Adhyaya 41
Nagara KhandaTirtha MahatmyaAdhyaya 41

Adhyaya 41

本章由苏多(Sūta)应诸仙(ṛṣi)之问而作神学叙述。先宣说北方有一处著名圣地,供奉“卧水者”阇罗沙夷(Jalaśāyī)毗湿奴——安卧于水上,能除去道德与业障之阻。其礼敬与“睡眠—唤醒”(śayana–bodhana)之仪相连:以斋戒与虔信,使哈利(Hari)入睡并于时节中被唤醒。章中又确立历法要点:黑半月第二日(dvitīyā),名为“阿输尼耶沙耶那”(Ashūnyaśayanā),被视为水中安卧之神最为喜爱的日子。 当问及起源与行法时,叙事转入神话史:阿修罗王巴什迦利(Bāṣkali)击败因陀罗与诸天,众神遂往白岛(Śvetadvīpa)投依毗湿奴;彼时毗湿奴与吉祥天女拉克什米(Lakṣmī)同在,卧于舍沙(Śeṣa)之上,入于瑜伽睡眠(yoganidrā)。毗湿奴命因陀罗于名为“恰玛特迦罗城”(Cāmatkārapura)之圣域修严峻苦行,并开拓广大水域,重现白岛原型;自阿输尼耶沙耶那之第二日起,行四月供奉(Cāturmāsya)。因陀罗由此得炽盛威光(tejas),毗湿奴遣轮宝苏达尔沙那(Sudarśana)随因陀罗出征,终使巴什迦利败亡,秩序复归。 末以果报偈(phalaśruti)劝诫:毗湿奴为世间利益常住于此圣湖;凡以信心礼拜者,尤于四月斋期之中,必得高胜成就与所愿圆满。叙事框架亦将此地与德瓦拉卡(Dvārakā)相联系。

Shlokas

Verse 1

। सूत उवाच । तस्यैवोत्तरदिग्भागे देवस्य जलशायिनः । स्थानमस्ति सुविख्यातं सर्वपातकनाशनम्

苏多说道:在那片地域的北方,有一处极负盛名的圣地,属于卧于水上的主(阇罗沙夷);此处被称颂为能灭尽一切罪业。

Verse 2

यस्तत्पूजयते भक्त्या शयने बोधने हरेः । उपवासपरो भूत्वा स गच्छेद्वैष्णवं पदम्

凡以虔敬于哈利安卧与苏醒之时礼拜彼主,并专心持斋者,必得至至上的毗湿奴圣境。

Verse 3

अशून्यशयनानाम द्वितीया दयिता तिथिः । सदैव देवदेवस्य कृष्णा सुप्तस्य या भवेत्

名为“阿输尼耶沙耶那”的第二月日,是一吉祥可爱之辰;它恒与诸神之神——黑天——在其神圣睡眠之时相应。

Verse 4

तस्यां यः पूजयेत्तत्र तं देवं जलशायिनम् । शास्त्रोक्तेन विधानेन स गच्छति हरेः पदम्

在那一吉日(tithi),凡于彼处依经典所说之仪轨礼敬卧于水上的主宰“水卧者”(Jalaśāyī),便得往诣哈利(Hari)的圣境。

Verse 5

ऋषय ऊचुः । जलशायी कथं तत्र संप्राप्तः सूतनन्दन । पूज्यते विधिना केन तत्सर्वं विस्तराद्वद

诸仙人说道:“噢,苏多之子啊,水卧者(Jalaśāyī)如何来到并安住于彼处?应以何种仪轨礼拜他?请将这一切详尽宣说。”

Verse 6

सूत उवाच । पुरासीद्बाष्कलिर्नाम दानवेन्द्रो महाबलः । अजेयः सर्वदेवानां गन्धर्वोरगरक्षसाम्

苏多说道:“久远以前,有一位名为婆湿迦利(Bāṣkali)的强大神族(达那婆)之王;他对诸天亦不可战胜,对乾闼婆、那伽与罗刹亦然。”

Verse 7

अथासौ भूतलं सर्वं वशीकृत्वा महाबलः । ततो दैत्यगणैः सार्द्धं जगाम त्रिदशालयम्

随后,那强者征服并控制了整个大地,便与众多代底耶军团一同前往三十天众(Tridaśa)的居处。

Verse 8

तत्राभवन्महायुद्धं देवासुरविनाशकम् । देवानां दानवानां च क्रुद्धानामितरेतरम्

在那里爆发了一场大战,毁灭诸天与阿修罗两方;愤怒的天神与达那婆彼此相向而战。

Verse 9

वर्षाणामयुतं तावदहन्यहनि दारुणम् । तत्रासृक्कर्दमो जातः पर्वतश्चास्थि संभवः

整整一万年,日复一日,惨烈的战斗不曾停息。彼处泥淖化为血浆,又有一座由白骨凝成的山岳隆起。

Verse 10

ततो वर्षसहस्रांते दशमे समुपस्थिते । जितस्तेन सहस्राक्षः ससैन्यः सपरिग्रहः

随后,当第十个万年期至于终了时,千眼者萨哈斯拉克沙(因陀罗)被他击败——连同诸军与一切随从眷属。

Verse 11

ततः स्वर्गं परित्यज्य सर्वदेवगणैः सह । जगाम शरणं विष्णोः श्वेतद्वीपं प्रतिश्रयम्

于是,他舍离天界,与一切天众同往,投奔毗湿奴,前往白洲(Śvetadvīpa)那神圣的归依之所。

Verse 12

यत्रास्ते भगवान्विष्णुर्योगनिद्रावशंगतः । शयानः शेषपर्यंके लक्ष्म्या संवाहितांघ्रियुक्

彼处,世尊毗湿奴安住其间,为瑜伽之眠所摄;卧于舍沙之榻,双足由吉祥天女拉克希米温柔侍奉。

Verse 13

ततो वेदोद्भवैः सूक्तैः स्तुतिं चक्रुः समंततः । तस्य देवस्य सद्भक्ताः सर्वे देवाः सवासवाः

随后,他们以出自吠陀的颂歌,从四面八方献上赞颂。诚然,诸天众神——包括婆娑婆(因陀罗)在内——皆为彼神明的至诚 भक्त。

Verse 14

अथोत्थाय जगन्नाथः प्रोवाच बलसूदनम् । कच्चित्क्षेमं सहस्राक्ष सांप्रतं भुवनत्रये । यत्त्वं देवगणैः सार्द्धं स्वयमेव इहागतः

于是,世间之主起身,对巴罗苏达那(因陀罗)说道:“噢,千眼者啊,如今三界可安泰无虞?既然你亲自与诸天众一同来到此处。”

Verse 15

शक्र उवाच । बाष्कलिर्नाम देत्येन्द्रो हरलब्धवरो बली । अजेयः संगरे देवैस्तेनाहं विजितो रणे

释迦(因陀罗)说道:“有一位名为婆湿迦利的阿修罗之王,威力强盛,曾从诃罗(湿婆)得赐恩愿。战场之上,连诸天也难以战胜;我亦在战争中为他所败。”

Verse 16

संस्थितिश्च कृता स्वर्गे सांप्रतं मधु सूदन । तेनैष शरणं प्राप्तो देवैः सार्द्धं सुरोत्तम

“如今他已在天界建立统治,噢,摩度苏达那。故我与诸天众同来投依于你,噢,诸神之最胜者。”

Verse 19

श्रीभगवानुवाच । अहं तं निग्रहीष्यामि संप्राप्ते समये स्वयम् । तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत्

世尊说道:“待时机成熟,我将亲自降伏他。因此,在那之前,噢,释迦啊,当修行广大苦行(tapas)。”

Verse 20

येन ते जायते शक्तिस्तपोवीर्येण वासव । वधाय तस्य दैत्यस्य बलयुक्तस्य बाष्कलेः

“凭由苦行所生之力,噢,婆娑婆啊,你将生起威力——以诛灭那强盛的阿修罗婆湿迦利。”

Verse 21

शक्र उवाच । कस्मिन्क्षेत्रे जगन्नाथ करोमि सुमहत्तपः । तस्य दैत्यस्य नाशार्थं तद स्माकं प्रकीर्तय

释迦罗(因陀罗)说道:“噢,世主Jagannātha,我应在何处圣域修行极大苦行,以毁灭那达伊提亚?请为我们宣示。”

Verse 22

सूत उवाच । तच्छ्रुत्वा भगवान्विष्णुः प्रोवाचाथ पुरंदरम् । चिरं मनसि निश्चित्य क्षेत्राण्यायतनानि च

苏多说道:听罢此言,世尊毗湿奴在心中久加思量诸圣域与圣所之后,便对普兰达罗(因陀罗)开口说道。

Verse 23

चमत्कारपुरं क्षेत्रं शक्र सिद्धिप्रदायकम् । तस्मात्तत्र द्रुतं गत्वा तद्वधार्थं तपः कुरु

Camatkārapura乃赐予释迦罗成就与胜利的圣域。故当速往彼处,为诛灭那仇敌而修行苦行。

Verse 24

शक्र उवाच । न वयं भवता हीना यास्यामोऽन्यत्र केशव । बाष्कलेर्दानवेन्द्रस्य भयाद्भीताः कथंचन

释迦罗(因陀罗)说道:“噢,克舍婆啊,没有你我们决不前往他处;因为我们无论如何都惧怕巴什迦利——达那婆之王。”

Verse 26

तस्मादागच्छ तत्र त्वं स्वयमेव सुरेश्वर । त्वया संरक्षितो येन करोमि सुमहत्तपः

因此,噢,诸天之主啊,请你亲自前往彼处;在你的护佑之下,我将修行极大苦行。

Verse 27

अथ देवगणाः सर्वे तत्र गत्वा तदाऽश्रमान् । चक्रुः पृथक्पृथग्घृष्टास्तपोऽर्थं कृतनिश्चयाः

于是诸天众神都前往彼处,各自分开建立静修道场;他们因誓愿而欢喜,决意坚定,为修行苦行(tapas)而住。

Verse 28

वासुदेवोऽपि संस्मृत्य क्षीरोदं तत्र सागरम् । आनिनायाशु विस्तीर्णं ह्रदे तस्मिन्पुरातने

毗湿奴(婆苏提婆)亦忆念乳海,便迅速将那广阔大海引至此处,注入那古老的湖中。

Verse 29

चकार शयनं तत्र श्वेतद्वीपे यथा पुरा । स्तूयमानः सुरैः सर्वैः समंताद्विनयान्वितैः

他在那里安设卧处,如同往昔在白洲(Śvetadvīpa);诸天众神从四方以谦恭之心赞颂他。

Verse 30

अथाषाढस्य संप्राप्ते द्वितीयादिवसे शुभे । कृष्णपक्षे सहस्राक्षं स्वयमेव बृहस्पतिः । प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुल लोचनम्

随后,当阿沙陀月(Āṣāḍha)黑半月的吉祥第二日到来时,布里哈斯帕提亲自以柔和之语对千眼者(因陀罗)开示,双目因泪而悸动。

Verse 31

बृहस्पतिरुवाच । अशून्यशयनानाम द्वितीयाद्य पुरंदर । अतीव दयिता विष्णोः प्रसुप्तस्य जलाशये

布里哈斯帕提说道:“噢,破城者啊,今日是名为‘阿舒尼亚舍耶那(Aśūnyaśayanā)’的第二月日;当毗湿奴安卧于水中时,此日最为他所钟爱。”

Verse 32

अस्यां संपूजितो विष्णुर्यावन्मासचतुष्टयम् । ददाति सकलान्कामान्ध्यातश्चेतसि सर्वदा । शास्त्रोक्तविधिना सम्यग्व्रतस्थो जलशायिनम्

若自此日起,如法礼敬毗湿奴,持续四个月,并恒常在心中观想;又依经典所说正当持戒立誓,恭敬那卧于水上的主宰(Jalaśāyī),则一切所愿皆得圆满。

Verse 33

एवं स चतुरो मासान्द्वितीयादिवसे हरिम् । पूजयित्वा सहस्राक्षस्तेजसा सहितोऽभवत्

于是,千眼者(因陀罗)自月相第二日起,礼敬诃利四个月,便具足炽盛光威与辉煌神采。

Verse 34

तं दृष्ट्वा तेजसा युक्तं परितुष्टो जनार्दनः । प्रोवाच शक्र गच्छाद्य वधार्थं तस्य बाष्कलेः । सर्वैर्देवगणैः सार्धं विजयस्ते भविष्यति

见他具足光威,阇那尔达那心生欢喜,说道:“噢,释迦罗,速去诛灭那巴什迦利。与诸天众同往,胜利必定属于你。”

Verse 35

शक्र उवाच । बिभेमि तस्य देवाहं दानवेन्द्रस्य दुर्मतेः । त्वया विना न गच्छामि सार्धं सर्वैः सुरैरपि

释迦罗说道:“噢,天神啊,我惧怕那心怀恶念的达那婆之王。没有你同往,我决不前去,即使诸天都与我同行也不去。”

Verse 36

श्रीभगवानुवाच । त्वया सह सहस्राक्ष चक्रमेतत्सुदर्शनम् । गमिष्यति वधार्थाय मदीयं सुरविद्विषाम्

世尊说道:“千眼者啊,我的妙见神轮(苏达尔沙那轮)将随你同去,为灭除诸天之敌。”

Verse 37

एवमुक्त्वा हरिश्चक्रं प्रमुमोच सुदर्शनम् । वधार्थं दानवेन्द्राणां शक्रेण सहितं तदा

言毕,诃利当即放出妙见轮(Sudarśana Cakra),并与释迦天帝(Śakra)同往,为诛灭诸丹那婆之王。

Verse 38

शक्रोऽपि सहितस्तेन गत्वा चक्रेण कृत्स्नशः । सर्वानुत्सादयामास दानवान्रणमूर्धनि

释迦亦随彼轮而行;凭轮之威力,于战阵最激烈之际,将一切丹那婆尽皆摧灭。

Verse 39

स चापि बाष्कलिस्तेन च्छिन्नश्चक्रेण कृत्स्नशः । पपात धरणीपृष्ठे वज्राहत इवाचलः

巴什迦利亦被彼轮彻底斩断,坠落地面,犹如山岳遭金刚杵之雷霆击中。

Verse 40

तथान्ये बहवः शूरा दानवा बलदर्पिताः । हत्वा सुदर्शनं चक्रं भूयः प्राप्तं हरेः करम्

同样,许多因恃力而骄的勇猛丹那婆亦被诛灭;而妙见轮(Sudarśana)再度回归诃利之手。

Verse 41

तेऽपि शक्रादयो देवाः प्रहृष्टा गतसंशयाः । भूयो विष्णुं समेत्याथ प्रोचुर्नत्वा ततः परम्

于是以释迦为首的诸天欢喜踊跃,疑虑尽消,再次趋近毗湿奴;顶礼之后,方才启言。

Verse 42

प्रभावात्तव देवेश हताः सर्वेऽमरारयः । प्राप्तं त्रैलोक्यराज्यं च भूयो निहतकंटकम्

凭借你的威力,噢诸天之主,一切不死者的仇敌皆已被诛;三界之王权亦已重得,再度无有荆棘般的障碍。

Verse 43

तस्मात्कीर्तय यत्कृत्यं तच्च श्रेयस्करं मम । सदा स्यात्पुंडरीकाक्ष तथा शत्रुभयावहम्

因此,噢莲华眼者,请宣示当行之事——何者为我之福祉——使其恒常如是,并令仇敌心生畏惧。

Verse 44

श्रीभगवानुवाच । मयात्रैव सदा स्थेयं रूपेणानेन वासव । सर्वलोकहितार्थाय ह्रदे पुण्य जलाश्रये

世尊曰:“噢婆娑婆(Vāsava),就在此处,我将以此形相恒常安住,为利益一切世界——于此圣湖,福德净水之所依。”

Verse 45

त्वया तस्मात्समागम्य चातुर्मास्यं शचीपते । प्रयत्नेन प्रकर्तव्यमशून्यशयनं व्रतम्

因此,噢舍支之主(Śacīpati),既已来此,当以勤勉奉行四月斋(Cāturmāsya)之行——即“阿输尼耶-舍耶那”(aśūnya-śayana)誓:不令卧榻空置。

Verse 46

न भवंति सहस्राक्ष येन ते परि पंथिनः । तथाभीष्टफलावाप्तिर्मत्प्रसादादसंशयम्

噢千眼者,你的道路将无对敌阻拦;所愿之果亦必得成——毫无疑虑——皆由我之恩典。

Verse 47

अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह । संप्राप्स्यति स तांल्लोकान्दुर्लभांस्त्रि दशैरपि

凡有他人于此以虔诚礼敬我者,必得彼等世界——即使三十天神亦难得之境界。

Verse 48

तस्माद्गच्छ सहस्राक्ष कुरु राज्यं त्रिविष्टपे । भूयोऽप्यत्रैव देवेश द्रष्टव्योऽस्मि न संशयः । कार्यकाले समायाते श्वेतद्वीपे यथा तथा

是故,汝当往矣,千眼者(Sahasrākṣa),于三十三天(Triviṣṭapa)治其天国。复次,诸天之主,待行事之时来临,汝必无疑于此再见我——如同在白洲(Śvetadvīpa)所见一般。

Verse 49

सूत उवाच । ततः प्रणम्य तं दृष्ट्वा प्रजगाम शतक्रतुः । वासुदेवोऽपि तत्रैव स्थितो लोकहिताय च

苏多曰:“于是,释迦多罗图(因陀罗)顶礼瞻仰彼尊后,便离去。毗湿奴(Vāsudeva)亦仍住于彼处,为饶益世间。”

Verse 50

एवं तत्र द्विजश्रेष्ठा जलशायी जनार्दनः । सर्वलोकहितार्थाय संस्थितः परमेश्वरः

如是,噢诸婆罗门中最胜者,卧于水上的至上主阎那尔达那(Janārdana),为一切世界之利益而安住于彼处。

Verse 51

यस्तं पूजयते भक्त्या श्रद्धया परया युतः । चातुर्मास्ये विशेषेण स याति परमां गतिम्

凡以虔敬礼拜彼者,具足至上信心——尤以四月斋期(Cāturmāsya)为甚——必至最高归趣。

Verse 52

तथा देवगणैः सर्वैर्द्वारका तत्र सा कृता । संपूज्य तु नरा यांति चातुर्मास्ये त्रिविष्टपम्

同样地,诸天众神齐聚,使彼处成为“德瓦拉卡(Dvārakā)”。人在那里如法礼拜供养,于四月斋期(Cāturmāsya)便得往生三十三天(Triviṣṭapa)。

Verse 53

शेषकालेऽपि चित्तस्थान्कामान्मर्त्यः समाप्नुयात् । तस्मात्सर्वप्रयत्नेन पूज्या सा द्वारका नरैः । सर्वेष्वपि हि कालेषु चातुमास्ये विशेषतः

即便在其他时日,凡人亦能成就心中所怀的愿望。故当竭尽诸般精勤礼敬彼“德瓦拉卡(Dvārakā)”——固然时时皆可,尤以四月斋期(Cāturmāsya)为最胜。

Verse 54

एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् । आख्यानं देवदेवस्य सुपुण्यं जलशायिनः

以上一切,我已为汝等尽皆宣说——此乃能灭除诸罪之圣传:诸神之神、卧于水上的主宰,其最上功德的神圣故事。