亚弗罗多王当死之辰。

Verse 45

ज्येष्ठमासे सिते पक्षे द्वादश्यां रजनीमुखे । गणयंत्याश्च सावित्र्या नारदोक्तं वचो हृदि

在耶什塔月的白半月,第十二日暮色降临之时——当萨维特丽默数时辰——那罗陀所说之语长存于她心中。

Verse 46

चतुर्थेऽहनि मर्तव्यमिति संचिंत्य भामिनी । व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽश्रमे

她思忖:“到第四日,他必当命终。”这位贤淑女子遂立三夜之誓,昼夜安住于林居道场。

Verse 47

ततस्त्रिरात्रं न्यवसत्स्नात्वा संतर्प्य देवताम् । श्वश्रूश्वशुरयोः पादौ ववंदे चारुहासिनी

于是她守持三夜之行;沐浴净身,依礼供养使神明欢悦;那含笑端丽的女子礼拜于婆母与公公足下。

Verse 48

अथ प्रतस्थे परशुं गृहीत्वा सत्यवान्वनम् । सावित्र्यपि च भर्तारं गच्छंतं पृष्ठतोऽन्वयात्

随后,萨提亚梵执斧启程入林;萨维特丽亦随夫而行,步步相随,走在他身后。

Verse 49

ततो गृहीत्वा तरसा फलपुष्पसमित्कुशान् । अथ शुष्काणि चादाय काष्ठभारमकल्पयत्

随后他迅速采集果实、花朵、薪枝与库沙草,又取枯干之木,捆成一担柴薪。

Verse 50

अथ पाटयतः काष्ठं जाता शिरसि वेदना । काष्ठभारं क्षणात्त्यक्त्वा वटशाखावलंबितः

当他劈柴之时,忽然头痛发作。便立刻弃下木担,倚靠在榕树的一枝上。

Verse 51

सावित्रीं प्राह शिरसो वेदना मां प्रबाधते । तवोत्संगे क्षणं तावत्स्वप्तुमिच्छामि सुन्दरि

他对娑维特丽说:“头痛正折磨着我。美丽的你啊,我愿在你膝上小憩片刻。”

Verse 52

विश्रमस्व महाबाहो सावित्री प्राह दुःखिता । पश्चादपि गमिष्यामि ह्याश्रमं श्रमनाशनम्

娑维特丽忧伤地说:“大臂勇者啊,你且歇息片刻。随后我将继续前往那能消除疲惫的精舍。”

Verse 53

यावदुत्संगगं कृत्वा शिरोस्य तु महीतले । तावद्ददर्श सावित्री पुरुषं कृष्णपिंगलम्

她刚把他的头安放在自己膝上、坐于地面之时,娑维特丽便看见一名男子,肤色黑中带黄褐。

Verse 54

किरीटिनं पीतवस्त्रं साक्षात्सूर्यमिवोदितम् । तमुवाचाथ सावित्री प्रणम्य मधुराक्षरम्

他头戴宝冠,身披黄衣,光辉宛如旭日初升。娑维特丽俯身礼拜,以柔和之语向他启言。

Verse 55

कस्त्वं देवोऽथवा दैत्यो यो मां धर्षितुमागतः । न चाहं केनचिच्छक्या स्वधर्माद्देव रोधितुम्

“你是谁——天神还是阿修罗——竟来侵犯我?噢神圣者,任何人都不能使我背离我自身的达摩。”

Verse 56

विद्धि मां पुरुषश्रेष्ठ दीप्तामग्निशिखामिव

“当知我,噢人中至胜者,我如炽燃的火焰一般。”

Verse 57

यम उवाच । यमः संयमनश्चास्मि सर्वलोकभयंकरः

阎摩说道:“我即阎摩,名为制御者(Saṃyamana),令诸世界皆生畏惧。”

Verse 58

क्षीणायुरेष ते भर्ता संनिधौ ते पतिव्रते । न शक्यः किंकरैर्नेतुमतोऽहं स्वयमागतः

“你的夫君寿命已尽,噢守贞奉夫的贤妻(pativratā)。在你面前,我的使者不能将他带走;因此我亲自前来。”

Verse 59

एवमुक्त्वा सत्यव्रतशरीरात्पाशसंयुतः । अंगुष्ठमात्रं पुरुषं निचकर्ष यमो बलात्

说罢,执持绳索的阎摩以力从萨提亚弗拉塔的身中牵出一个仅拇指大小的人形。

Verse 60

अथ प्रयातुमारेभे पंथानं पितृसेवितम् । सावित्र्यपि वरारोहा पृष्ठतोऽनुजगाम ह

于是他踏上了祖灵(Pitṛ)常行之路而前行;萨维特丽亦随之而去,那位腰胯婀娜的淑女在后相随。

Verse 61

पतिव्रतत्वाच्चाश्रांता तामुवाच यमस्तथा । निवर्त गच्छ सावित्रि मुहूर्तं त्वमिहागता

因她具足贞顺的妻道(pativratā),毫无疲惫;于是阎摩对她说:“回去吧,萨维特丽。你到此不过片刻。”

Verse 62

एष मार्गो विशालाक्षि न केनाप्यनुगम्यते

“大眼的淑女啊,此路并非人人可随行。”

Verse 63

सावित्र्युवाच । न श्रमो न च मे ग्लानिः कदाचिदपि जायते । भर्तारमनुगच्छन्त्या विशिष्टस्य च संनिधौ

萨维特丽说道:“我从不生疲惫与昏弱;因为我随夫而行,又得亲近尊贵者之前。”

Verse 64

सतां सन्तो गतिर्नान्या स्त्रीणां भर्ता सदा गतिः । वेदो वर्णाश्रमाणां च शिष्याणां च गतिर्गुरुः

“对具德之人而言,善者之外别无归依;对女子而言,夫君恒为归依。对处于种姓与住期(varṇa–āśrama)之人,吠陀为归依;对弟子而言,师尊(guru)为归依。”

Verse 65

सर्वेषामेव भूतानां स्थानमस्ति महीतले । भर्त्तारमेकमुत्सृज्य स्त्रीणां नान्यः समाश्रयः

一切众生在大地上各有其所;然对女子而言,除夫君一人之外,别无正当的依止与庇护。

Verse 66

एवमन्यैः सुमधुरैर्वाक्यैर्धर्मार्थसंहितैः । तुतोष सूर्यतनयः सावित्रीं वाक्यमब्रवीत्

就这样,他又以许多甘美之语,充满法义与正当旨趣,使太阳之子阎摩心生欢喜,遂对萨维特丽开口说道。

Verse 67

यम उवाच । तुष्टोऽस्मि तव भद्रं ते वरं वरय भामिनि । सापि वव्रे च राज्यं स्वं विनयावनतानना

阎摩说道:“我已悦纳于你,愿吉祥临汝。贤淑的女子啊,择取一愿吧。” 她亦以谦恭俯首,选择了复归自身的王国。

Verse 68

चक्षुःप्राप्तिं तथा राज्यं श्वशुरस्य महात्मनः । पितुः पुत्रशतं चैव पुत्राणां शतमात्मनः

她祈求使其大德的公公重得光明并复其王国;又为其父求得百子;并为自己求得百子,令子嗣绵延于其诸子之系。

Verse 69

जीवितं च तथा भर्तुर्धर्मसिद्धिं च शाश्वतीम् । धर्मराजो वरं दत्त्वा प्रेषयामास तां ततः

她又祈求夫君得以存活,并愿法行成就恒常不坏。法王赐下此愿,随后便遣她继续前行。

Verse 70

अथ भर्तारमासाद्य सावित्री हृष्टमानसा । जगाम स्वाश्रमपदं सह भर्त्रा निराकुला

随后,萨维特丽重得夫君,心怀欢喜,便与丈夫一同回到自己的林居道场,安然无忧。

Verse 71

ज्येष्ठस्य पूर्णिमायां च तया चीर्णं व्रतं त्विदम् । माहात्म्यतोऽस्य नृपतेश्चक्षुःप्राप्तिरभूत्पुरः

在耶什塔月的满月之日,她如法奉行此誓愿。凭此誓行的殊胜功德,国王很快便重获光明之眼。

Verse 72

ततः स्वदेशराज्यं च प्राप निष्कण्टकं नृपः । पितास्याः पुत्रशतकं सा च लेभे सुताञ्छतम्

其后,国王重得本国王权,国土无刺——无仇敌、无患难。她的父亲得百子,而她自身亦诞下百位儿子。

Verse 73

एवं व्रतस्य माहात्म्यं कथितं सकलं मया

如是,我已将此誓愿的全部殊胜功德详尽宣说。

Verse 74

देव्युवाच । कीदृशं तद्व्रतं देव सावित्र्या चरितं महत् । तस्मिंस्तु ज्येष्ठमासे हि विधानं तस्य कीदृशम्

女神说道:“噢天神,萨维特丽所修持的那伟大誓愿究竟为何?并且在耶什塔月,应当如何依仪轨奉行?”

Verse 76

का देवता व्रते तस्मिन्के मन्त्राः किं फलं विभो । विस्तरेण महेश त्वं ब्रूहि धर्मं सनातनम्

“在那誓戒中应礼敬哪一位神祇?当诵何等真言?其功德果报为何,至尊之主?噢摩诃伊湿伐罗,请详说此永恒之法(达摩)。”

Verse 77

त्रयोदश्यां तु ज्येष्ठस्य दन्तधावनपूर्वकम् । त्रिरात्रं नियमं कुर्यादुपवासस्य भामिनि

在耆耶湿吒月的第十三日(十三夜),先行洁齿之仪;噢美丽者,当以禁戒自持,行三夜之持戒,内容为守斋(断食)。

Verse 78

अशक्तस्तु त्रयोदश्यां नक्तं कुर्याज्जितेन्द्रियः । अयाचितं चतुर्दश्यां ह्युपवासेन पूर्णिमाम्

若在第十三日不能全斋,则当制御诸根,行“夜食”(nakta:仅夜间进食)。至第十四日,只受不经求乞而得之食(ayācita);到满月日则应守斋断食。

Verse 79

नित्यं स्नात्वा तडागे वा महानद्यां च निर्झरे । पांडुकूपे तु सुश्रोणि सर्वस्नानफलं लभेत्

纵使日日或浴于池塘,或浴于大河,或浴于山涧清流——然而,噢纤腰者,但凡在般度井(Pāṇḍu-kūpa)沐浴,便得一切圣浴之功德果。

Verse 80

विशेषात्पूर्णिमायां तु स्नानं सर्षपमृज्जलैः

尤其在满月之日,应以掺入芥子与净泥(洁身之土、泥土)的水而沐浴。

Verse 81

गृहीत्वा वालुकं पात्रे प्रस्थमात्रे यशस्विनि । अथवा धान्यमादाय यवशालितिलादिकम्

将沙装入器皿,量为一钵罗萨他(prastha),噫,贤名之女;或改取谷粒,如大麦、稻米、芝麻等诸类——

Verse 82

ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टिते । सावित्रीप्रतिमां कृत्वा सर्वावयवशोभिताम्

随后,在以双层布包裹的竹器中,应塑作娑维特丽(Sāvitrī)之像,使诸肢体端严具足、庄饰圆满。

Verse 83

सौवर्णीं मृन्मयीं वापि स्वशक्त्या दारुनिर्मिताम् । रक्तवस्त्रद्वयं दद्यात्सावित्र्या ब्रह्मणः सितम्

随自身财力,应供奉(娑维特丽之像)或以黄金、或以陶土、或以木材所制;并当奉献一对红衣予娑维特丽,又以白衣奉献梵天(Brahmā)。

Verse 85

पूर्णकोशातकैः पक्वैः कूष्माण्डकर्कटीफलैः । नालिकेरैः सखर्जूरैः कपित्थैर्दाडिमैः शुभैः

以成熟饱满的拘舍阿塔迦(kośātaka)果,以冬瓜与黄瓜之果,以椰子与枣,并以吉祥的木苹果(wood-apple)与石榴——当陈设为供品。

Verse 86

जंबूजंबीरनारिंगैरक्षोटैः पनसैस्तथा । जीरकैः कटुखण्डैश्च गुडेन लवणेन च

以阎浮果(jambū),以香橼与橙(nāriṅga),以核桃与菠萝蜜;并以孜然、辛辣调味、古达糖(jaggery, guda)与盐——使供奉之仪具足圆满。

Verse 87

विरूढैः सप्तधान्यैश्च वंशपात्रप्रकल्पितैः । रंजयेत्पट्टसूत्रैश्च शुभैः कुंकुमकेसरैः

并以已发芽的七种谷物,安置于竹制器皿之中;当以吉祥的丝线、藏红花(kumkuma)与芬芳的花蕊(kesara)庄严供坛。

Verse 88

अवतारं करोत्येवं सावित्री ब्रह्मणः प्रिया

正以此法,娑维特丽(Sāvitrī)——梵天(Brahmā)之爱侣——便示现降临。

Verse 89

तामर्च्चयीत मन्त्रेण सावित्र्या ब्रह्मणा समम् । इतरेषां पुराणोक्तो मंत्रोऽयं समुदाहृतः

当以真言礼拜于她,并与娑维特丽及梵天同奉。此真言亦为诸者所用,乃诸《往世书》所宣说,今当诵出。

Verse 90

ओंकारपूर्वके देवि वीणापुस्तकधारिणि । वेदांबिके नमस्तुभ्यमवैधव्यं प्रयच्छ मे

噢以“唵”为先之女神,执持维那琴与经典者,诸吠陀之母——我向您顶礼;愿赐我“不为寡居”(avaidhavya)之福。

Verse 91

एवं संपूज्य विधिवज्जागरं तत्र कारयेत् । गीतवादित्रशब्देननरनारीकदंबकम् । नृत्यद्धसन्नयेद्रात्रिं नृत्यशास्त्रविशारदैः

如是依法圆满供养之后,当于彼处设夜间守醒之仪(jāgara)。以歌声与乐器之音,令男女众会通宵起舞欢笑,由精通舞论者引领而度此夜。

Verse 92

सावित्र्याख्यानकं चापि वाचयीत द्विजोत्तमान् । यावत्प्रभातसमयं गीतभावरसैः सह

亦当令上等婆罗门诵读娑维特丽(Sāvitrī)圣传,直至黎明时分,并以充满虔敬与审美妙味之歌相伴。

Verse 93

विवाहमेवं कृत्वा तु सावित्र्या ब्रह्मणा सह । परिधाप्य सितैर्वस्त्रैर्दंपतीनां तु सप्तकम्

如是与梵天(Brahmā)同为娑维特丽举行婚仪之后,当为七对夫妇披着白衣。

Verse 94

सावित्रीं ब्रह्मणा सार्धमेवं शक्त्या प्रपूजयेत् । गन्धैः सुगन्धपुष्पैश्च धूपनैवेद्यदीपकैः

如是依自身能力,当如法供奉娑维特丽与梵天,奉上香料、芬芳之花、熏香、食供(naivedya)与明灯。

Verse 95

अथ सावित्रीकल्पज्ञे सावित्र्याख्यानवाचके । दैवज्ञे ह्युञ्छवृत्तिस्थे दरिद्रे चाग्निहोत्रिणि

随后,(当寻请)通晓娑维特丽仪轨者、诵读娑维特丽圣传者、博学的占星者、以拾穗为生者、贫者,以及阿耆尼火供者(Agnihotrin,守护圣火之人)。

Verse 96

एवं दत्त्वा विधानेन तस्यां रात्रौ निमन्त्रयेत् । पौर्णमास्यां वटाधस्ताद्दंपतीनां चतुर्दश

如法施与之后,于当夜——在满月之日——当邀请十四对夫妇,聚集于榕树之下。

Verse 97

ततः प्रभातसमये उषःकाल उपस्थिते । भक्ष्यभोज्यादिकं सर्वं सावित्रीस्थलमानयेत्

随后在黎明时分、曙光已至之际,应将一切供食——点心、熟食及其余诸物——带到萨维特丽(Sāvitrī)的圣地。

Verse 98

पाकं कृत्वा तु शुचिना रक्षां कृत्वा प्रयत्नतः । ब्राह्मणान्गृहिणीयुक्तांस्तत आह्वानयेत्सुधीः

以清净之心烹煮之后,又勤谨地行护持之仪,智者应当随后邀请携妻同来的婆罗门。

Verse 99

सावित्र्याः स्थलके तत्र कृत्वा पादाभिषेचनम् । सुस्नातान्ब्राह्मणांस्तत्र सभार्यानुपवेशयेत्

在那里,于萨维特丽的圣地,为他们行洗足礼后,应使已沐浴清净的婆罗门与其妻同坐就席。

Verse 100

सावित्र्याः पुरतो देवि दंपत्योर्भोजनं ददेत् । तेनाहं भोजितस्तत्र भवामीह न संशय

女神啊,应在萨维特丽之前供养那对夫妇之餐。由此,我自身亦在彼处得受供食——毫无疑虑。

Verse 101

द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः । लक्ष्म्याः सहायो वरदो वरांस्तस्य प्रयच्छति

凡供养第二对夫妇者,即是供养了凯沙瓦(Keśava)。赐福者与吉祥天女拉克希米(Lakṣmī)同在,将赐予其人所愿之福。

Verse 102

सावित्र्या सहितो ब्रह्मा तृतीये भोजितो भवेत् । एकैकं भोजनं तत्र कोटिभोजसमं स्मृतम्

在第三次供食时,梵天(Brahmā)与娑毗特丽(Sāvitrī)同受供养,被视为已得饮食。于彼处每一次供食,皆被忆念为等同供养一俱胝(koṭi,千万)。

Verse 103

अष्टादशप्रकारेण षड्रसीकृतभोजनम् । देव्यास्तत्र महादेवि सावित्रीस्थलसन्निधौ

于彼处,噢大女神,在娑毗特丽圣地之前,应为女神奉上以十八种式样烹制、具足六味的供食。

Verse 104

विधवा न कुले तस्य न वंध्या न च दुर्भगा । न कन्याजननी चापि न च स्याद्भर्तुरप्रिया । अष्टौ दोषास्तु नारीणां न भवंति कदाचन

在她的家族中,永无寡妇,永无不孕者,亦无遭厄运之人;也不会有只生女儿的母亲,更不会有人为夫所厌。诚然,世所归咎于女子的八种过失,在彼处任何时候都不生起。

Verse 105

तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे च भोजनम् । दातव्यं सर्वदा देवि कटुनीलविवर्जितम्

因此,噢女神,当竭尽全力,常在娑毗特丽之前奉食;其供食应远离辛辣之物,并避开“nīla”(黑暗、发黑或所禁之物)。

Verse 106

न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन । पंचप्रकारं मधुरं हृद्यं सर्वं सुसंस्कृतम्

不可将酸味之食,亦不可将碱性/咸涩辛烈之品,供给女子。应当奉上五类甘甜之食,悦心可意,烹制精善。

Verse 107

घृतपूर्णापूपकाश्च बहुक्षीरसमन्विताः । पूपकास्तादृशाः कार्या द्वितीयाऽशोकवर्तिका

应当备办充满酥油并以丰厚牛乳制成的 apūpa(供饼)。同样的供饼亦须制作;第二项为名为“阿输迦(Aśoka)”的 aśoka-vartikā,即供奉用的灯芯/卷供。

Verse 108

तृतीया पूपिका कार्या खर्जुरेण समन्विताः । चतुर्थश्चैव संयावो गुडाज्याभ्यां समन्वितः

第三项应制作 pūpikā(甜供饼),并与椰枣同制。第四项为 saṃyāva,以粗糖(jaggery)与酥油(ghee)调制而成。

Verse 109

आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा । धनधान्यजनोपेतं नारीनरशताकुलम् । पूपकैस्तु कुलं तस्या जायते नात्र संशयः

如此供献能令男子欢悦,亦为女子极其珍爱。她的家宅将具足财富、谷粮与人丁——充满数百男女。以此供饼之施,她的族系兴盛无疑。

Verse 110

न ज्वरो न च संतापो दुःखं च न वियोगजम् । अशोकवर्तिदानेन कुलानामेकविंशतिः

无有热病,无有灼恼之苦,亦无因离别而生的忧伤。以施与 aśoka-varti 之功德,家族二十一代皆蒙利益。

Verse 111

वधूभिश्च सुतैश्चैव दासीदासैरनन्तकैः । पूरितं च कुलं तस्याः पूरिका या प्रयच्छति

凡施与 pūrikā(甜馅饼/甜面饼)者,其家族将充满儿媳与儿子,并有无数婢女与仆役相随。

Verse 112

पुत्रिण्यो वै दुहितरो वधूभिः सहिताः कुले । शिखरिणीप्रदात्रीणां युवतीनां न संशयः

诸女确实将得子嗣,家族亦将迎来儿媳同在——对于供奉“施迦利尼”(śikhariṇī,名号甜食)的年轻女子,毫无疑虑。

Verse 113

मोदते च कुलं सर्वं सर्वसिद्धिप्रपूरितम् । मोदकानां प्रदानेन एवमाह पितामहः

于是全族欢喜,具足一切成就。毗多摩诃(梵天)如是宣说:施与摩达迦(modaka,甜团)即得此果。

Verse 114

एतच्च गौरिणीनां तु भोजनं हि विशिष्यते

此事确被视为供养“高丽女众”(Gaurī 之女众、吉祥已婚女信众)的最上施食。

Verse 115

सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता । सहस्रभोजिनी देवि भवेज्जन्मनिजन्मनि

女神啊,她将成为有福之人,得子嗣、具贞善,富足而昌盛;并且生生世世成为能供养千人的施食者。

Verse 116

पानानि चैव मुख्यानि हृद्यानि मधुराणि च । द्राक्षापानं तु चिंचायाः पानं गुडसमन्वितम्

而诸上等饮品应当悦意甘甜——如葡萄饮,以及罗望子(ciñcā)饮调和粗糖(jaggery)。

Verse 117

सरसेन तु तोयेन कृतखण्डेन वै शुभम् । सुवासिनीनां पेयं वै दातव्यं च द्विजन्मनाम्

以芬芳之水与精制之糖调成吉祥之饮,当供奉于有福之已婚妇女,亦当施与二生者(dvija)。

Verse 118

इतरैरितराण्येव वर्णयोग्यानि यानि च । सुरभीणि च पानानि तासु योग्यानि दापयेत्

对其他诸类人等,当施以与其身份相称之物;同样,也应赐予适合那些妇女的芬芳饮品。

Verse 119

प्रतिपूज्य विधानेन वस्त्रदानैः सकंचुकैः । कुङ्कुमेनानुलिप्तांगाः स्रग्दामभिरलंकृताः । गंधैर्धूपैश्च संपूज्य नालिकेरान्प्रदापयेत्

依仪轨先行礼敬:施与衣服并内衣,复以朱红粉(kuṅkuma)涂抹其身,饰以花鬘与花串,又以香料与熏香供养;随后当奉上椰子。

Verse 120

नेत्राणां चाञ्जनं कृत्वा सिन्दूरं चैव मस्तके । पूगीफलानि हृद्यानि वासितानि मृदूनि च । हस्ते दत्त्वा सपात्राणि प्रणिपत्य विसर्जयेत्

以眼药(añjana)点其目,以朱砂(sindūra)饰其首;再将芬芳柔软、令人欢喜的槟榔果(pūgī)连同器皿置于其手;随后稽首,恭敬送别。

Verse 121

स्वयं च भोजयेत्पश्चाद्बंधुभिर्बालकैः सह

其后,当与亲族及孩童一同自享其食。

Verse 123

एवमेव पितॄणां च आगम्य स्वे च मन्दिरे । पिण्डप्रदानपूर्वं तु श्राद्धं कृत्वा विधानतः । पितरस्तस्य तुष्टा वै भवन्ति ब्रह्मणो दिनम्

同样地,回到自家宅第时,应依仪轨为祖灵行施罗陀(śrāddha),先以供奉团食(piṇḍa)为始。其先祖将满足整整一个“梵天之日”。

Verse 124

तीर्थादष्टगुणं पुण्यं स्वगृहे ददतः शुभे । न च पश्यन्ति वै नीचाः श्राद्धं दत्तं द्विजातिभिः

在自家吉祥布施,其功德为在圣地(tīrtha)布施的八倍。且心性卑下之人,不能得见由二生者(dvija)所献的施罗陀(śrāddha)。

Verse 125

एकान्ते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते । नीचं दृष्ट्वा हतं तत्तु पितॄणां नोपतिष्ठति

为祖灵(Pitṛ)所行的施罗陀(śrāddha),应在家中幽静、私密且受护持之处举行。若被卑劣之人看见,此施罗陀便被毁坏,不能达于先祖。

Verse 126

तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत् । पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयंभुवा

因此,应竭尽全力使施罗陀(śrāddha)在隐密中举行。此事能令祖灵满足,乃自生者(Svayambhū,即梵天)亲自宣说。

Verse 127

गौरीभोज्यादिका या तु उत्सर्गात्क्रियते क्रिया । राजसी सा समाख्याता जनानां कीर्तिदायिनी

然而,那种为公开炫示而行的仪式——如与高丽女神(Gaurī)等相关的宴飨与供献——称为“罗阇性”(rājasic);它能在世人中带来名声。

Verse 128

इदं दानं सदा देयमात्मनो हित मिच्छता । श्राद्धे चैव विशेषेण यदीच्छेत्सात्त्विकं फलम्

此布施应当常行,凡求自身真实福祉者皆当施与——尤以施行 śrāddha 之时为甚——若欲得萨特维克(清净)之果报。

Verse 129

इदमुद्यापनं देवि सावित्र्यास्तु व्रतस्य च । सर्वपातकशुद्ध्यर्थं कार्यं देवि नरैः सदा । अकामतः कामतो वा पापं नश्यति तत्क्षणात्

噢,女神啊,此乃萨维特丽誓愿之结愿仪式(udyāpana)。为净除一切罪垢,人们应当恒常奉行,噢,天女。无欲而行亦可,有欲而行亦可,罪业于当下刹那即灭。

Verse 130

इह लोके तु सौभाग्यं धनं धान्यं वराः स्त्रियः । भवंति विविधास्तेषां यैर्यात्रा तत्र वै कृता

就在此世,他们得享吉祥福运——财富、谷粮与种种殊胜的良配——凡曾前往彼处完成朝圣者皆如是。

Verse 131

इदं यात्राविधानं तु भक्त्या यः कुरुते नरः । शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते

凡以虔敬(bhakti)奉行此朝圣仪轨者——乃至仅仅聆听者——亦得解脱一切罪业。

Verse 132

ज्येष्ठस्य पूर्णिमायां तु सावित्रीस्थलके शुभे । प्रदक्षिणा यः कुरुते फलदानैर्यथाविधि

于耶什塔月(Jyeṣṭha)满月之日,在吉祥的萨维特丽圣处,凡行绕行礼(pradakṣiṇā),并依仪轨以果品作布施者——

Verse 133

अष्टोत्तरशतं वापि तदर्धार्धं तदर्धकम् । यः करोति नरो देवि सृष्ट्वा तत्र प्रदक्षिणाम्

噢女神,凡人在彼处行绕行礼(pradakṣiṇā),或满一百零八匝,或其半,或再半;凡能于彼地圆满绕行者——

Verse 134

अगम्यागमनं यैश्च कृतं ज्ञानाच्च मानवैः । अन्यानि पातकान्येवं नश्यंते नात्र संशयः

即便有人明知故犯,触犯“趋近禁忌”之罪,并有诸般过失;亦能以此法令诸罪消灭,此中毫无疑惑。

Verse 135

यैर्गत्वा स्थलके संध्या सावित्र्याः समुपासिता । स्वपत्न्याश्चैव हस्तेन पांडुकूपजलेन च

凡至彼处,以己手汲取般度井(Pāṇḍu-kūpa)之水,并与妻同修,奉事萨维特丽(Sāvitrī)而行三时礼(Sandhyā)者,实已于彼圣地如法成就其Sandhyā。

Verse 136

भृंगारकनकेनैव मृन्मयेनाथ भामिनि । आनीय तु जलं पुण्यं संध्योपास्तिं करोति यः । तेन द्वादशवर्षाणि भवेत्संध्या ह्युपासिता

噢佳丽,凡携来圣水——或盛于金器,或置于陶罐——而修行Sandhyā礼拜者;以此功德,其Sandhyā被视为已如法奉行十二年。

Verse 137

अश्वमेधफलं स्नाने दाने दशगुणं तथा । उपवासे त्वनंतं च कथायाः श्रवणे तथा

在此圣地沐浴,可得马祭(Aśvamedha)之果;行布施,功德增至十倍;修斋戒,功德无量;聆听圣传,亦复如是。

Verse 166

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सावित्रीव्रतविधिपूजनप्रकारोद्यापनादिकथनंनाम षट्षष्ट्युत्तरशततमोऽध्यायः

至此,在受敬的《斯甘达摩诃往世书》中——八万一千颂之汇编——第七部《普拉婆娑篇》(Prabhāsa Khaṇḍa)之第一分《普拉婆娑圣地功德》(Prabhāsakṣetra Māhātmya)中,题为《萨维特丽誓戒(Sāvitrī-vrata)的仪轨、礼拜之法、圆满结愿仪式(udyāpana)及相关事宜》的第一百六十六章宣告结束。