Adhyaya 14
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 14

Adhyaya 14

本章以天女(Devī)与自在天(Īśvara)的对话展开,请求详述普拉婆娑(Prabhāsa)与太阳相应的神圣性、阿尔迦圣地(Arka-sthala)作为地域“庄严饰物”的本源地位,以及如法礼拜的要则——真言、仪轨与节庆时日。自在天遂以劫初(Kṛta-yuga)的古例作答。 他叙述圣者阇伊吉沙毗耶(Jaigīṣavya),为舍多迦罗迦(Śatakalāka)之子,来到普拉婆娑,历经漫长岁月分阶段修苦行:唯以气息为食、唯饮清水、以叶为粮,并循月相持守誓戒。最终他以极严峻的出离行与虔敬之心礼拜一尊林伽。湿婆(Śiva)现身,赐予能断轮回(saṃsāra)的“智瑜伽”,并授以德行之基——不傲慢、忍辱、克己;又许以瑜伽自在与未来得见神圣之相。 随后本章申明此地功德贯通诸劫:至迦梨劫(Kali-yuga),此林伽以“悉地自在”(Siddheśvara)著称;在阇伊吉沙毗耶之洞窟中修瑜伽与供奉,能速得转化之果,净化身心,并利益祖先。末后的果报偈(phalaśruti)宣说礼拜悉地林伽之功德殊胜无比,并以宇宙尺度作对比而赞叹。

Shlokas

Verse 1

देव्युवाच । यदेतद्भवता प्रोक्तं माहात्म्यं सूर्यदैवतम् । तन्मे विस्तरतो ब्रूहि देवदेव जगत्पते

女神说道:“你所宣说的太阳神之大威德,请为我更详尽地开示吧,噢诸神之神、世界之主。”

Verse 2

कथमर्कस्थलो भूतः प्रभासक्षेत्रभूषणः । पूजनीयो महादेवः सम्यग्यात्राफलेप्सुभिः

摩诃提婆如何成为“阿尔迦斯塔拉”——普拉婆娑圣域之庄严饰物——又为何应受那些希求如法朝圣之真实果报者的礼拜供养?

Verse 3

के मंत्राः किं विधानं तु केषु पर्वसु पूजयेत् । जैगीषव्येश्वरो भूत्वा ह्यभूत्सिद्धेश्वरः कथम् । तन्मे कथय देवेश विस्तरात्सर्वमेव हि

应当诵用哪些真言,合宜的仪轨为何,又当于哪些神圣节期礼拜供奉?并且,主宰既曾名为“阇伊吉沙维耶湿伐罗”,又如何成为“悉地湿伐罗”?诸神之主啊,请将这一切为我详尽宣说。

Verse 4

पाताले विवरं तत्र योगिन्यस्तत्र किं पुरा । तथा मातृगणश्चैव कथमेतदभूत्पुरा

并且,在往昔那里通向波多罗(地下界)的那道开口是如何出现的?那里的瑜伽女神众,以及母神群(Mātṛ)又是怎样的存在——这一切在过去究竟如何形成?

Verse 5

एतत्सर्वमशेषेण दयां कृत्वा जगत्पते । ममाचक्ष्व विरूपाक्ष यद्यहं ते प्रिया हर

噢,世间之主,请以慈悲将这一切毫无遗漏地告知于我。噢,毗卢帕克沙,噢,哈罗——若我为你所爱,请为我开示。

Verse 6

ईश्वर उवाच । साधु पृष्टं त्वया देवि कथयामि समासतः । सिद्धेश्वरो ह्यभूद्येन जैगीषव्येश्वरो हरः

自在天说道:“问得好,女神啊。我将略述:哈罗曾以‘阇伊吉沙毗耶湿伐罗’之名为人所知,他如何成为‘悉地湿伐罗’。”

Verse 7

पूजाविधानं विस्तीर्य तन्मे निगदतः शृणु । आसीदस्मिन्कृते देवि सर्व ज्ञानविशारदः

且听我详述礼拜供奉的仪轨。在这迦利之前的克利多时代,女神啊,曾有一人通达一切学识。

Verse 8

पुत्रः शतकलाकस्य जैगीषव्य इति श्रुतः । प्रभासक्षेत्रमासाद्य स चक्रे दुश्चरं तपः

他是沙多迦罗迦之子,名闻为阇伊吉沙毗耶。抵达普拉婆娑圣域后,他修行了极其艰难的苦行。

Verse 9

अतिष्ठद्वायुभक्षश्च वर्षाणां शतकं किल । अम्बुभक्षः सहस्रं तु शाकाहारोऽयुतं तथा

据说他以风为食住世百年;继而以水为食千年;又同样以青菜叶蔬为食一万年。

Verse 10

चांद्रायणसहस्रं च कृतं सांतपनं पुनः । शोषयित्वा मिताहारो दिग्वासाः समपद्यत

他修行了一千次“月行斋”(Cāndrāyaṇa),又再行“Sāṃtapana”苦行。身形消瘦,只以少量饮食维生,并成了“以方为衣”(digvāsā)之人,披空为裳。

Verse 11

पूर्वे कल्पे स्वयं भूतं महोदयमिति श्रुतम् । स लिंगं देवदेवस्य प्रतिष्ठाप्यार्चयन्नपि

在往昔一劫中,曾有一尊自现的林伽,名为“摩诃乌达耶”(Mahodaya)。他安立那位“诸天之天”的林伽,并以礼敬供奉之。

Verse 12

भस्मशायी भस्मदिग्धो नृत्त गीतैरतोषयत् । जपेन वृषनादैश्च तपसा भावितः शुचिः

他卧于圣灰之上,身亦涂抹圣灰,以舞与歌令主欢喜;又以持咒(japa)、以诵扬吠陀之音、以苦行熏修,身心澄净,内在清明。

Verse 13

तमेवं तोषयाणं तु भक्त्या परमया युतम् । भगवांश्च तमभ्येत्य इदं वचनमब्रवीत्

见他如此以至诚奉悦于主,具足无上奉爱(bhakti),世尊便亲近而来,说了如下言辞。

Verse 14

जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा । तुष्टोऽस्मि वरदश्चाहं ब्रूहि यत्ते मनोगतम्

“噢,阇耆湿婆耶(Jaigīṣavya),大慧大心者——以天眼观我。我已欢喜,我亦是赐愿施恩者。说出你心中所愿。”

Verse 15

स एवमुक्तो देवेन देवं दृष्ट्वा त्रिलोचनम् । प्रणम्य शिरसा पादाविदं वचनमब्रवीत्

蒙神如是告诫后,他瞻见三目天神;俯首礼拜于主足下,遂说出如下言辞。

Verse 16

जैगीषव्य उवाच । भगवन्देवदेवेश मम तुष्टो यदि प्रभो । ज्ञानयोगं हि मे देहि यः संसारनिकृन्तनम्

耆吉沙毗耶说道:“世尊,诸天之天主——若您垂悦于我,请赐我解脱之智瑜伽,能斩断轮回系缚者。”

Verse 17

भगवन्नान्यदिच्छामि योगात्परतरं हितम् । त्वयि भक्तिश्च नित्यं मे देव्यां स्कन्दे गणेश्वरे

“主啊,我别无所求——再无高于此瑜伽之善。愿我恒常奉爱于您,并亦奉爱于女神、斯坎达与伽内湿伐罗(伽内沙)。”

Verse 18

न च व्याधिभयं भूयान्न च तेजोऽपमानता । अनुत्सेकं तथा क्षांतिं दमं शममथापि च

“并愿我无惧疾病,亦无灵性光辉之减损;赐我谦卑、忍耐、自制,以及寂静安定。”

Verse 19

एतान्वरान्महादेव त्वदिच्छामि त्रिलोचन

“大天啊,三目之主——我向您所求的恩赐,唯此而已。”

Verse 20

ईश्वर उवाच । अजरश्चामरश्चैव सर्वशोकविवर्जितः । महायोगी महावीर्यो योगैश्वर्यसमन्वितः

自在天(Īśvara)说道:“你将远离衰老与死亡,不为一切忧苦所触;你将成为大瑜伽行者,具大威力,圆满具足瑜伽之主的殊胜成就。”

Verse 21

प्रभावाच्चास्य क्षेत्रस्य गुह्यस्य मम शाश्वतम् । योगाष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत्

“并且凭此圣域之威力——我那永恒而隐秘的境界——你将获得至高而广大、具足八种德相的瑜伽自在之权。”

Verse 22

भविष्यसि मुनिश्रेष्ठ योगाचार्यः सुविश्रुतः

“噢,诸牟尼中最胜者,你将成为声名远播的瑜伽导师(瑜伽阿阇梨),为世人所共称扬。”

Verse 23

यश्चेदं त्वत्कृतं लिगं नियमेनार्चयिष्यति । सर्वपापविनिर्मुक्तो योगं दिव्यमवाप्स्यति

“凡以正当誓戒与律仪礼敬你所造之林伽者——将脱离一切罪垢,并得证天妙之瑜伽。”

Verse 24

जैगीषव्यगुहां चेमां प्राप्य योगं करोति यः । स सप्तरात्राद्युक्तात्मा संसारं संतरिष्यति

“凡至此耆耆湿婆耶(Jaigīṣavya)洞窟而修习瑜伽者——即使仅以调御之心持守七夜,也将渡越轮回(saṃsāra)。”

Verse 25

मासेन पूर्वजातिं च जन्मातीतं च वेत्स्यति । एकरात्रात्तनुं शुद्धां द्वाभ्यां तारयते पितॄन् । त्रिरात्रेण व्यतीतेन त्वपरान्सप्त तारयेत्

一月之内,他将知晓前生之身,并了悟超越生死之境。仅一夜便能净化其身;两夜则能度脱祖灵(pitṛ);三夜既过,复可再度七位先祖。

Verse 26

पुनश्च तव विप्रर्षे अजेयत्वं च योगिभिः । इच्छतो दर्शनं चैव भविष्यति च ते मम

又复,婆罗门圣仙啊:汝将不可战胜,即使诸瑜伽行者亦不能制伏;并且,随汝所愿,我之圣观(darśana)必定现前。

Verse 27

इति देवो वरान्दत्त्वा तत्रैवांतरधीयत । एतत्कृतयुगे वृत्तं तव देवि प्रभाषितम्

如是,天神赐下诸愿后,即于彼处隐没而去。此事发生在圆满时代——克利多瑜伽(Kṛta Yuga),女神啊,我已如实告汝。

Verse 28

त्रेतायुगे महादेवि द्वापरेऽपि तथैव च । कलियुगप्रवेशे तु वालखिल्या महर्षयः

大女神啊,于特雷塔瑜伽(Tretā Yuga)及同样于德瓦帕罗瑜伽(Dvāpara)亦复如是;而在迦梨瑜伽(Kali Yuga)初入之时,瓦拉奇利亚(Vālakhilya)诸大圣仙亦在彼处显现并行其事。

Verse 29

अस्मिन्प्राभासिके क्षेत्रे सूर्यस्थलसमीपतः । आराधयंतो देवेशं गुहामध्यनिवासिनम्

在此普拉婆娑(Prabhāsa)圣域中,近于苏利耶(Sūrya)之处,他们虔诚礼敬诸天之主——居于洞窟深处者。

Verse 30

अष्टाशीतिसहस्राणि ऋषयश्चोर्द्धरेतसः । वर्षायुतं तपस्तप्त्वा सिद्धिं जग्मुस्तदात्मिकाम्

八万八千位圣仙(ṛṣi)守持梵行,苦修(tapas)一万年,遂证得与其本性相应的悉地(成就)。

Verse 31

ततः सिद्धेश्वरं लिंगं कलौ ख्यातं वरानने । यदा सोमेन संयुक्ता कृष्णा शिवचतुर्दशी । तदैव तस्य देवस्य दर्शनं देवि दुर्ल्लभम्

其后,容颜姝丽者啊,此灵伽在迦梨时代以“悉地湿伐罗”(Siddheśvara)之名闻世。若黑半月的“湿婆十四日”(Śiva-Caturdaśī)与苏摩(月神)相合之时,女神啊,得见彼神之圣观(darśana)极其稀有而殊胜。

Verse 32

ब्रह्मांडं सकलं दत्त्वा यत्पुण्यमुपजायते । तत्पुण्यं लभते देवि सिद्धलिंगस्य पूजनात्

女神啊,布施整个宇宙所生之福德,亦可由礼拜悉达灵伽(Siddhaliṅga)而获得。