Adhyaya 101
Prabhasa KhandaPrabhasa Kshetra MahatmyaAdhyaya 101

Adhyaya 101

本章铺陈一则神学与伦理相贯通的故事,揭示行为、业果与以虔敬而得补救之道。那罗陀来到堕罗伐底,观察夜陀婆族的宫廷情势;三婆的轻慢无礼遂成叙事的引线。那罗陀提出关于醉意与社会处境下“心念易散、注意不定”的尖锐议题,引发克里希那的深思,使后续发展宛如一场试炼。 在一次游乐出行中,那罗陀召三婆至克里希那与内宫诸女之前;三婆因躁动而失去自制(又为酒力所助),遂致失序。克里希那降下诅咒,作为伦理警策:心神旁骛、处世不慎,必招社会之危与业报之价;经文说部分女子坠失所许之归趣,后来又为盗贼所掳,而主要王后因其定力与端正而得护持。三婆亦被诅咒患麻风,由此转入忏悔与赎罪的主题。 三婆在普罗婆娑行严峻苦行,建立并礼敬苏利耶(太阳神),依所规定的赞颂偈而供奉,遂蒙赐痊愈之恩,并受行为约束。随后本章列出教义与仪轨纲目:苏利耶十二名、与月份相应的十二阿底提耶,以及誓戒(vrata)次第——尤以摩伽月白半第五至第七日为要——并述供品如夹竹桃花(karavīra)与红檀香、礼拜程序、供养婆罗门及其功德果报。末尾功德偈(phalāśruti)宣示:闻此事迹能灭罪并得健康。

Shlokas

Verse 1

ईश्वर उवाच । एतस्मिन्नेव काले तु नारदो भगवानृषिः । ब्रह्मणो मानसः पुत्रस्त्रिषु लोकेषु गर्वितः

自在天说道:“就在那时,天圣仙那罗陀——梵天意生之子——名闻三界。”

Verse 2

सर्वलोकचरः सोऽपि युवा देवनमस्कृतः । तथा यदृच्छया चायमटमानः समंततः

他亦遍行诸世——年少而为诸天所礼敬;于是周游四方,随缘而行,偶然往来。

Verse 3

वासुदेवं स वै द्रष्टुं नित्यं द्वारवतीं पुरीम् । आयाति ऋषिभिः सार्द्धं क्रोधेन ऋषि सत्तमः

为得瞻礼婆苏提婆,他常与诸仙同来堕罗伐底城;然而此番,这位最上仙者却含怒而至。

Verse 4

अथाश्वागच्छतस्तस्य सर्वे यदुकुमारकाः । ये प्रद्युम्नप्रभृतयस्ते च प्रह्वाननाः स्थिताः

于是,当他迅速走近时,所有夜度王子——以普拉丢姆那为首——都垂首低面而立(外示恭敬)。

Verse 5

अभावाच्चार्घ्यपाद्यानां पूजां चक्रुः समंततः । सांबस्त्ववश्यभावित्वात्तस्य शापस्य कारणात्

由于缺少供奉用的阿尔吉亚水与洗足水(pādya),他们便尽其所能、以种种方式完成礼拜。然而萨姆巴在不可逃避的宿命驱使下,竟成了那诅咒的因缘。

Verse 6

अवज्ञां कुरुते नित्यं नारदस्य महात्मनः । रतक्रीडा स वै नित्यं रूपयौवनगर्वितः

他常常轻慢大德那罗陀。沉溺于情欲嬉戏之中,因自负容貌与青春而时时醉于傲慢。

Verse 7

अविनीतं तु तं दृष्ट्वा चिन्तयामास नारदः । अस्याहमविनीतस्य करिष्ये विनयं शुभम्

那罗陀见他无礼失范、缺乏谦恭,便思量道:“我当为这无纪律之人施以吉祥的矫正,使其得知克制与谦卑。”

Verse 8

एवं स चिन्तयित्वातु वासुदेवमथाब्रवीत् । इमाः षोडशसाहस्राः स्त्रियो या देवसत्तम

他如此思量之后,便对婆苏提婆说道:“噢,诸天中最胜者,这一万六千位女子……”

Verse 9

सर्वास्तासां सदा सांबे भावो देव समाश्रितः । रूपेणाप्रतिमः सांबो लोकेऽस्मिन्सचराचरे

噢,主啊,她们众人恒常以情意归向萨姆巴。就容貌而言,萨姆巴在此动与不动的世界中无与伦比。

Verse 10

सदाऽर्हंति च तास्तस्य दर्शनं ह्यपि सत्स्त्रियः । श्रुत्वैवं नारदाद्वाक्यं चिन्तयामास केशवः

那些贤德的女子恒常堪受,乃至得蒙其亲见。听闻那罗陀如是之言,克舍婆便开始沉思。

Verse 11

यदेतन्नारदेनोक्तं सत्यमत्र तु किं भवेत् । एवं च श्रूयते लोके चापल्यं स्त्रीषु विद्यते । श्लोकाविमौ पुरा गीतौ चित्तज्ञैर्योषितां द्विजैः

“那罗陀在此所说,果真皆为真实么?然而世间常闻:女子之中有轻变不定。诚然,此二偈乃昔日洞察人心、明了女情之婆罗门所歌咏。”

Verse 12

पौंश्चल्यादतिचापल्यादज्ञानाच्च स्वभावतः । रक्षिता यत्नतो ह्येता विकुर्वंति हि भर्तृषु

“由于放纵、由于过度轻变、又由于本性所生的无明——纵使竭力守护——这些女子仍对其夫行事反复无常。”

Verse 13

नैता रूपं परीक्षंते नाऽसां वयसि संश्रयः । सुरूपं वा विरूपं वा पुमानित्येव भुंजते

“她们不审美貌,也不顾年岁;男子或俊或丑,只以‘是男子’而与之相交。”

Verse 14

ईश्वर उवाच । मनसा चिन्तयित्वैवं कृष्णो नारदमब्रवीत् । नह्यहं श्रद्दधाम्येतद्यदेतद्भाषितं पुरा

主曰:如是于心中思量后,黑天对那罗陀说道:“我实不信受,自古以来如此所说之言。”

Verse 15

ब्रुवाणमेवं देवं तु नारदः प्रत्युवाच ह । तथाहं तु करिष्यामि यथा श्रद्धास्यते भवान्

主如此宣说时,那罗陀答道:“善哉——我将如此行事,使尊者生起信心而信受。”

Verse 16

एवमुक्त्वा ययौ भूयो नारदस्तु यथागतम् । ततः कतिपयाहस्य द्वारकां पुनरभ्यगात्

说罢,那罗陀又离去,仍如来时一般返回。过了几日,他再次前往德瓦拉迦。

Verse 17

तस्मिन्नहनि देवोऽपि सहांतःपौरकैर्जनैः । अनुभूय जलक्रीडां पानमासेवते रहः

就在那一天,主亦与内宫眷属同享戏水之乐;随后在幽静处,独自饮用甘醴。

Verse 18

रम्ये रैवतकोद्याने नानाद्रुमविभूषिते । सर्वर्तुकुसुमैर्नित्यं वासिते सर्वकामने

在可爱殊胜的罗伊瓦塔迦园林中,众树罗列为饰,四时花香常熏,能满一切所愿。

Verse 19

नानाजलजफुल्लाभिर्दीर्घिका भिरलंकृते । हंससारससंघुष्टे चक्रवाकोपशोभिते

园中又以多处长池为饰,莲华盛开;天鹅与鹤声回响其间,更有成双的查克拉瓦迦鸟增添秀美。

Verse 20

तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा । हारनूपुरकेयूररसनाद्यैर्विभूषणैः

在那里,主神当时嬉游,众多女子环绕侍奉,身佩项链、脚镯、臂钏、腰带等种种庄严饰物。

Verse 21

भूषितानां वरस्त्रीणां सर्वांगीणां विशेषतः । तत्रस्थः पिबते पानं शुभगन्धान्वितं शुभम्

在那些装饰精妙、肢体皆美的贵族女子相伴之中,主安住其处,饮用吉祥之饮,芬芳馥郁,清净可喜。

Verse 22

एतस्मिन्नंतरे बुद्ध्वा मद्यमत्तास्ततः स्त्रियः । उवाच नारदः सांबमस्मिंस्तिष्ठ कुमारक

其间,纳罗陀觉察诸女因酒而醉,便对三摩婆说道:“少王子啊,你且留在此处。”

Verse 23

त्वां समाह्वयते देवो न युक्तं स्थातुमत्र ते । तद्वाक्यार्थमबुद्ध्वैव नारदेनाथ नोदितः

“主神在召唤你;你不宜停留于此。”他未明白此言深意,便又被纳罗陀催促前行。

Verse 24

गत्वा तु सत्वरं सांबः प्रणाममकरोत्पितुः । निर्द्दिष्टमासनं भेजे यथाभावेन विष्णुना

随后,三摩婆急忙前往,向父亲顶礼致敬;并依礼就座于毗湿奴所指示的座位之上。

Verse 25

एतस्मिन्नंतरे तत्र यास्तु वै चाल्पसात्त्विकाः । ता दृष्ट्वा सहसा सांबं सर्वाश्चुक्षुभिरे स्त्रियः

就在那一刻,那些在场、萨埵之力不甚坚固的女子,忽然见到萨姆巴(Sāmba),无不心神骚动。

Verse 26

न स दृष्टः पुरा याभिरंतःपुरनिवासिभिः । मद्यदोषात्ततस्तासां स्मृतिलोपात्तथा बहु

因为那些居于内室的女子从前未曾见过他;又因酒之过失,她们的记忆大为失落。

Verse 27

स्वभावतोऽल्पसत्त्वानां जघनानि विसुस्रुवुः । श्रूयते चाप्ययं श्लोकः पुराणप्रथितः क्षितौ

依其本性,内力薄弱者腰胯便不稳而摇。且此偈在诸《往世书》中著名,于世间亦常被传诵。

Verse 29

लोकेऽपि दृश्यते ह्येतन्मद्यस्याप्यथ सेवनात् । लज्जां मुंचंति निःशंका ह्रीमत्यो ह्यपि च स्त्रियः

此事于世间亦可见:因饮酒之故,即便端庄的女子也会抛却羞惭,变得大胆而无所顾忌。

Verse 30

समांसैर्भोजनैः स्निग्धैः पानैः सीधुसुरासवैः । गंधैर्मनोज्ञैर्वस्त्रैश्च कामः स्त्रीषु विजृंभति

以丰盛的肉食、油润的佳肴与饮品——西度酒(sīdhu)、苏罗酒(surā)及诸般发酵之酒——再加上悦意的香氛与衣饰,欲爱之心便在女子中膨胀而苏醒。

Verse 31

मद्यं न देयमत्यर्थं पुरुषेण विपश्चिता । मदोन्मत्ताः स्वभावेन पूर्वं संति यतः स्त्रियः

智者之男不应过度施与酒浆;因为女子依其天性,往往更易被醉意所牵引而失其持守。

Verse 32

नारदोऽप्यथ तं सांबं प्रेषयित्वा त्वरान्वितः । आजगामाथ तत्रैव सांबस्यानुपदेन तु

随后那罗陀亦遣萨姆巴先行;他自己心怀急切,紧随萨姆巴的足迹而至彼处。

Verse 33

आयांतं ताः स्वयं दृष्ट्वा प्रियसौमनसं मुनिम् । सहसैवोत्थिताः सर्वा मदोन्मत्ता अपि स्त्रियः

她们亲眼见那可亲可喜的牟尼行近,众女子虽在醉中,亦一时齐起而立。

Verse 34

तासामथोत्थितानां तु वासुदेवस्य पश्यतः । भित्त्वा वासांस्यनर्घाणि पात्रेषु पतितानि तु

然而当她们起身之时,瓦苏提婆在旁目睹:那无价衣裳竟被扯裂,坠入彼处器皿之中。

Verse 35

जघनेषु विलग्नानि तानि पेतुः पृथक्पृथक् । तद्दृष्ट्वा तु हरिः कुद्धस्ताः शशाप ततोऽबलाः

那些衣裳贴在胯间,遂一件件分落。哈利见此大怒,便降咒于那些无助的女子。

Verse 36

यस्माद्गतानि चेतांसि मां मुक्त्वाऽन्यत्र वः स्त्रियः । तस्मात्पतिकृतांल्लोकानायुषोंऽते न यास्यथ

“因为你们的心念,诸位女子,舍我而转向他处——因此在寿命终尽之时,你们将不得抵达因敬奉夫君而得的诸界。”

Verse 37

पतिलोकात्परिभ्रष्टाः स्वर्गमार्गात्तथैव च । भूत्वा ह्यशरणा भूयो दस्युहस्तं गमिष्यथ

“你们将从夫君之界堕落,也同样从通往天界之道坠失;既成无依无靠之人,又将再度落入盗贼之手。”

Verse 38

शापदोषात्ततस्तस्मात्ताः स्त्रियो गां गते हरौ । हृताः पांचनदैश्चौरैरर्जुनस्य प्रपश्यतः

因此,由于那诅咒之垢染,当哈利(毗湿奴)已往天界而去时,那些女子被旁遮那陀地区的盗贼掳走,阿周那亲眼目睹。

Verse 39

अल्पसत्त्वाश्च याश्चासंस्ता गता दूषणं स्त्रियः । रुक्मिणी सत्यभामा च तथा जांबवती प्रिये

那些内力薄弱、又陷于可责之过的女子被掳去;但鲁克米妮、萨蒂娅婆摩,以及迦姆婆瓦蒂,亲爱的,并不在其中。

Verse 40

न प्राप्ता दस्युहस्तं ताः स्वेन सत्त्वेन रक्षिताः । शप्त्वैवं ताः स्त्रियः कृष्णः सांबमप्यशपत्पुनः

她们并未落入盗贼之手,因为各自以坚贞之德自护。如此,克里希纳既已诅咒那些女子,随后又再次诅咒了萨姆巴。

Verse 41

यस्मादतीव ते कांतं दृष्ट्वा रूपमिमाः स्त्रियः । क्षुब्धाः सर्वा यतस्तस्मात्कुष्ठरोगमवाप्नुहि

因为见到你极其俊美的形貌,这些女子皆被欲念所搅动;因此缘故,愿你罹患麻风之疾。

Verse 42

तस्य तद्वचनं श्रुत्वा सांबो लज्जासमन्वितः । उवाच प्रहसन्वाक्यं स स्मरन्नृषिसत्तमम्

听到他那番话,萨姆巴满怀羞惭;忆念那位最胜仙人,便带着半分微笑开口说道。

Verse 43

अनिमित्तमहं तात भावदोषविवर्जितः । शप्तो न मेऽत्र वै कुद्धो दुर्वासा नान्यथा वदेत्

“慈父啊,我无缘无故、心意无过,却遭诅咒。此事我并不真怒——杜尔瓦萨绝不会另作他言。”

Verse 44

एवमुक्त्वा ततः सांबः कृष्णं कमललोचनम् । ततो वैराग्यसंयुक्तश्चिन्ताशोकपरायणः

说罢,萨姆巴走近莲眼的克里希纳;随后被离欲之心所摄,沉入忧思与悲苦之中。

Verse 45

प्रभासक्षेत्रमगमत्सर्वपातकनाशनम् । एवं तत्क्षेत्रमासाद्य तपस्तेपे सुदारुणम्

他前往普拉婆娑圣域——能灭尽一切罪业之地。既至此神圣之境,便修行极其严峻的苦行。

Verse 46

प्रतिष्ठाप्य सहस्रांशुं देवं पापनिषूदनम् । ततश्चाराधयामास परं नियममाश्रितः

安立千光者(太阳神),这位摧灭罪业的天神之后,他依止至高的戒律与克制,虔诚礼拜供养于彼。

Verse 47

त्रिसंध्यं पूजयामास दिव्यगंधानुलेपनैः । स्तोत्रेणानेन भक्त्या वै स्तौति नित्यं दिनाधिपम्

于一日三时交会之际,他以天妙香薰与涂香供养礼拜;并以此赞颂偈,怀着虔敬,日日称扬昼之主宰——太阳神。

Verse 48

सांब उवाच । नमस्त्रैलोक्यदीपाय नमस्ते तिमिरापह । नमः पंकजनाथाय नमः कुमुदशत्रवे

萨姆巴说道:“顶礼于您,三界之灯;顶礼于您,驱除黑暗者。顶礼于您,莲华之主;顶礼于您,夜莲(库穆达)之敌。”

Verse 49

नमो जगत्प्रतिष्ठाय जगद्धात्रे नमोऽस्तु ते । देवदेव नमस्यामि सूर्यं त्रैलोक्यदीपकम्

“顶礼于您,宇宙之所依;顶礼于您,世间之持者。噢,诸天之天,我稽首于苏利耶——照耀三界之明灯。”

Verse 50

आदित्यवर्णो भुवनस्य गोप्ता अपूर्व एष प्रथमः सुराणाम् । हिरण्यगर्भः पुरुषो महात्मा स पठ्यते वै तमसः परस्तात्

“光辉如阿底提耶,护持诸世界——无与伦比,为众天之首;祂即金胎(Hiraṇyagarbha)、大灵之普鲁沙。诚然,经典称祂超越黑暗之彼岸。”

Verse 51

इति स्तुतस्तदा सूर्यः प्रसन्नेनांतरात्मना । उवाच दर्शनं गत्वा सांबं जांबवतीसुतम्

如是受赞,苏利耶(太阳神)内心欢悦,遂以神圣异象显现,向阎婆伐底之子萨姆巴开示言语。

Verse 52

सांबसांब महावाहो शृणु गोविन्दनन्दने । स्तोत्रेणानेन तुष्टोऽहं वरं ब्रूहि यदीप्सितम्

“萨姆巴,萨姆巴,噢大臂勇者——听我言,噢戈文达之后裔。此赞颂令我欢喜;说出你所愿求的恩赐吧。”

Verse 53

सांब उवाच । कृष्णेनाहं सुरश्रेष्ठ शप्तः पापः सुदुर्मतिः । कुष्ठांतं कुरु मे देव यदि तुष्टोऽसि मे प्रभो

萨姆巴说道:“噢诸天之最胜者,我这罪人、心智邪昧者,已被克里希纳所诅咒。噢主宰,若你垂悦于我,愿终止我这麻风之苦。”

Verse 54

श्रीभानुरुवाच । भूय एव महाभाग नीरोगस्त्वं भविष्यसि । यादृग्रूपः पुरा ह्यासीर्मम चैव प्रसादतः

圣光者婆奴(苏利耶)说道:“噢有福之人,你将再度无病安康;凭我的恩典,你将复得昔日之形貌。”

Verse 55

अद्य प्रभृति नेक्ष्यास्ता विष्णुभार्याः कथंचन । न तासां दर्शने जातु स्थातव्यं यदुनन्दन

“自今日起,你切莫以任何方式注视毗湿奴的诸位圣妃。噢雅度族之所喜悦者,万不可停留在她们面前。”

Verse 56

तासामीर्ष्यापरीतेन विष्णुना प्रभविष्णुना । कुष्ठं ते यादवश्रेष्ठ प्रदत्तं हि महात्मना

噢,雅度族中最殊胜者!那位大心的毗湿奴——普罗婆毗湿奴——因她们而起嫉妒所覆,确已将此麻风之疾赐予你。

Verse 57

यो मां स्तोत्रेण चानेन समागत्य च स्तोष्यति । न तस्यान्वयसंभूतः कुष्ठी कश्चिद्भविष्यति

凡来此以此颂歌赞叹我者,其家族血脉之中,永无一人会罹患麻风。

Verse 58

अथादित्यस्य नामानि सम्यग्जानीहि द्वादश । द्वादशैव तथान्यानि तानि वक्ष्याम्यशेषतः

如今当正知阿底提耶(太阳神)的十二圣名;另有一组十二名,我将无遗无漏地为你尽皆宣说。

Verse 59

आदित्यः सविता सूर्यो मिहिरोऽर्कः प्रतापनः । मार्त्तंडो भास्करो भानुश्चित्रभानुर्द्दिवाकरः

阿底提耶、萨维特利、苏利耶、弥希罗、阿尔迦、普罗塔帕那、马尔坦达、婆斯迦罗、婆奴、奇特罗婆奴与提婆迦罗——此等皆为太阳的著名圣号。

Verse 60

रविर्द्वादशनामैवं ज्ञेयः सामान्यनामभिः । विष्णुर्धाता भगः पूषा मित्रोंऽशुर्वरुणो ऽर्यमा

由是,罗毗(太阳)当以这十二个通行之名而知:毗湿奴、达特利、婆伽、普尚、密特罗、阿姆舒、伐楼那与阿利耶曼。

Verse 61

इन्द्रो विवस्वांस्त्वष्टा च पर्जन्यो द्वादशः स्मृतः । इति ते द्वादशादित्याः पृथक्त्वेन प्रकीर्तिताः

因陀罗、毗婆斯梵、特瓦什特里与帕尔贾尼亚,被忆念为补足十二之数。由是,这十二位阿底提耶被分别宣说,各各具其自相。

Verse 62

उत्तिष्ठंति सदा ह्येते मासैर्द्वादशभिः क्रमात् । विष्णुस्तपति वै चैत्रे वैशाखे चार्यमा सदा

诚然,这些阿底提耶常依十二月次第而起,主宰其时。毗湿奴于恰伊特罗月炽然照耀,阿利耶曼恒于毗舍迦月炽盛。

Verse 63

विवस्वाञ्ज्येष्ठमासे तु आषाढे चांशुमांस्तथा । पर्ज्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञिके

毗婆斯梵主宰耶什陀月;阿ṃ舒曼亦主宰阿沙陀月。降雨之帕尔贾尼亚在室罗伐那月,而伐楼那在名为普劳什陀之月。

Verse 64

इन्द्रश्चाश्वयुजे मासि धाता तपति कार्तिके । मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः

因陀罗主宰阿湿伐瑜阇月;达特里于迦尔提迦月炽然。又如是,密多罗在摩伽尸尔沙月,普尚在保沙月,噢,天光者(太阳)!

Verse 65

माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने । शतैर्द्वादशभिर्विष्णू रश्मीनां दीप्यते सदा

当知薄伽主宰摩伽月;特瓦什特里于颇罗古那月炽然。毗湿奴恒常辉耀,以一千二百道光芒照世。

Verse 66

दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्यमा । द्विसप्तकैर्विवस्वांस्तु अंशुमान्पञ्चकैस्त्रिभिः

阿利耶曼以一千道光芒并加三百而辉耀;毗婆斯梵则以二乘七(百)而照;阿ṃ舒曼以三组五(百)而明。

Verse 67

विवस्वानिव पर्जन्यो वरुणश्चार्यमा इव । इन्द्रस्तु द्विगुणैः षड्भिर्भात्येकादशभिः शतैः

帕尔迦尼亚如毗婆斯梵般辉耀;伐楼那如阿利耶曼般辉耀。因陀罗则以十一百之光,并再增二乘六而明。

Verse 68

मित्रवच्च भगस्त्वष्टा सहस्रेण शतेन च । उत्तरोपक्रमेऽर्कस्य वर्धन्ते रश्मयः सदा । दक्षिणोपक्रमे भूयो ह्रसन्ते सूर्यरश्मयः

密多罗、婆伽、特瓦什特里等诸神——合为一千一百——皆为太阳之神力。太阳行于北道(uttarāyaṇa)时,其光线恒常增长;行于南道(dakṣiṇāyana)时,太阳之光复又减弱。

Verse 69

एवं द्वादश मूर्तिस्थः प्रभासक्षेत्रमध्यतः । सांबादित्येति विख्यातः स्थास्ये मन्वन्तरान्तरे

如是,我将以十二形相安住于此,居于普拉婆娑圣域之中心;历经诸摩奴劫(Manvantara),以“娑ṃ巴阿底提耶”(Sāṃbāditya)之名而著称。

Verse 70

माघस्य शुक्लपक्षे तु पञ्चम्यां यादवोत्तम । एकभक्तं सदा ख्यातं षष्ठ्यां नक्तमुदाहृतम्

于摩伽月之白半月,噫,耶陀婆中之最胜者:第五日当守“独食戒”(ekabhakta),唯食一餐;第六日则宣说“夜食戒”(naktavrata),唯于夜间受食。

Verse 71

सप्तम्यामुपवासं तु कृत्वा सांबार्कसंनिधौ । रक्तचन्दनमिश्रैस्तु करवीरैर्महाव्रतः

至第七日,于萨姆巴尔迦(萨姆巴所礼敬之日神苏利耶)前守斋者,当以拌和红檀香膏的夹竹桃花,奉行大誓而礼拜。

Verse 72

दत्त्वा कुन्दरकं धूपं पूजयेद्भास्करं बुधः । ब्राह्मणान्दिव्यभोज्येन भोजयित्वाऽपि शक्तितः

先献上昆达拉迦香,智者当礼拜婆斯迦罗(太阳神)。并应随己之力,以殊胜佳肴供养婆罗门。

Verse 73

एवं यः कुरुते सम्यक्सांबादित्यस्य पूजनम् । सम्यक्छ्रद्धासमायुक्तः संप्राप्स्यत्यखिलं फलम्

凡如是如法奉修对萨姆巴底提耶之礼拜者,具足真诚信心,必得此仪轨之圆满果报。

Verse 74

ईश्वर उवाच । एवमुक्त्वा सहस्रांशुस्तत्रैवांतरधीयत । सांबोऽपि निर्जरो भूत्वा द्वारकां पुनरागमत्

自在天言曰:如是说已,千光者萨哈斯罗安舒(千辉之日神)即于彼处隐没不现。萨姆巴亦离诸病恼与衰败,再返都城德瓦拉迦。

Verse 75

इत्येतत्कथितं देवि सांबादित्यमहोदयम् । श्रुतं हरति पापानि तथाऽरोग्यं प्रयच्छति

如是,女神啊,萨姆巴底提耶之大威德已为汝宣说。唯闻其事,能除诸罪,亦赐健康与无病安泰。

Verse 101

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यमाहात्म्यवर्णनंनामैकोत्तरशततमोऽध्यायः

至此,《圣·斯坎达大往世书》八万一千颂之汇编中,普罗婆娑分部(Prabhāsa Khaṇḍa)之《普罗婆娑圣域功德》(Prabhāsa Kṣetra Māhātmya)内,名为《三婆阿底提耶(Sāṃbāditya)功德之述》的第一百零一章圆满结束。