Adhyaya 129
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 129

Adhyaya 129

第129章围绕普拉婆娑(Prabhāsa)的一处林伽展开神学叙述。自在天(Īśvara)先指明其所在:临海近日之方隅,并说明距离;称其为能息灭罪垢的“劫林伽”(yugaliṅga)。此林伽旧名阿克沙玛勒湿伐罗(Akṣamāleśvara),后世以乌格罗塞涅湿伐罗(Ugraseneśvara)著称。天后(Devī)问其旧名缘起,自在天遂讲述一段灾厄之时的应急之法(āpaddharma)。 饥荒之际,饥饿的仙人(ṛṣi)前往一户贱民(antyaja,旃陀罗 Caṇḍāla)家中求粮,虽当时有关于清净与禁食的戒律。贱民陈述规范限制与可怖后果;仙人则援引危难伦理的先例——阿吉伽尔塔、婆罗多婆阇、毗湿瓦密多罗、瓦摩提婆——以证明为保全生命而受食并非失德。随后达成条件:婆悉吒(Vasiṣṭha)同意迎娶其女阿克沙玛拉(Akṣamālā);她因德行端正并与诸仙相随,遂被认作阿伦陀底(Arundhatī)。 在普拉婆娑,她于林苑中发现林伽,凭宿缘忆念与恒常供奉,使其名声显现为除罪之所。至二婆罗与迦利交替之时,安陀阿修罗之子乌格罗塞那(Ugrasena)礼拜同一林伽十四年,得子迦ṃ萨(Kaṃsa),此后圣所遂普称乌格罗塞涅湿伐罗。章末宣说功德果报:仅以瞻礼或触及即可减轻重罪;在婆陀罗钵陀月(Bhādrapada)“仙人五日”(Ṛṣi‑pañcamī)修供,可脱离对地狱趣的恐惧;并赞叹施舍牛、食物与清水,能净化身心并增益身后安乐。

Shlokas

Verse 1

ईश्वर उवाच । ततो गच्छेन्महादेवि अक्षमालेश्वरं परम् । सागरार्कादीशकोणे पंचाशद्धनुषान्तरे

自在天说道:“其后,大女神啊,当往至无上阿刹摩勒湿伐罗,位于萨伽罗阿尔迦与阿底湿之隅,距此五十弓之量。”

Verse 2

संस्थितं पापशमनं युगलिंगं महाप्रभम् । अक्षमालेश्वरंनाम पुरा तस्य प्रकीर्तितम् । उग्रसेनेश्वरं नाम ख्यातं तस्यैव साम्प्रतम्

其处矗立一座光辉灿然、威德宏大的“双林伽”,能息灭罪垢。往昔称为“阿刹摩勒湿伐罗”;而今同一林伽又以“乌格罗塞那湿伐罗”之名著称。

Verse 3

देव्युवाच । अक्षमालेश्वरं नाम यत्पूर्वं समुदाहृतम् । कथं तदभवद्देव कथयस्व प्रसादतः

女神说道:“噢,天神啊,往昔曾称此处为‘阿克沙玛勒伊湿伐罗’。此名因何而起?愿你以慈恩为我宣说。”

Verse 4

ईश्वर उवाच । आसीत्पुरा महादेवि सती चाध मयोनिजा । अक्षमालेति वै नाम्ना सतीधर्मपरायणा

自在天说道:“往昔啊,大女神,有一位贤德女子,出自摩耶(奇异之源),名为‘阿克沙玛拉’,坚固奉持达摩。”

Verse 5

कदाचित्समनुप्राप्ते दुर्भिक्षे कालपर्ययात् । ऋषयश्च महादेवि क्षुधाक्रान्ता विचेतसः

有一次,由于时运变迁,饥荒降临;诸位仙圣啊,大女神,他们被饥饿所迫,心神忧苦而迷惘。

Verse 6

सर्वे चान्नं परीप्संतो गताश्चण्डालवेश्मनि । ज्ञात्वान्नसंग्रहं तस्य प्रार्थयाञ्चक्रुरन्त्यजम्

众人为了求食,来到一位旃陀罗的家。得知他储有粮食,便向那被视为贱民者恳求施食。

Verse 7

भोभोऽन्त्यज महाबुद्धे रक्षास्मानन्नदानतः । प्राणसंदेहमापन्नान्कृशांगान्क्षुत्प्रपीडितान्

“噢,贱民啊,具大慧者!愿以施食救护我等。我们形体枯瘦,饥饿逼迫,性命已陷于危疑之间。”

Verse 8

अहो धन्योऽसि पूज्योऽसि न त्वमन्त्यज उच्यसे । यदस्मिन्प्रलये याते स्थितं धान्यं गृहे तव

啊!你真是有福、堪受敬礼之人——不应称你为“安底耶阇”(贱民);因为当这场大劫灾临至时,你家中仍有谷粮储存未尽。

Verse 9

अनावृष्टिहते देशे सस्ये च प्रलयं गते । एकं यो भोजयेद्विप्रं कोटिर्भवति भोजिता

在遭旱灾摧残、庄稼尽灭之地,若有人供养哪怕一位婆罗门,其施食之功德等同于供养一拘胝(千万)之数。

Verse 10

अन्त्यज उवाच । अहो आश्चर्यमतुलं यदेतद्दृश्यतेऽधुना । यदेतन्मद्गृहं प्राप्ता ऋषयश्चान्नकांक्षिणः

安底耶阇说道:“啊!如今所见真是无比奇妙——那些对饮食毫无欲求的圣仙(ṛṣi),竟来到我家!”

Verse 11

शूद्रान्नमपि नादेयं ब्राह्मणैः किमुतान्त्यजात्

“婆罗门连出自首陀罗之食也不应受取,更何况出自安底耶阇者!”

Verse 12

आमं वा यदि वा पक्वं शूद्रान्नं यस्तु भक्षति । स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले

“无论生的或熟的,凡食首陀罗之食者,必成村野之猪;否则,此类众生将生于其家族血脉之中。”

Verse 13

अमृतं बाह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् । वैश्यान्नमन्नमित्याहुः शूद्रान्नं रुधिरं स्मृतम्

婆罗门之食被视为甘露;刹帝利之食被记为乳。吠舍之食仅称“食”;首陀罗之食则被记为血。

Verse 14

शूद्रान्नं शूद्रसंपर्कं शूद्रेण च सहासनम् । शूद्रादन्नागमश्चैव ज्वलंतमपि पातयेत्

来自首陀罗的食物、与首陀罗的接触、与首陀罗同席而坐——以及从首陀罗处受食——皆应弃绝,即便在迫切之时,“纵使如火灼身”亦然。

Verse 15

अग्निहोत्री तु यो विप्रः शूद्रान्नान्न निवर्तते । एते तस्य प्रणश्यंति आत्मा ब्रह्म त्रयोऽग्नयः

然而那位奉持阿耆尼火供(Agnihotra)的婆罗门,若仍不戒绝首陀罗之食——于他而言,这些将败亡:其我(ātman)、梵辉(Brahman-tejas,圣威),以及三圣火。

Verse 16

शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि । षण्मासाभ्यन्तरे विप्रः पिशाचः सोऽभिजायते

若婆罗门在腹中尚存首陀罗之食时死去,则在六个月之内,那位婆罗门将生为毕舍遮(Piśāca,恶灵)。

Verse 17

शूद्रान्नेन द्विजो यस्तु अग्निहोत्रं जुहोति च । चण्डालो जायते प्रेत्य शूद्राच्चैवेह दैवतः

又有那位二生者(dvija)以首陀罗之食行阿耆尼火供者——死后将生为旃陀罗;并且在此世间,他所依的“神祇”(仪轨之神格)亦成首陀罗,亦即仪神被贬。

Verse 18

यस्तु भुञ्जति शूद्रान्नं मासमेकं निरन्तरम् । इह जन्मनि शूद्रत्वं मृतः शूद्रोऽभिजायते

若有人连续一月不断食用首陀罗之食,于此生即得首陀罗之身分;死后亦复生为首陀罗。

Verse 19

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् । आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः

王家之食夺人光辉;首陀罗之食夺人婆罗门之光(梵辉)。金匠之食夺人寿命;皮匠之食夺人名声。

Verse 20

कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च । गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति

取自工匠之食毁其子嗣;洗衣者之食毁其气力。庙役之食与妓女之食,使人断绝于诸高界。

Verse 21

पूयं चिकित्सकस्यान्नं पुंश्चल्याश्चान्नमिन्द्रियम् । विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम्

医者之食如脓;娼妓之食如诸根堕落。放债取利者之食如粪;贩卖兵刃者之食如污秽。

Verse 22

सहस्रकृत्वस्त्वेतेषामन्ने यद्भक्षिते भवेत् । तदेकवारं भुक्तेन कन्याविक्रयिणो भवेत्

纵使千次食用上述诸食,其果报亦无差别;等同于仅一次食用那卖女求婚者之食所招之报。

Verse 23

सहस्रकृत्वस्तस्यैव भुक्तेऽन्ने यत्फलं भवेत् । तदन्त्यजानामन्नेन सकृद्भुक्तेन वै भवेत्

食用那食物千次所生之果报——确实也会因仅一次食用安底耶迦(被视为社会秩序之外者)的食物而生起。

Verse 24

तत्कथं मम विप्रेन्द्राश्चंडालस्याधमात्मनः । धर्ममेवं विजानन्तो नूनमन्नं जिहीर्षथ

既然如此,噢婆罗门中最尊者,你们既明知如是之法,为何如今还欲从我——卑劣本性的旃陀罗——取食?

Verse 25

ऋषय ऊचुः । जीवितात्ययमापन्नो योऽन्नमाद्रियते ततः । आकाश इव पंकेन न स पापेन लिप्यते

诸仙人曰:人若已临近死亡之际,纵从彼处(即便如此之源)受食,亦不为罪垢所染;犹如虚空不为淤泥所污。

Verse 26

अजीगर्तः सुतं हंतुमुपसर्पन्बुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रतीघातमाचरन्

阿吉伽尔塔为饥饿所逼,竟趋近欲杀其子;然其所为唯为抵御饿死,故不为罪所染。

Verse 27

भारद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । बह्वीर्गा उपजग्राह बृहज्ज्योतिर्महामनाः

婆罗陀婆阇为饥饿所苦,与其子同在荒寂之林,夺取了许多牛群——虽其为大心仙人,具广大灵光。

Verse 28

क्षुधार्तो गीतमभ्यागाद्विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय धर्माधर्मविचक्षणः

毗湿瓦密多因饥饿所迫,前去取狗肉;他能辨别正法与非法,便从旃陀罗之手受取。

Verse 29

श्वमांसमिच्छन्नर्तौ तु धर्मान्न च्ययते स्म सः । प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान्

即使在饥荒之时,虽欲食狗肉,他也未曾背离正法。为护持生命之气,婆摩提婆并未为罪所染。

Verse 30

एवं ज्ञात्वा धर्मबुद्धे सांप्रतं मा विचारय । ददस्वान्नं ददस्वान्नमस्माकमिह याचताम्

既已知此,具正法之心者啊,如今莫再踌躇。赐予食物——赐予食物给我们这些在此乞求的人。

Verse 31

चंडाल उवाच । यद्येवं भवतां कार्यमिदमंगीकृतं धुवम् । तदियं मत्सुता कन्या भवद्भिः परिगृह्यताम्

旃陀罗说道:“若此确为诸位既定之意,且已坚决承诺,那么请你们迎娶这位少女——我的亲生女儿。”

Verse 32

भवतां योग्रणीर्ज्येष्ठः स चेमामुद्वहेद्ध्रुवम् । दास्ये वर्षाशनं पश्चादीप्सितं भवतां द्विजाः

“让你们诸领袖中最年长者必定迎娶她。其后,噢二次生者们,我将供给你们整整一年的食粮——随你们所愿。”

Verse 33

ईश्वर उवाच । इत्युक्ता ऋषयो देवि लज्जयाऽनतकन्धराः । प्रत्यालोच्य यथान्यायं वसिष्ठं समनूद्वहन्

自在天说道:“女神啊,诸仙闻此言,羞惭而俯首。依正理详加商议之后,他们劝请婆悉吒接受此途。”

Verse 34

वसिष्ठोऽपि समाख्याय आपद्धर्मं महामनाः । कालस्यानन्तरप्रेक्षी प्रोद्ववाहाऽन्त्यजाङ्गनाम् । अक्षमालेति वै नाम्नीं प्रसिद्धा भुवनत्रये

婆悉吒亦复大心,宣说“厄难之法”(āpaddharma),并观时势所需,依法迎娶安底耶阇族之女,名阿叉摩罗;其名遂闻于三界。

Verse 35

यदा स्वकीयतेजोभिरर्कबिंबमरुन्धत । अरुंधती तदा जाता देवदानव वंदिता

当她以自身光辉压过太阳圆轮之时,便得名“阿伦达蒂”,为诸天与阿修罗同所敬礼。

Verse 36

यादृशेन तु भर्त्रा स्त्री संयुज्येत यथाविधि । सा तादृगेव भवति समुद्रेणेव निम्नगा

女子若依仪轨与何等品性之夫相结合,便成就同等品性——如江河终归大海而与之为一。

Verse 37

अक्षमाला वसिष्ठेन संयुक्ताऽधम योनिजा । शार्ङ्गीव मन्दपालेन जगाम ह्यर्हणीयताम्

阿叉摩罗虽出身卑微,然与婆悉吒结合后,便臻于应受礼敬之位——如舍朗吉与曼达波罗相合而得尊荣。

Verse 38

एवं कालक्रमेणैव प्रभासं क्षेत्रमागताः । सप्तर्षयो महात्मानो ह्यरुंधत्या समन्विताः

就这样,随着岁月推移,七位大圣仙(七仙)与阿伦达蒂一同来到神圣的普拉婆娑圣域。

Verse 39

तीर्थानि प्रेषयामासुः सर्वसिद्धिप्रदानि ताम्

他们遣她前往诸圣渡处(tīrtha)——能赐予一切成就(悉地)的圣所。

Verse 40

एषामन्वेषमाणानां तव देवी ह्यरुंधती । अपश्यल्लिंगमेकं तु वृक्षजालांतरे स्थितम्

当他们寻觅之时,你的夫人阿伦达蒂看见一座湿婆林伽,独自隐在密密的树丛之间。

Verse 41

तं दृष्ट्वा देवदेवेशमेवं जातिस्मराऽभवत् । पूर्वस्मिञ्जन्मनि मया रजोभावांतरस्थया

一见那众神之主,她便忆起前生,心中思惟:“在往昔一世,我——处于被罗阇(激情之性)所系缚的另一种境地——……”

Verse 42

अज्ञानभावाद्देवेशो नूनं चात्रार्चितः ।शिवः । तस्मात्कर्मफलं प्राप्तमन्त्यजत्वं द्विजन्मना

确然是由于无明,主宰湿婆在此被不如法地礼拜;因此,作为业果,一位两次生者(dvija)竟堕为贱民(antyaja)之境。

Verse 43

कस्तेन सदृशो देवः शंभुना भुवनत्रये । राज्यं नियमिनामेवं यो रुष्टोऽपि प्रयच्छति

在三界之中,有哪位神能与商布(Śambhu)相比?即使不悦,他仍赐予自持守戒者以王权与统御。

Verse 44

इति संचिंत्य मनसा तत्रैव निरताऽभवत् । पूजयामास तल्लिंगं दिव्याब्दानां शतं प्रिये

她在心中如此思量,便仍留在彼处专一奉敬。亲爱的啊,她礼拜那尊林伽,历经一百个天界之年。

Verse 45

एवं तस्य प्रभावेन दृश्यते गगनांतरे । अरुंधती सती ह्येषा दृष्टा दुष्कृतनाशिनी

凭借那份威力,阿伦达蒂——贞洁贤善的圣女——显现在天际;瞻仰其相,能灭除诸恶业。

Verse 46

अक्षमालेश्वरस्त्वेवं यथावत्कथितस्तव । ततस्तु द्वापरस्यान्ते कलौ संध्यांशके गते

如此,阿克沙玛列湿伐罗(Akṣamāleśvara)已如实为你宣说。其后,在兜婆罗纪将尽、迦梨纪的暮分已至之时……

Verse 47

अंधासुरसुतश्चासीदुग्रसेन इति श्रुतः । स प्रभासं समासाद्य पुत्रार्थं लिंगमेयिवान्

有一位安达阿修罗之子,名闻为乌格罗塞那(Ugrasena)。他来到普拉婆娑,趋近林伽,祈求得子。

Verse 48

अक्षमालेश्वरं नाम ज्ञात्वा माहात्म्यमद्भुतम् । समाराध्य महादेवं नव वर्षाणि पंच च । संप्राप्तवांस्तदा पुत्रं कंसासुरमिति श्रुतम्

得知名为“阿克沙玛勒湿伐罗”(Akṣamāleśvara)之神的奇妙大威德后,他虔诚奉事大自在天(Mahādeva)十四年;随后得一子,闻名为阿修罗甘萨(Kaṃsa)。

Verse 49

तत्कालान्तरमारभ्य उग्रसेनेश्वरोऽभवत् । पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि

自那时起,此神被称为“乌格罗塞涅湿伐罗”(Ugraseneśvara)——能灭除一切众生之罪,乃至仅以瞻礼一见,甚至一触亦然。

Verse 50

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः । महान्ति पातकान्याहुर्नश्यंति तस्य दर्शनात्

杀害婆罗门、饮酒沉醉、盗窃、侵犯师尊之妻——此等被宣说为大罪;然而在普拉婆娑(Prabhāsa)仅以瞻礼(darśana)那位圣主之见,亦能令其尽灭。

Verse 51

तत्रैव ऋषिपञ्चम्यां प्राप्ते भाद्रपदे शुभे । अक्षमालेश्वरं पूज्य मुच्यते नारकाद्भयात्

就在彼处,当吉祥的婆陀罗钵陀月(Bhādrapada)迎来“仙人五日”(Ṛṣi-pañcamī)之日时,凡礼拜阿克沙玛勒湿伐罗者,得脱离地狱诸界之怖畏。

Verse 52

गोप्रदानं प्रशंसंति तत्रान्नमुदकं तथा । सर्वपापविनाशाय प्रेत्यानंतसुखाय च

在那里,人们称赞施舍乳牛,也同样称赞布施饮食与清水——为灭尽一切罪业,并于身后得无尽安乐。

Verse 53

इति ते कथितं देवि ह्यक्षमालेश्वरोद्भवम् । माहात्म्यं पापशमनं श्रुतं दुःखनिबर्हणम्

如是,女神啊,我已向你宣说阿克沙玛勒湿伐罗(Akṣamāleśvara)的起源与伟大——此《摩诃阿特弥耶》能息灭罪业;一经聆听,便能除遣忧苦。

Verse 129

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उग्रसेनेश्वरमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः

如是,在尊贵的《室建陀摩诃补罗那》中——八万一千颂之汇编(Saṃhitā)——第七卷(Prabhāsa Khaṇḍa)之第一部《普拉婆娑圣地摩诃阿特弥耶》中,题为《乌格罗塞涅湿伐罗(Ugraseneśvara)伟大功德之述说》的第一百二十九章至此圆满。