
本章开篇,诸仙请求苏多更详尽地列举诸圣地(tīrtha),显出对圣地体系化梳理之意。苏多介绍殊胜的“萨拉斯瓦塔圣地”:于此沐浴,纵使口舌不利者亦能转为明辨善说之人,并能成就所愿,乃至得升高界。 随后叙述王家故事:巴拉瓦尔达那王之子安布维奇自幼失语。其父战死后,大臣拥立哑子为王,国中遂乱,强者欺凌弱者。大臣请教婆悉吒,得其指示:当携王至哈塔凯湿瓦拉阇圣域(Hāṭakeśvaraja-kṣetra)的萨拉斯瓦塔圣地沐浴。 王一入水即复得清晰言语,悟知河流威德,遂取岸边泥土塑四臂萨拉斯瓦蒂像,安置于洁净石座,并以香与膏油供养。王诵长赞,称女神遍在言语、智慧、觉知之中,亦为维系众生的多种神力。萨拉斯瓦蒂显现,赐予恩愿,并允诺住于所安立之像;又言凡于阿ष्ट弥(Aṣṭamī)与十四日(Caturdaśī)沐浴礼拜者,尤以白花与虔修奉爱者,皆得满愿。果报偈更说:信众生生世世得辩才与聪慧,家族免于愚昧;在女神前听闻正法得长久天福;施舍学问之物(书籍、法典)并在其前研习吠陀,其功德等同阿湿瓦梅达、阿耆尼湿多摩等大祭。
Verse 1
। ऋषय ऊचुः । अन्यानि तत्र तीर्थानि यानि संति महामते । तानि कीर्तय सर्वाणि परं कौतूहलं हि नः
诸仙人说道:“大智者啊,那一带还有哪些圣洁的沐浴圣地(tīrtha)?请一一宣说,我们心中好奇甚切。”
Verse 2
सूत उवाच । तत्र सारस्वतं तीर्थमन्यदस्ति सुशोभनम् । यत्र स्नातोऽतिमूकोऽपि भवेद्वाक्यविचक्षणः
苏多说道:“那里另有一处极为庄严殊胜的圣地,名为娑罗萨瓦塔圣地(Sārasvata Tīrtha)。凡在此沐浴者,即便极其哑默,也将言辞善巧、明辨通达。”
Verse 3
लभते चेप्सितान्कामान्मानुषान्दैविकानपि । ब्रह्मलोकादिपर्यतांस्तथालोकान्द्विजोत्तमाः
二生中最胜者啊,他将获得所求之愿——人间之愿与天界之愿——并得以到达乃至梵天界(Brahmaloka)等诸世界。
Verse 4
पुरासीत्पार्थिवो ना्ना विख्यातो बलवर्धनः । समुद्रवलयामुर्वीं बुभुजे यो भुजार्जिताम्
往昔有一位名闻遐迩的国王,名曰“巴拉瓦尔达那”;他以自身臂力征服并享有那为大海环绕之大地。
Verse 5
तस्य पुत्रः समुत्पन्नः सर्वलक्षणसंयुतः । तस्य नाम पिता चक्रे संप्राप्ते द्वादशेऽहनि । अम्बुवीचिरिति स्पष्टं समाहूय द्विजोत्तमान्
他得一子,具足一切吉祥相。至第十二日,父王召集最上等的“二次生”婆罗门,行命名之礼,明白赐名“安布维奇”。
Verse 6
ततः स ववृधे बालो लालितस्तेन भूभुजा । मूकभावं समापन्नो न शक्रोति प्रजल्पितुम्
其后,那孩子在国王的怜爱抚育下渐渐长大;然而他陷入缄默之相,竟全然不能言语。
Verse 7
ततोऽस्य सप्तमे वर्षे संप्राप्ते बलवर्धनः । पंचत्वं समनुप्राप्तः संग्रामे शत्रुभिर्हतः
其后,待孩子满七岁之时,巴拉瓦尔达那走到生命尽头——战场上为敌所杀,归入五大之境。
Verse 8
ततो मूकोऽपि बालोपि मंत्रिभिस्तस्य भूपतेः । स सुतः स्थापितो राज्ये अभावेऽन्यसुतस्य च
于是,虽其子既哑且幼,国王的群臣仍立他登基为王,只因别无他子可继。
Verse 9
एवं तस्य महीपस्य राज्यस्थस्य जडात्मनः । बालत्वे वर्तमानस्य राज्यं विप्लवमध्यगात्
于是,那位国王虽居王位而心智迟钝,仍在童年之龄,国土遂陷于动乱与失序之中。
Verse 10
ततो जलचरन्यायः संप्रवृत्तो महीतले । पीड्यंते सर्वलोकास्तु दुर्बला बलवत्तरैः
随后,大地之上盛行“水族之法”:强者欺压弱者,众生皆受苦恼。
Verse 11
ततस्ते मंत्रिणः प्रोचुर्वसिष्ठं स्वपुरोहितम् । वचोऽर्थं नृपतेरस्य कुरूपायं महामुने
于是,大臣们启请他们的王家祭司婆悉吒曰:“大圣仙啊,请为此王之困厄筹思良方。”
Verse 12
पश्य कृत्स्नं धरापृष्ठे शून्यतां समुपस्थितम् । जडत्वान्नृपतेरस्य तस्मात्कुरु यथोचितम्
“请看——遍满大地之面,空虚与失序已然降临;此王愚钝无能,故请依正法作当作之事。”
Verse 13
ततस्तु सुचिरं ध्यात्वा दीनान्प्रोवाच मंत्रिणः । सर्वानार्तिसमोपेताञ्छृण्वतस्तस्य भूपतेः
随后,他沉思良久,便对那些沮丧而备受诸苦的大臣开口;那位国王也在一旁聆听。
Verse 14
अस्ति सारस्वतं तीर्थं सर्वकामप्रदं नृणाम् । हाटकेश्वरजे क्षेत्रे तत्रायं स्नातु भूपतिः
有一处名为“娑罗娑伐多”(Sārasvata)的圣渡口,能赐予众人一切所愿。在“哈塔凯湿伐罗”(Hāṭakeśvara)的圣域中,愿此王前往于彼沐浴。
Verse 15
अथ तद्वचनात्सद्यः स गत्वा तत्र सत्वरम् । स्नानात्तीर्थेऽथ संजातस्तत्क्षणात्स कल स्वनः
闻此言,他立刻疾行前往。于彼圣地(tīrtha)沐浴之时,就在那一瞬间,他的言语变得清澈圆满。
Verse 16
तत्प्रभावं सरस्वत्याः स विज्ञाय महीपतिः । श्रद्धया परया युक्तो ध्यायमानः सरस्वतीम्
国王领悟了娑罗娑伐蒂(Sarasvatī)的广大灵威,具足至上信心,便开始观想默念女神娑罗娑伐蒂。
Verse 17
ततस्तूर्णं समादाय मृत्तिकां स नदीतटात् । चकार भारतीं देवीं स्वयमेव चतुर्भुजाम्
随后,他迅速从河岸取来泥土,亲手塑成婆罗底女神(Bhāratī)之像,具四臂之相。
Verse 18
दधतीं दक्षिणे हस्ते कमलं सुमनोहरम् । अक्षमालां तथान्यस्मिञ्जिततारक वर्चसम्
他令女神于一只右手执持极其美妙的莲华;又于另一手持念珠(akṣamālā),光辉灿然,胜过群星。
Verse 19
कमण्डलुं तथान्यस्मिन्दिव्यवारिप्रपूरितम् । पुस्तकं च तथा वामे सर्वविद्यासमुद्भवम्
又在另一只手中安置一只盛满天界圣水的净水瓶(kamaṇḍalu);而在女神的左手中,则置一卷经典——一切学问由此而生的本源。
Verse 20
ततो मेध्ये शिलापृष्ठे तां निवेश्य प्रयत्नतः । पूजयामास सद्भक्त्या धूपमाल्पानुलेपनैः
随后,他小心翼翼地将女神安置在洁净的石面上,以真挚的虔敬而礼拜,奉上香烟与朴素的涂香。
Verse 21
चकार च स्तुतिं पश्चाच्छ्रद्धापूतेन चेतसा । तदग्रे प्रयतो भूत्वा स्वरेण महता नृपः
其后,国王以信心净化之心,恭立于女神之前,专注肃然,以洪亮清澈之声献上赞颂之歌。
Verse 22
सदसद्देवि यत्किञ्चिद्बन्धमोक्षात्मकं पदम् । तत्सर्वं गुप्तया व्याप्तं त्वया काष्ठं यथाग्निना
噢女神,凡一切存在——善或不善——凡属系缚或解脱之境:皆为你所遍满,内隐而不显,如火潜藏于木中。
Verse 23
सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता । वाचारूपेण जिह्वायां ज्योतीरूपेण चक्षुषि
你以成就(悉地)之相住于众生之心;以言语之相住于舌端;又以光明之相住于双目之中。
Verse 24
भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये । शरणागतदीनार्तपरित्राणपरायणे
噢至上女神,唯以虔敬之心方能得见于汝;汝遍满三界而为唯一,恒常护佑来归依者、贫乏者与受苦者。
Verse 25
त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता । त्वं निद्रा त्वं क्षुधा कीर्तिः सर्वभूतनिवासिनी
汝为名声,汝为坚忍与慧智;汝为虔信,亦被忆念为光辉。汝为睡眠,汝为饥饿,汝为声誉——住于一切众生之中。
Verse 26
तुष्टिः पुष्टिर्वपुः प्रीतिः स्वधा स्वाहा विभावरी । रतिः प्रीतिः क्षितिर्गंगा सत्यं धर्मो मनस्विनी
噢至上女神,汝为知足与滋养,汝为形体之美与爱;汝为斯瓦达(献予祖灵之供)与斯瓦哈(献予诸天之供),亦为夜。汝为欢悦与柔情;汝为大地与恒河;汝为真实与达摩,并为坚毅明辨之心的力量。
Verse 27
लज्जा शांतिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी । सिनीवाली कुहू राका देवमाता दितिस्तथा
汝为羞怯与寂静,汝为记忆与巧能,汝为忍辱与宽恕。汝为高丽(Gaurī)与罗希尼(Rohiṇī);汝为西尼瓦丽、库胡与拉卡(诸月相),汝亦为天母(Devamātā),亦为底蒂(Diti)。
Verse 28
ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा । गायत्री चाथ सावित्री कृषिर्वृष्टिः श्रुतिः कला
汝为梵母(Brahmāṇī)与毗那塔(Vinatā);汝为吉祥天女(Lakṣmī)与迦德卢(Kadrū);汝为达叉耶尼(Dākṣāyaṇī)、为湿婆女神(Śivā)。汝为伽雅特丽(Gāyatrī),亦为萨维特丽(Sāvitrī);汝为农耕与甘霖;汝为闻传圣典(Śruti),亦为一切神圣艺术。
Verse 29
बलानाडी तुष्टिकाष्ठा रसना च सरस्वती । यत्किञ्चित्त्रिषु लोकेषु बहुत्वाद्यन्न कीर्तितम्
噢女神!你是巴拉那迪、图什提迦什塔与拉萨那;你正是萨拉斯瓦蒂本身。三界之中一切存在,因其浩瀚无量,我未能尽数称名。
Verse 30
इंगितं नेंगितं तच्च तद्रूपं ते सुरेश्वरि । गन्धर्वाः किन्नरा देवाः सिद्धविद्याधरोरगाः
噢天众之主、女神!动与静——正是那种境界——即是你的形相。乾闼婆、紧那罗、诸天、悉达、持明者与龙族……
Verse 31
यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः । त्वत्प्रसादेन ते सर्वे संसिद्धिं परमां गताः
夜叉、古希亚迦与诸鬼神(部多),以及阿修罗族的代提耶与诸毗那夜迦——他们全都因你的恩德而证得至上的成就。
Verse 32
तथान्येऽपि बहुत्वाद्ये न मया परिकीर्तिताः । आराधितास्तु कृच्छ्रेण पूजिताश्च सुविस्तरैः । हरंतु देवताः पापमन्ये त्वं कीर्तिताऽपि च
同样,还有许多其他者——因其无量无数——我未能尽皆称颂。有些神祇须以艰辛方能奉事,又需以繁广仪轨而礼敬。愿其他诸神除去罪垢;而你——仅凭被赞颂——亦能除罪。
Verse 33
एवं स्तुता सा देवेशी भूभुजा तेन भारती । ययौ प्रत्यक्षतां तूर्णं प्राह चेदं सुहर्षिता
那位国王如此赞颂之后,天众之主的女神——婆罗底(Bhāratī)——迅速显现于眼前;她满怀欢喜,说出了这些话:
Verse 34
सरस्वत्युवाच । स्तोत्रेणानेन भूपाल भक्त्या सुस्थिरया सदा । परितुष्टास्मि तेनाशु वरं वृणु यथेप्सितम्
萨拉斯瓦蒂女神说道:噢,国王,凭此赞颂之歌,以及你恒常坚定的虔敬,我已完全欢喜满足。速速依你所愿,选择一项恩赐。
Verse 35
राजोवाच । अद्यप्रभृति मद्वाक्यात्त्वया स्थेयमसंशयम् । अत्रार्चायां त्रिलोकेस्मि न्यावत्कीर्तिर्मम स्थिरा
国王说道:自今日起,凭我之言,你当无疑住于此处——安住在这神圣圣像之中——遍及三界,只要我的名声仍然长存。
Verse 36
यस्त्वामाराधयेत्सम्यगत्रस्थां मन्निमित्ततः । भक्त्यानुरूपमेवाशु तस्मै देयं त्वया हि तत्
凡有人在此处为我之故,依法恭敬供奉你,你便当迅速赐予他与其虔敬相称的恩愿。
Verse 37
सरस्वत्युवाच । यो मामत्र स्थितां नित्यं स्नात्वाऽत्र सलिले शुभे । अष्टम्यां च चतुर्दश्यां पूजयिष्यति मानवः
萨拉斯瓦蒂女神说道:凡人若日日在此吉祥之水中沐浴,并礼敬我这安住于此者——尤其在月相第八日与第十四日——
Verse 38
तस्याहं वांछितान्कामान्संप्रदास्यामि पार्थिव । सूत उवाच । एवं तत्र स्थिता देवी स्वयमेव सरस्वती
噢,国王,我必赐予他所愿的一切。苏多说道:于是,萨拉斯瓦蒂女神亲自安住并建立于那圣地之中。
Verse 39
ततःप्रभृति लोकानां हिताय परमेश्वरी । अष्टम्यां च चतुर्दश्यामुपवासपरायणः
自此以后,为了诸世界的福祉,至上女神制定此戒行:于月相第八日与第十四日,应专心持斋禁食。
Verse 40
यस्तां पूजयते मर्त्यः श्वेतपुष्पानुलेपनैः । स स्याद्वाग्ग्मी सुमेधावी सदा जन्मनिजन्मनि
凡人若以白花与香膏供奉礼敬于她,便得口才辩慧、聪敏明达,生生世世皆如是。
Verse 41
सरस्वत्याः प्रसादेन जायमानः पुनःपुनः । अन्वयेऽपि न तस्यैव कश्चिन्मूर्खः प्रजायते
承蒙辩才天女萨拉斯瓦蒂之恩,即使屡屡再生,此人家族血脉之中亦不生愚昧之辈。
Verse 42
यो धर्मश्रवणं तस्याः पुरतः कुरुते नरः । स नूनं वसति स्वर्गे तत्प्रभावाद्युगत्रयम्
凡在她面前行“闻法”之功德者,必因其威力而安住天界,历经三劫(三个瑜伽)。
Verse 43
विद्यादानं नरो यश्च तस्या ह्यायतने सदा । करोति श्रद्धया युक्तः सोऽश्वमेधफलं लभेत्
又有一人,具足信心,常在她的圣所行“施学之布施”(以教法与知识为施),便能获得等同于马祭(阿湿婆梅陀)之功德。
Verse 44
यो यच्छति द्विजेन्द्राय धर्मशास्त्रसमुद्भवम् । पुस्तकं वाजिमेधस्य स समग्रं फलं लभेत्
凡将源自《达摩沙斯特拉》传统之经典书卷布施于最尊贵的婆罗门者,必得瓦吉梅达祭祀之圆满功德果报。
Verse 458
यो वेदाध्ययनं तस्याः करोति पुरतः स्थितः । सोऽग्निष्टोमस्य यज्ञस्य कृत्स्नं फलमवाप्नुयात्
凡在她面前端立而诵读研习吠陀者,必得阿耆尼什托摩祭之全分功德果。