
苏多(Sūta)叙述:达沙罗陀王(Daśaratha)被群臣辞退后,来到哈塔凯湿瓦罗圣域(Hāṭakeśvara-kṣetra)。他以虔敬之心巡礼:礼拜其父所安立的女神,沐浴于吉祥圣水,参访主要神祠,于多处渡口圣地(tīrtha)沐浴并广行布施。随后他敕建毗湿奴(Viṣṇu,持轮者Cakrī)之庙,安立毗湿奴派圣像,又营造一座清澈阶井/圣井(vāpi),为诸修行者(sādhus)所称赞。 他依此水圣地精勤苦行(tapas)一百年。其后,阎那尔达那(Janārdana,即毗湿奴)乘迦楼罗(Garuḍa)而现,天众环绕,赐予恩愿。达沙罗陀祈求得子以昌盛宗族;毗湿奴应许将以“四重形相”降生其家,并命他返国以正法善治。此井遂名“罗阇瓦毗”(Rājavāpī),并宣说特定仪轨:于阴历第五日(pañcamī)沐浴礼拜,继而一年行施祖祭(śrāddha),可令无子者得子。 故事末尾将此恩赐与达沙罗陀四子诞生相连——罗摩(Rāma)、婆罗多(Bharata)、罗什曼那(Lakṣmaṇa)、沙特鲁伽那(Śatrughna)——并提及一位公主嫁与罗摩帕陀王(Lomapāda),以及王位承续。又追述与罗摩相关的庙宇记忆,如罗摩湿瓦罗(Rāmeśvara)、罗什曼那湿瓦罗(Lakṣmaṇeśvara)与悉多(Sītā)之安立。
Verse 1
सूत उवाच । ततो दशरथो राजा मंत्रिभिस्तैर्विसर्जितः । हाटकेश्वरजं क्षेत्रं संप्राप्तो हर्षसंयुतः
苏多说道:随后,达沙拉塔王在诸大臣恭敬送行之后,欢喜充满,抵达哈塔凯湿瓦拉的神圣圣域。
Verse 2
तत्रागत्य ततो देवीं पित्रा संस्थापिता पुरा । पूजयित्वाऽथ सद्भक्त्या स्नात्वा कुण्डे शुभोदके
到达那里后,他以至诚之奉爱礼敬供养昔日由其父所安立的女神,随后在盛满吉祥之水的圣池(kuṇḍa)中沐浴。
Verse 3
ततोऽन्यानि च मुख्यानि दृष्ट्वा चायतनानि सः । स्नात्वा तीर्थेष्वनेकेषु दत्त्वा दानान्यनेकशः
随后,他又瞻礼了其他主要圣所,在众多圣渡(tīrtha)中沐浴,并一再施舍,广行布施。
Verse 4
प्रासादं कारयामास देवदेवस्य चक्रिणः । तत्र संस्थापयामास प्रतिमां वैष्णवीं शुभाम्
他为诸神之神、执轮之主建造殿宇,并在其中安置一尊吉祥的毗湿奴派圣像。
Verse 5
तस्याग्रे कारयामास वापीं स्वच्छोदकान्विताम् । सोपानपंक्तिभिर्युक्तां साधुभिः संप्रशंसिताम्
在主前方,他又建造一座阶梯井,清水盈满,层层台阶齐备,深受诸善人称赞。
Verse 6
उदकेन ततस्तस्या देवाराधनतत्परः । प्रकारैर्बहुभिस्तीव्रं चकार सुमहत्तपः
随后,他以那水为助,专心敬奉诸神,以多种方式修行极其严峻而宏大的苦行。
Verse 7
ततो वर्षशतेऽतीते तस्य तुष्टो जनार्दनः । विलोक्य च तपस्तीव्रं विहितं तेन भूभुजा
于是,百年既过,贾那尔达那见那位国王所行的严峻苦行,心生欢喜而垂悦。
Verse 8
प्रोवाच दर्शनं गत्वा पक्षिराजं समाश्रितः । मेघगम्भीरयावाचा बहुदेवगणैर्वृतः
赐予显现之后,世尊开口——安住于鸟王之上——其声深沉如雷云,周围环绕着无数天众。
Verse 9
श्रीविष्णुरुवाच । परितुष्टोऽस्मि ते वत्स वरं वरय सुव्रत । अपि ते दुर्लभं काममहं दास्यामि कृत्स्नशः
圣毗湿奴说道:“爱子啊,我对你甚为欢喜。持坚誓者啊,选择一项恩赐吧。即便是难得之愿,我也将圆满赐予你。”
Verse 10
राजोवाच । पुत्रार्थोऽयं समारंभो मया देव कृतोऽखिलः । तपसो देहि मे पुत्रांस्तस्माद्वंशविवृद्धिदान्
国王说道:“大主啊,我所作的一切努力,皆为求得子嗣。愿以我苦行之果,赐我诸子——使我家族血脉兴盛者。”
Verse 11
अन्यत्सर्वं सुराधीश ध्रुवमस्ति गृहे स्थितम् । प्रसादात्तव यत्किंचिद्वैभवं विद्यते मम
“其余一切,天神之主啊,确已安然具足于我家中。我所有的福泽与荣华,皆唯赖于您的恩典。”
Verse 12
विष्णुरुवाच । अहं तव गृहे राजन्स्वयमेव न संशयः । अवतारं करिष्यामि कृत्वा रूपचतुष्टयम्
毗湿奴说道:“国王啊,我必亲自降生于你家——毫无疑虑。取四种形相,我将作降世之化身(阿伐多罗)。”
Verse 13
देवकार्याय तस्मात्त्वं गृहं गत्वा महीपते । कुरु राज्यं यथान्यायं पितृपैतामहं महत्
因此,大地之主啊,为了天神之业,你当回归家园;并依正法与公义,治理你那伟大的祖传王国。
Verse 14
तथेयं या त्वया वापी निर्मिता विमलोदका । राजवापीति विख्याता लोके सेयं भविष्यति
而你所建的这座阶井,水清净无垢;它将在世间以“罗阇·瓦毗”(王之井)之名而闻名。
Verse 15
अस्यां स्नात्वा नरो भक्त्या य एनां पूजयिष्यति । श्रद्धया परया युक्तः संप्राप्ते पंचमीदिने
凡人在此沐浴,并于般遮弥日以虔敬礼拜此圣地/圣女,具足至上信心者,必得此神圣誓行所许之功德。
Verse 16
ततः करिष्यति श्राद्धं यावत्संवत्सरं नृप । अपुत्रः प्राप्स्यते पुत्रान्वंशवृद्धिकरान्स हि
随后,国王啊,他应当行施罗达(śrāddha)整整一年;确然,即便无子之人也将得子——使家族血脉增长者。
Verse 17
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः । प्रहृष्टवदनो भूत्वा सोऽपि राजा ययौ गृहम्
说罢,那位世尊便从视野中隐没不见。国王亦面露欢喜光彩,返归其家。
Verse 18
ततः स्तोकेन कालेन तस्य पुत्रचतुष्टयम् । संजातं लोके विख्यातं कलत्रत्रितयस्य च
不久之后,他得四位王子降生,名闻于世——亦皆出自其三位王后。
Verse 19
कौशल्यानाम विख्याता तस्य भार्या सुशोभना । ज्येष्ठा तस्यां सुतो जज्ञे रामाख्यः प्रथमः सुतः
其长后光辉端丽,名闻为憍萨利耶(Kauśalyā);由她诞下长子,名曰罗摩(Rāma)。
Verse 20
तथान्या कैकयी नाम तस्य भार्या कनिष्ठिका । भरतो नाम विख्यातस्तस्याः पुत्रोऽभवत्त्वसौ
同样,他另有一位最年轻的王后,名为凯凯伊(Kaikeyī);她生下了名闻遐迩的婆罗多(Bharata)。
Verse 21
सुमित्राख्या तथा चान्या पत्नी या मध्यमा स्थिता । शत्रुघ्नलक्ष्मणौ पुत्रौ तस्यां जातौ महाबलौ
又有一位王后名为苏蜜特罗(Sumitrā),居于中位;由她诞下两位大力王子——罗什曼那(Lakṣmaṇa)与设多卢伽那(Śatrughna)。
Verse 22
तथान्या कन्यका चैका बभूव वरवर्णिनी । ददौ यां पुत्रहीनस्य लोमपादस्य भूपतेः
同样,他亦有一位独生公主,容色殊胜;他将她许配给无子的罗摩波陀王(Lomapāda)。
Verse 23
आनृण्यं भूपतिः प्राप्य एवं दशरथस्तदा । पितॄणां प्रययौ स्वर्गं कृतकृत्यस्तथा द्विजाः
如是,达沙罗陀王既得脱离对祖灵之债,便于彼时升往天界,归入诸父祖(Pitṛ)之列;诸事已毕,婆罗门们啊。
Verse 24
अथ राजाऽभवद्रामः सार्वभौमस्ततः परम् । रावणो येन दुर्धर्षो निहतो देवकंटकः
其后,罗摩登基为王,成就普世之主。由他诛灭了难以抗拒的罗波那——诸天之患、诸神之刺。
Verse 25
येन रामेश्वरश्चात्र निर्मितो लक्ष्मणेश्वरः । सीतादेवी तथा मूर्ता येन चात्र प्रतिष्ठिता
由他在此建立罗摩湿伐罗(Rāmeśvara),亦创建了罗什曼那湿伐罗(Lakṣmaṇeśvara);并且就在此地,他也为天后悉多(Devī Sītā)的圣像行了安置灌顶之礼。
Verse 98
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये राजस्वामिराजवापीमाहात्म्यवर्णनंनामाष्टनवतितमोऽध्यायः
至此,《圣斯坎达大往世书》八万一千颂本中,第六部《那伽罗分篇》(Nāgara Khaṇḍa)之《哈塔凯湿伐罗圣域功德》(Hāṭakeśvara-kṣetra Māhātmya)内,名为《阐述罗阇斯瓦弥与罗阇瓦毗之伟大功德》的第九十八章圆满结束。