Adhyaya 271
Nagara KhandaTirtha MahatmyaAdhyaya 271

Adhyaya 271

第271章开篇由苏多(Sūta)宣说“七林伽聚”(liṅgasaptaka)的殊胜功德:清晨瞻礼(darśana)并供奉此七林伽,能得延寿、离病、灭罪。所列名号包括摩尔坎德耶湿伐罗(Mārkaṇḍeśvara)、因陀罗昙那湿伐罗(Indradyumneśvara)、帕勒湿伐罗(Pāleśvara)、钟铃湿婆(Ghaṇṭāśiva)、卡拉舍湿伐罗(Kalaśeśvara,与Vānareśvara相关)以及伊舍那/刹特罗湿伐罗(Īśāna/Kṣetreśvara)。诸仙(ṛṣi)请求追述缘起:各林伽由谁建立,应行何种仪轨与布施。 随后苏多讲述因陀罗昙那王(Indradyumna)的长篇事例:王虽广修祭祀与施舍,但当人间名声衰减时,其天界地位亦受威胁,遂返世以圣业重振“声名”(kīrti)。为在漫长岁月中求证自身身份,他依次拜访多位寿命极长的存在——摩尔坎德耶、似鹤之生灵(Baka/Nāḍījaṅgha)、猫头鹰(Ulūka)、秃鹫(Gṛdhra)、龟(Kūrma/Mantharaka),最终至罗摩沙仙(Lomaśa)。诸者皆言其长寿源于归依湿婆的奉爱(如供比尔瓦叶、行诸仪式),而堕为禽兽之身则因苦行者的诅咒所致。 故事链条终以与Bhartṛyajña及Saṃvarta相关的教诲收束,并给出实践之道:在与哈塔克湿伐罗(Hāṭakeśvara)相连的圣域(kṣetra)建立七林伽,并依“山岳之施”行七种象征性布施(Meru、Kailāsa、Himālaya、Gandhamādana、Suvela、Vindhya、Śṛṅgī),以规定材料造成。章末功德颂(phalaśruti)明示:仅清晨瞻礼七林伽,亦能解脱无心之罪;若如法供奉并行布施,则得亲近湿婆(gaṇatva),久享天福,并于轮回中屡得崇高王权。

Shlokas

Verse 1

सूत उवाच । अथान्यदपि तत्रास्ति सुपुण्यं लिंगसप्तकम् । येनार्चितेन दृष्टेन पूजितेन विशेषतः

苏多说道:此外,彼处尚有极具功德的七尊林伽(liṅga);若能礼拜供奉、瞻仰观见,尤其以普阇(pūjā)恭敬奉事,便得殊胜福德。

Verse 2

दीर्घायुर्जायते मर्त्यः सर्वरोगविवर्जितः । मार्कण्डेश्वर इत्युक्तस्तत्र देवो महेश्वरः

凡人得享长寿,远离一切疾病;在彼处,大自在天(Maheśvara)被称为“摩尔坎德伊湿伐罗”(Mārkaṇḍeśvara)。

Verse 3

इन्द्रद्युम्नेश्वरोऽन्यस्तु सर्वपापहरो हरः । पालेश्वरस्तथा चैव सर्वव्याधिविनाशनः

另有“因陀罗丢摩涅湿伐罗”(Indradyumneśvara)——除尽诸罪的诃罗(湿婆)。同样,“帕勒湿伐罗”(Pāleśvara)能摧灭一切病患。

Verse 4

ततो घंटशिवः ख्यातो यो घंटेन प्रतिष्ठितः । कलशेश्वरसंज्ञस्तु वानरेश्वरसंयुतः

其后有著名的“钟湿婆”(Ghaṇṭaśiva),由铃铎所安立;又有名为“卡拉舍湿伐罗”(Kalaśeśvara)者,与“瓦那雷湿伐罗”(Vānareśvara)相连。

Verse 5

ईशान शिव इत्युक्तस्तत्र क्षेत्रेश्वरेश्वरः । पूजितो मानवैर्भक्त्या कामान्यच्छत्यमानुषान्

在那里,圣域之主被称为“伊沙那·湿婆”(Īśāna Śiva),即“刹特雷湿伐罗之主”(Kṣetreśvareśvara)。世人以虔敬供奉时,祂赐予超越凡常人量的愿求。

Verse 6

वांछितान्मनसा सर्वान्कलिकालेऽपि संस्थिते

凡心中所愿求的一切——即便在迦梨时代仍然当世——

Verse 7

ऋषय ऊचुः । कोऽयं मार्कंडसंज्ञस्तु येन लिंगं प्रतिष्ठितम् । इन्द्रद्युम्नो महीपालः कतमो वद सूतज

诸仙人说道:“那位名为摩尔甘达(Mārkaṇḍa)者是谁,由他安立了林伽?又那位名为因陀罗迦昙那(Indradyumna)的国王究竟是谁?苏多之子啊,请为我们宣说。”

Verse 8

तथा पालकनामा च येनायं स्थापितो हरः । तथा यो घण्टसंज्ञस्तु कस्मिञ्जातः स चान्वये

“同样,那位名为帕拉迦(Pālaka)者是谁,由他安置了此哈罗(Hara,湿婆)?又那位被称为‘甘塔’(Ghaṇṭa)者,出生于何等族系?”

Verse 9

कलशाख्यस्तु यः ख्यातो वानरेण समन्वितः । ईशानोप्यखिलं ब्रूहि परं नःकौतुकं स्थितम्

“又那位以‘迦拉沙’(Kalaśa)著称、并与一只猴相连者——噢伊沙那(Īśāna),请将一切详尽宣说;因为我们心中已生起极大的好奇。”

Verse 10

यतोऽत्र जायते श्रेयः पुनः पुंसां प्रकीर्तय । यैरेतैः स्थापिता देवाः क्षेत्रेऽस्मिन्मानवोत्तमैः

“请再宣说:在此处,人们如何得生至上的福祉;又是由哪些卓越之人,在这神圣的刹土中安立了这些神祇。”

Verse 11

तथा तेषां समाचारं प्रभावं चैव सूतज । दानं वापि यथाकालं मंत्रांश्च विस्तराद्वद

“并且,苏多之子啊,请详尽宣说他们应行的仪轨与神圣威力,以及依时施舍的布施与诸般真言(mantra)。”

Verse 12

सूत उवाच । अहं वः कीर्तयिष्यामि कथामेतां पुरातनीम् । कथितां भर्तृयज्ञेन आनर्ताधिपतेः स्वयम्

苏多说道:“我将为你们宣说这则古老的圣传——乃阿那尔塔之主婆尔特利耶阇那亲自所述。”

Verse 13

श्रुतयापि यया मर्त्यो दीर्घायुर्जायतेनरः । नापमृत्युमवाप्नोति कथंचित्तत्प्रभावतः

“仅仅聆听此事,凡人亦得延年益寿;凭其威力,绝不遭逢非时之死。”

Verse 14

यो मार्कंड इति ख्यातः प्रथमं परिकीर्तितः । संभूतिस्तस्य संप्रोक्ता युष्माकं पापनाशिनी

“那位以‘摩罗迦ṇḍa’闻名者,将先被宣说;如今我将说明他的来历——此叙述能灭除你们的罪业。”

Verse 15

इंद्रद्युम्नं प्रवक्ष्यामि सांप्रतं मुनिसत्तमाः । यद्वंशो यत्प्रभावश्च सर्वभूपालमानितः

“如今,诸位最胜牟尼啊,我将宣说因陀罗昙那——他的族系与威德,受一切君王敬仰。”

Verse 16

इंद्रद्युम्नो महीपाल आसीत्पूर्वं द्विजोत्तमाः । ब्राह्मण्यश्च शरण्यश्च साधुलोकप्रपालकः । यज्वा दानपतिर्दक्षः सर्वभूतहिते रतः

“因陀罗昙那昔日为护国之王,噢最胜婆罗门:敬奉婆罗门,为众生之归依,守护善人。常行祭祀,布施第一,办事善巧,乐于一切有情之安乐。”

Verse 17

न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् । तस्मिञ्छासति धर्मज्ञे आसील्लोकस्य कस्यचित्

当那位通晓正法的国王执政之时,国中无人遭遇饥馑,无人染病,亦无人因盗贼而生恐惧。

Verse 18

यथैव वर्षतो धारा यथा वा दिवि तारकाः । गंगायां सिकता यद्वत्संख्यया परिवर्जिताः

如同倾落的雨流,如同天穹的群星,又如恒河中的沙粒不可计数——同样地,他们亦无量无数。

Verse 19

तद्वत्तेन कृता यज्ञाः सर्वे संपूर्णदक्षिणाः । अग्निष्टोमोऽतिरात्रश्च उक्थः षोडशिकास्तथा

同样地,他如法举行一切祭祀,皆具足应有的达克希那(祭司酬施):阿耆尼什托摩、阿提罗多罗、乌克提亚,以及十六式(Ṣoḍaśī)等仪轨。

Verse 20

सौत्रामण्याऽथ पशवश्चातुर्मास्या द्विजोत्तमाः । वाजपेयाश्वमेधाश्च राजसूया विशेषतः

又举行了苏特罗摩尼祭、诸般帕舒(牲祭)以及随季节而行的四月祭(Cāturmāsya)——噢,最胜的二生者——并同修瓦迦佩耶、阿湿婆梅陀,尤其是王灌顶大祭(Rājasūya)。

Verse 21

पौण्डरीकास्तथैवान्ये श्रद्धापूतेन चेतसा

同样地,莲华大祭(Pauṇḍarīka)以及其他许多仪式,也都以被信心(śraddhā)净化之心而奉行。

Verse 22

तेन दानानि दत्तानि तीर्थेषु च विशेषतः । मिष्टान्नानि द्विजेंद्राणां दक्षिणासहितानि च

由他施行诸般布施,尤在诸圣渡处(tīrtha)之中;又以甘美饮食供养最上婆罗门,并随礼奉上达克希那(dakṣiṇā)供资。

Verse 23

न तदस्ति धरापृष्ठे नगरं पत्तनं तथा । तीर्थं वा यत्र नो तस्य विद्यते त्रिदशालयः

在大地之上,无论城邑市镇,亦无论圣渡处(tīrtha),没有一处不见他的神祠——那是诸天的居所。

Verse 24

तेन कन्यासहस्राणि अच्युतान्यर्बुदानि च । ब्राहमणेभ्यः प्रदत्तानि ब्राह्मणानां धनार्थिनाम्

由他施舍千千少女,又施与无量财宝——赐给那些求财而困乏的婆罗门。

Verse 25

दशमीदिवसे तस्य रात्रौ च गजपृष्ठिगः । दुन्दुभिस्ताड्यमानस्तु बभ्राम सकलं पुरम्

在他的达沙弥日,夜间亦然,他乘坐象背;当大鼓(dundubhi)擂响之时,他巡行遍历全城。

Verse 26

प्रत्यूषे वैष्णवं भावि पापहारि च वासरम् । उपवासः प्रकर्त्तव्यो मुक्त्वा वृद्धं च बालकम् । अन्यथा निग्रहिष्यामि भोजनं यः करिष्यति

黎明时他宣告:“明日为毗湿奴之日(Vaiṣṇava),能除罪垢。除老人幼童外,皆当守斋(upavāsa)。否则,凡进食者,我必惩治。”

Verse 27

इंद्रद्युम्नः स राजर्षिस्तदा विष्णोः प्रसादतः । तेनैव स्वशरीरेण ब्रह्मलोकं तदा गतः

当时,王仙因陀罗迦昙那(Indradyumna)蒙毗湿奴(Viṣṇu)之恩,竟以此身直往梵天界(Brahmaloka)。

Verse 28

तत्र कल्पसहस्रांते स प्रोक्तो ब्रह्मणा स्वयम् । इंद्रद्युम्न धरां गच्छ न स्थातव्यं त्वयाऽधुना

在那里,至一千劫终了之时,梵天亲自告诫他说:“因陀罗迦昙那,回到人间大地去;如今你不应留在此处。”

Verse 29

इंद्रद्युम्न उवाच । कस्माच्च्यावयसे ब्रह्मन्निजलोकाद्द्रुतं हि माम् । अपापमपि देवेश तथा मे वद कारणम्

因陀罗迦昙那说道:“噢,梵天啊,为何你如此迅疾地将我从你的世界遣下?噢,诸天之主,即便我无罪,也请如实告知其因。”

Verse 30

श्रीब्रह्मोवाच । तव कीर्तिसमुच्छेदः संजातोऽद्य धरातले । यावत्कीर्तिर्धरापृष्ठे तावत्स्वर्गे वसेन्नरः

圣梵天说道:“今日在大地之上,你名声的延续已被截断。只要名望(所积功德)仍存于世间,此人便得居于天界。”

Verse 31

एतस्मात्कारणाल्लोकाः स्वनामांकानि चक्रिरे । वापीकूपतडागानि देवतायतनानि च

正因如此,人们才建造刻有自己名号的纪念功业——阶井、井、池塘,以及作为诸神居处的神庙。

Verse 32

तस्माद्गच्छ धरापृष्ठं स्वां कीर्तिं नूतनां कुरु । यदि वांछसि लोकेऽस्मिन्मामके वसतिं चिरम्

因此,你当往人间大地之上,以新的功德善业更新你的名声。若你愿在我之世界(天界Svarga)久住,此即其道。

Verse 33

अथात्मानं स राजेंद्रो यावत्पश्यति तत्क्षणात् । तावत्प्राप्तं धरापृष्ठे कांपिल्य नगरं प्रति

随后,诸王之主一觉知自身,刹那之间便发现自己已至人间大地,来到迦ṃ毗利耶城附近。

Verse 34

अथ पप्रच्छ लोकान्स किमेतन्नगरं स्मृतम् । कोऽयं देशः कोऽत्र राजा किं पुरं नगरं च किम्

于是他问众人:“此城名为何?此地属何方?此处之王是谁?‘pura’作何义,‘nagara’又作何义?”

Verse 35

ते तमूचुः परं चैतत्कांपिल्यमिति विश्रुतम् । आनर्तनामा देशोऽयं राजात्र पृथिवीजयः

众人对他说:“此城确以迦ṃ毗利耶(Kāṃpilya)著称。此地名为阿那尔塔(Ānarta),此处之王名曰普利提毗阇耶(Pṛthivījaya)。”

Verse 36

को भवान्किमिहायातः किंचित्कार्यं वदस्व नः

“你是谁,为何来到此处?请向我们说明你所为何事。”

Verse 37

इंद्रद्युम्न उवाच इंद्रद्युम्नो महीपालः पुरासीद्रोचके पुरे । देशे वैजरुके पूर्वं स देशः क्व च तत्पुरम्

因陀罗迦昙那说道:“我乃因陀罗迦昙那,统御大地之王。昔日我居于毗阇卢迦之地的罗遮迦城。如今那国在何处,那城又在何处?”

Verse 38

जना ऊचुः । न वयं तत्पुरं विद्मो न देशं न च भूपतिम् । इन्द्रद्युम्नाभिधानं च यं त्वं पृच्छसि भद्रक

众人说道:“我们不知那座城,不知那片国土,也不识那位君王。你所询问的名为因陀罗迦昙那者,我们亦不知,善士啊。”

Verse 39

इंद्रद्युम्न उवाच । चिरायुरस्ति कोऽप्यत्र यस्तं वेत्ति महीपतिम् । देशं वा तत्पुरं वापि तन्मे वदथ मा चिरम्

因陀罗迦昙那说道:“此处可有长寿之人,知晓那位君王——知其国土,或至少知其城邑?速速告我,莫要迟延。”

Verse 40

जना ऊचुः । सप्तकल्पस्मरो नाम मार्कंडेयो महामुनिः । श्रूयते नैमिषारण्ये तं गत्वा पृच्छ वेत्स्यसि

众人说道:“大圣牟尼摩尔迦ṇḍeya,号称‘忆念七劫者’,相传住于奈弥沙林(Naimiṣāraṇya)。你去见他请问,便可得知。”

Verse 41

अथासौ सत्वरं गत्वा व्योममार्गेण तं मुनिम् । पप्रच्छ प्रणिपत्योच्चैर्नैमिषारण्यमाश्रितम्

于是他急速前往,循天路而行,来到那位栖居奈弥沙林的牟尼之前;他俯首顶礼,朗声请问。

Verse 42

इंद्रद्युम्नेति वै भूपस्त्वया दृष्टः श्रुतोऽथ वा । चिरायुस्त्वं श्रुतोऽस्माभिः पृच्छामस्तेन सन्मुने

“你可曾见过,或至少听闻过名为因陀罗底优摩那(Indradyumna)的国王?我们听说你寿命绵长;因此,噢高贵的牟尼圣者,我们向你请问。”

Verse 43

श्रीमार्कंडेय उवाच सप्तकल्पांतरे भूपो न दृष्टो न मया श्रुतः । इंद्रद्युम्नाभिधानोऽत्र तत्र किं नु वदामि ते

圣者室利·摩尔甘德耶(Mārkaṇḍeya)说道:“历经七个劫(kalpa),我在此既未见过,也未听闻有名为因陀罗底优摩那的国王。那么,我又能对你说他什么呢?”

Verse 44

तस्य तद्वचनं श्रुत्वा निराशः स महीपतिः । वैराग्यं परमं गत्वा मरणे कृतनिश्चयः

听到那番话,国王顿时绝望。进入至高的离欲(vairāgya)之境,他决意赴死。

Verse 45

तेन चानीय दारूणि प्रज्वाल्य च हुताशनम् । प्रवेष्टुकामः स प्रोक्त इन्द्रद्युम्नो महीपतिः

随后他取来柴薪,点燃火焰。据说那位国王——因陀罗底优摩那——渴望投入其中。

Verse 46

त्वया चात्र न कर्तव्यमहं ते मित्रतां गतः । नाशयिष्यामि ते मृत्युं यद्यपि स्यान्महत्तरम्

“你不可在此行此事。我已成为你的朋友。即便死亡极其可怖,我也必为你消弭其临近。”

Verse 47

नीरोगोऽसि सुभव्योऽसि कस्मान्मृत्युं प्रवांछसि । वद मे कारणं मृत्योः प्रतीकारं करोमि ते

“你无病安康,且蒙福吉祥。为何竟渴求死亡?告诉我你求死的缘由;我将为你施设对治之法。”

Verse 48

इंद्रद्युम्न उवाच । चिरायुर्मे भवान्प्रोक्तः कांपिल्यपुरवासिभिः । तेनाहं तव पार्श्वेऽत्र समायातो महामुने

因陀罗昙那说道:“迦毗利城的居民告诉我,尊者寿命绵长。故而,哦大牟尼,我来到此处,亲近于你身旁。”

Verse 49

इंद्रद्युम्नोद्भवां वार्तां त्वं वदिष्यसि सन्मुने । मत्कीर्तिर्न परिज्ञाता ततो मृत्युं व्रजाम्यहम्

“哦圣贤牟尼,你将讲述与因陀罗昙那相关的事迹;然而我的名声无人知晓,因此我将走向死亡。”

Verse 50

सूत उवाच । तस्य तं निश्चयं ज्ञात्वा दयावान्स मुनीश्वरः । वृथाश्रमं च तं ज्ञात्वा दाक्षिण्यादिदमब्रवीत्

苏多说道:知晓他坚固的决意,那位慈悲的仙中之主——明白否则其努力将成徒然——便以礼敬与仁厚,说出了如下言辞。

Verse 51

यद्येवं मा विशाग्निं त्वमहं ज्ञास्यामि तं नृपम् । नाडीजंघो बको नाम ममास्ति परमः सुहृत्

“既如此,毗舍阿伽尼啊,莫要沉入绝望。我将探知那位国王之事。我有一位至交,名为婆迦(亦称那地姜伽,Nāḍījaṅgha)。”

Verse 52

चिरंतनश्च सोऽस्माकं नूनं ज्ञास्यति तं नृपम् । तस्मादागच्छ गच्छावस्तस्य पार्श्वे हिमाचले

他乃亘古之人,久与我等相系,必定知晓那位国王之事。故而来吧;让我们前往他处,至喜马拉雅山侧。

Verse 53

साधूनां दर्शनं जातु न वृथा जायते क्वचित्

得见圣贤之面,任何时候都不曾徒然无果。

Verse 54

एवमुक्त्वा ततस्तौ तु प्रस्थितौ मुनिपार्थिवौ । व्योममार्गेण संतुष्टौ बकं प्रति हिमाचले

言毕,仙人与国王遂启程。心怀欢悦,他们循天路而行,向喜马拉雅境内的婆迦(Baka)而去。

Verse 55

बकोऽपि तं समालोक्य मार्कण्डेयं समागतम् । संमुखः प्रययौ तुष्टः स्वागतेनाभ्यपूजयत्

婆迦见摩尔迦ṇḍeya已至,便迎面前行相接;心生欢喜,以欢迎之辞恭敬礼敬。

Verse 56

धन्योऽहं कृतपुण्योऽहं यस्य मे त्वत्समागमः । भो भो ब्रह्मविदां श्रेष्ठ आतिथ्यं ते करोमि किम्

我真有福,我真具功德,只因得与汝相会。噫,诸知梵者之最胜,我当以何等款待奉献于汝?

Verse 57

श्रीमार्कंडेय उवाच । मत्तोपि त्वं चिरायुश्च यतो मित्रं व्यवस्थितः । इन्द्रद्युम्नो महीपालस्त्वया दृष्टः श्रुतोऽथवा

圣者摩尔坎德耶说道:“你比我更长寿,因为你安住为友而不移。你可曾见过因陀罗昙那王,或至少听闻过他的名号吗?”

Verse 58

एतस्य मम मित्रस्य तेन दृष्टेन कारणम् । अन्यथा जायते मृत्युस्ततोऽहं त्वां समागतः

为了我这位朋友——使他得以被“看见”,亦即被知晓与承认——我才来到这里。否则死亡将会降临;因此我前来求见于你。

Verse 59

बक उवाच सप्तद्विगुणितान्कल्पान्स्मराम्यहमसंशयम् । न स्मरामि कथामेव इंद्रद्युम्नसमुद्भवाम्

婆迦说道:“毫无疑问,我记得十四个劫(kalpa)。然而我全然不记得与因陀罗昙那王之起源相关的任何传说。”

Verse 60

आस्तां हि दर्शनं तावत्सत्यमेतन्मयोदिम्

“至于‘曾见’之事,且先搁置;我所说的确是真实。”

Verse 61

इंद्रद्युम्न उवाच । तपसः किं प्रभावोऽयं दानस्य नियमस्य च । यदायुरीदृशं जातं बकत्वेऽपि वदस्व नः

因陀罗昙那说道:“苦行(tapas)、布施(dāna)与戒律修持(niyama)有何威力,竟使寿命如此增长,即便处于婆迦之身?请为我们开示。”

Verse 62

बक उवाच घृतकंबलमाहात्म्याद्देवदेवस्य शूलिनः । ममायुरीदृशं जातं बकत्वं मुनिशापतः

婆迦说道:“凭借属于执三叉戟之天中天——湿婆大自在天——的‘酥油毯’之大威德,我的寿命才成了如今这般;但我之成为‘婆迦’,却是因一位牟尼圣者的诅咒。”

Verse 64

अहमासं पुरा बालो ब्राह्मणस्य निवेशने । चमत्कारपुरे रम्ये पाराशर्यस्य धीमतः

“从前我还是个孩子,住在一位婆罗门家中——他是圣者波罗舍罗的贤明后裔——那是在名为‘奇迹城’(Camatkārapura)的美丽城邑里。”

Verse 65

कस्यचित्त्वथ कालस्य संक्रांतौ मकरस्य भोः । संप्राप्यातीव चापल्याल्लिंगं जागेश्वरं मया । घृतकुम्भे परिक्षिप्तं पूजितं जनकेन यत्

“后来在某个时候——值摩羯转日(Makara Saṅkrānti)——我因孩童般的顽动,竟取来阇耶湿伐罗(Jāgeśvara)之林伽,放入一罐酥油之中;那本是父亲已恭敬供奉过的。”

Verse 66

अथ रात्र्यां व्यतीतायां पृष्टोऽहं जनकेन च । त्वया पुत्र परिक्षिप्तं नूनं जागेश्वरं क्वचित् । तस्माद्वद प्रयच्छामि तेन ते भक्ष्यमुत्तमम्

“夜尽之后,父亲问我:‘孩子,你必定把阇耶湿伐罗放到某处了。说出来吧;我便赐你上好的食物。’”

Verse 67

ततो मयाज्यकुम्भाच्च तस्मादादाय सत्वरम् । भक्ष्यलौल्यात्पितुर्हस्ते विन्यस्तं घृतसंप्लुतम्

“于是我因贪求食物,急忙从那酥油罐中取出它,放到父亲手里——满是酥油,涂抹浸透。”

Verse 68

कस्यचित्त्वथ कालस्य पंचत्वं च समागतः । जातिस्मरस्ततो जातस्तत्प्रभावान्नृपालये

过了一段时日,死亡临到我身。随后凭借那同一威力,我在王族之家再生,且具宿世之忆。

Verse 69

आनर्ताधिपतेर्हर्म्ये नाम्ना ख्यातस्त्वहं बकः । चमत्कारपुरे देवो हरः संस्थापितो मया

在阿那尔塔之主的宫殿中,我以“婆迦(Baka)”之名闻名。又在奇迹城Camatkārapura,我亲自安立哈罗神(湿婆)。

Verse 70

तत्प्रभावेण विप्रेंद्र प्राप्तः पैतामहं पदम्

婆罗门中最胜者啊,凭借那功德之力,他得至“祖父”之崇高境位——梵天(Brahmā)之界与尊位。

Verse 71

ततो यानि धरापृष्ठे सुलिंगानि स्थितानि च । घृतेनच्छादयाम्येव मकरस्थे दिवाकरे । मया यत्स्थापितं लिंगं चमत्कारपुरे शुभम्

其后,凡大地表面所安立的一切吉祥林伽,当太阳行至摩羯(Capricorn)之时,我必以酥油(ghṛta)覆之供养。至于我在奇迹城Camatkārapura亲自所立的吉祥林伽,我亦如是礼敬。

Verse 72

आराधितं दिवा नक्तं राज्ये संस्थाप्य पुत्रकम् । नियोज्य सर्वतो भृत्यान्धनवस्त्रसमन्वितान्

我昼夜不息地奉事礼敬(湿婆)。既立我子登上王位,又在四方任命侍从,使其具足财物与衣服以行其职。

Verse 73

ततःकालेन महता तुष्टो मे भगवाञ्छिवः । मत्समीपं समासाद्य वाक्यमेतदुवाच सः

过了很久,至福的主湿婆对我心生欢喜;他走近我身旁,对我说道:

Verse 74

परितुष्टोऽस्मि भद्रं ते तव पार्थिवसत्तम । घृतकंबलदानेन संख्यया रहितेन च

“我对你已极为满意——愿吉祥属于你,王中之最——因为你布施酥油之毯,并且施与无数,不计其数。”

Verse 75

तस्माद्वरय भद्रं ते वरं यन्मनसि स्थितम् । अदेयमपि दास्यामि यद्यपि स्यात्सुदुर्लभम्

“因此,你当选择一项恩赐——愿你得吉祥——凡你心中所愿者皆可。即便通常不可赐与之物,我也将赐下,纵然极其稀有。”

Verse 76

ततो मया हरः प्रोक्तो यदि तुष्टोऽसि मे प्रभो । कुरुष्व मां गणं देव नान्यत्किंचिद्वृणोम्यहम्

于是我对诃罗说道:“若主垂悦于我,哦 प्रभो,请使我成为你的一位伽那(gaṇa),哦天神;除此之外,我别无所求。”

Verse 77

श्रीभगवानुवाच । बकैहि त्वं महाभाग कैलासं पर्वतोत्तमम् । मया सार्धमनेनैव शरीरेण गणो भव

至福的主说道:“道别而来吧,福德深厚者;到迦罗娑(Kailāsa)——群山之最胜。与我同在,就以此身,成为一位伽那(gaṇa)。”

Verse 78

अन्योऽपि मर्त्यलोकेत्र यः करिष्यति मानवः । मकरस्थे रवौ मह्यं संक्रांतौ रजनीमुखे । स नूनं मद्गणो भावी सकृत्कृत्वाऽथ कंबलम्

凡在凡世之中,另有任何人若为我行此事——当太阳行至摩羯(Makara),于“桑克兰提”(saṅkrānti)之时,夜幕初临之际——即便只做一次,制作或奉献那“酥油毯”(kambala),此人亦必定成为我的伽那(gaṇa)眷属。

Verse 79

त्वं पुनर्मामकं लिंगं समं कुर्वन्भविष्यसि । धर्मसेनेति विख्यातो विकृत्या परिवर्जितः

而你将成为使我的林伽(liṅga)端正匀称、形相圆满之人;你将以“达摩军”(Dharmasena)之名闻世,远离畸变与败坏。

Verse 80

एवमुक्त्वा स भगवान्मामादाय ततः परम् । कैलासं पर्वतं गत्वा गणकोटीशतामदात्

如是说已,世尊携我同行;继而前往凯拉萨山(Kailāsa),赐予我数百俱胝(koṭi)之伽那(gaṇa)随从。

Verse 81

कस्यचित्त्वथ कालस्य भ्रममाणो यदृच्छया । गतोऽहं पर्वतश्रेष्ठं हिमवंतं महागिरिम्

过了一段时日,我偶然漂游行走,来到群山之主——喜马梵(Himavān)那巍峨的大山。

Verse 82

यत्रास्ते गालवो नाम सदैव तपसि स्थितः । तस्य भार्या विशालाक्षी सर्वलक्षणलक्षिता

彼处住着一位名为伽罗婆(Gālava)的圣仙,恒常安住于苦行(tapas);其妻毗舍罗阿克希(Viśālākṣī)目光广大,具足一切吉祥相。

Verse 83

सप्तरक्ता त्रिगंभीरा गूढगुल्फा कृशोदरी । तां दृष्ट्वा मन्मथाविष्टः संजातोऽहं मुनीश्वर

她以深沉的光彩而灿然,身姿三曲婀娜,踝骨匀称,腰肢纤细。见到她,噢诸牟尼之主,我便被伽摩(爱欲之神)所摄,欲念涌起。

Verse 84

चिंतितं च मया चित्ते कथमेतां हराम्यहम् । तस्माच्छिष्यत्वमासाद्य भक्तिमस्य करोम्यहम्

我在心中思量:“我该如何将她带走?”因此,我将取得作他弟子的身份,并以奉爱(bhakti)之心敬事于他。

Verse 85

शुश्रूषानिरतो भूत्वा येन प्राप्नोमि भामिनीम्

若我专心侍奉、勤于服事,便可借此得到那位情意炽烈的女子。

Verse 86

ततो बटुकरूपेण संप्राप्तो गालवो मया । संसारस्य विरक्तोऽहं करिष्यामि मह्त्तपः

随后我化作一名婆图迦——年轻的梵行学生——前往伽罗婆,对他说:“我已厌离轮回世间;我将修行大苦行(tapas)。”

Verse 87

दीक्षां यच्छ विभो मह्यं येन शिष्यो भवामि ते

请赐我灌顶入门(dīkṣā),噢可敬者,使我得以成为你的弟子。

Verse 88

आहरिष्याम्यहं दर्भांस्तथा सुमनसः सदा । समिधश्च सदैवाहं फलानि जलमेव च

我将恒常带来库沙草与鲜花,也将不断带来供火的柴薪、果品与清水。

Verse 89

स मां विनयसंपन्नं ज्ञात्वा ब्राह्मणरूपिणम् । ददौ दीक्षां ततो मह्यं शास्त्रदृष्टेन कर्मणा

他认出我为持戒有礼之人,且显现为婆罗门之形,便依经典所定之仪轨,赐我灌顶入门之法。

Verse 90

अथ दीक्षां समासाद्य तोषयामि दिनेदिने । तं चैव तस्य पत्नीं तां यथोक्तपरिचर्यया । अशुद्धेनापि चित्तेन छिद्रान्वेषणतत्परः

既得灌顶入门之后,我日日令他欢喜;亦依所说之法恭敬侍奉其妻。然而纵使心不清净,我仍专意寻其过失,伺机觅隙。

Verse 91

अन्यस्मिन्दिवसे प्राप्ते सा स्त्रीधर्मसमन्विता । उटजं दूरतस्त्यक्त्वा रात्रौ सुप्ता मनस्विनी

又一日,那位心志高洁、安住于妇道之法的女子,离开茅庵小屋稍远之处,于夜间安然入睡。

Verse 92

सोऽहं रूपं महत्कृत्वा तामादाय तपस्विनीम् । सुखसुप्तां सुविश्रब्धां प्रस्थितो दक्षिणामुखः

于是我化作巨大而可怖之形,擒住那位女修行者;当她安睡无疑、毫无戒备之时,我便面向南方启程而去。

Verse 93

अथासौ संपरित्यक्ता संस्पर्शान्मम निद्रया । चौररूपं परिज्ञाय मां शिष्यं प्ररुरोद ह

随后她被我的触碰惊醒。认出我那如盗贼般的形貌,她呼喊道:“(这是)你的弟子!”

Verse 94

साब्रवीच्च स्वभर्तारं गालवं मुनिसत्तमम् । एष शिष्यो दुराचारो हरते मामितः प्रभो

她对丈夫——迦罗婆,诸牟尼中最胜者——说道:“主啊,这个恶行的弟子正要把我从此处掳走!”

Verse 95

तस्माद्रक्ष महाभाग यावद्दूरं न गच्छति

因此,吉祥者啊,请在他尚未走远之前护佑(我)。

Verse 96

तच्छ्रुत्वा गालवः प्राह तिष्ठतिष्ठेति चासकृत् । पापाचार सुदुष्टात्मन्गतिस्ते स्तंभिता मया

迦罗婆听后,连连说道:“停下!停下!”并宣告:“罪人啊,极恶之心者——你的行动已被我定住!”

Verse 97

तस्य वाक्यात्ततो मह्यं गतिस्तंभो व्यजायत । यद्वल्लिखित एवाहं प्रतिष्ठामि सुनिश्चलः

因他的话语,我的行动立刻被遏止;我站得纹丝不动,宛如画中所描之人。

Verse 98

ततस्तेन च शप्तोऽहं गालवेन महात्मना । वंचितोऽहं त्वया यस्माद्बको भव सुदुर्मते

随后,我被大心的伽罗婆(Gālava)诅咒道:“既然你欺骗了我——你这心性极其乖僻者,化作鹤(baka)吧!”

Verse 99

ततः पश्यामि चात्मानं सहसा बकरूपिणम् । बकत्वेऽपि न मे नष्टा या स्मृतिः पूर्वसंभवा

随后我忽然看见自己已成鹤(baka)之形。即便在鹤身之中,由前世而生的记忆也未曾消亡。

Verse 100

ततः साऽपि च तत्पत्नी सचैलं स्नानमाश्रिता । मत्स्पर्शादुःखितांगी च शापाय समुपस्थिता

随后,他的妻子也仍穿着衣裳,前去行净浴以求清净。因那罪触而遍体痛楚,她上前一步,欲发诅咒。

Verse 101

यस्मात्पाप त्वया स्पृष्टा प्रसुप्ताहं रजस्वला । बकधर्मं समाश्रित्य भर्त्ता मे वंचितस्त्वया । अन्यरूपं समास्थाय तस्मात्सत्यं बको भव

“因为你这罪人,在我熟睡之时、我行经之际触碰了我;又依凭‘鹤之行径’欺骗了我的丈夫——因此,改换他形,真正化作鹤(baka)吧!”

Verse 102

एवं शप्तस्ततो द्वाभ्यां ताभ्यां वै दुःखसंयुतः । चरणाभ्यां प्रलग्नस्तु गालवस्य महात्मनः

就这样,他被那二人诅咒,满怀苦楚,便伏抱大心圣者伽罗婆(Gālava)的双足不放。

Verse 103

गणोऽहं देवदेवस्य त्रिनेत्रस्य महात्मनः । पालकेति च विख्यातो गणकोटिप्रभुः स्थितः

我乃诸神之神、三眼大主、伟大心灵者的伽那(gaṇa)。我以“帕拉卡”(Pālaka)之名闻名,被安立为统领亿万伽那之将。

Verse 104

सोऽहमत्र समायातः प्रभोः कार्येण केनचित् । तव भार्यां समालोक्य कामदेववशं गतः

我到此乃奉我主之事而来;然而一见你的妻子,便落入伽摩天(Kāma,欲爱)之力的支配。

Verse 105

क्षमापराधं त्वं मह्यमेवं ज्ञात्वा मुनीश्वर । दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च

噢牟尼之主,既知此情,愿你宽恕我的过失。我本失于调伏,却得富贵,又得学识与威权。

Verse 106

न तिष्ठति चिरं स्थाने यथाहं मदगर्वितः । शिष्यरूपं समास्थाय ततः प्राप्तस्तवांतिकम्

如我这般为傲慢之醉所迷者,终不能久居其位。于是我化作弟子之形,继而来到你面前。

Verse 107

अस्या हरणहेतोश्च महासत्या मुनीश्वर । तस्मात्कुरु प्रसादं मे दीनस्य प्रणतस्य च

噢牟尼之主,因那与掳走她相关之因缘——且她至诚守真——故愿你垂恩于我这困厄而俯伏顶礼之人。

Verse 108

अनुग्रहप्रदानेन क्षमा यस्मात्तपस्विनाम् । कोकिलानां स्वरो रूपं नारीरूपं पतिव्रता । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्

由于苦行者施予恩典,宽恕实为他们真正的庄严。杜鹃之美在其鸣声;妇人之美在其守贞尽妇道;貌丑者以学识而增光;苦行者以宽恕而增辉。

Verse 109

सूत उवाच । तस्य तत्कृपणं श्रुत्वा सोपि माहेश्वरो मुनिः । ज्ञात्वा तं बांधवस्थाने दयां कृत्वाऽब्रवीद्वचः

苏多说道:听到他那凄切的哀求,那位大自在天的圣贤也——认出他如同亲族之人——生起悲悯,便说出如下言辞。

Verse 110

सत्यवाक्तिष्ठते विप्रश्चमत्कारपुरे शुभे

婆罗门啊,那位言语真实者住在吉祥之城,名为“Camatkārapura(奇妙城)”。

Verse 111

भर्त्तृयज्ञ इति ख्यातस्तदा तस्योपदेशतः । बकत्वं यास्यते नूनं मम वाक्यादसंशयम्

随后,依其教诲,他便以“Bhartṛyajña(婆尔特利祭)”之名而闻名。并且确然无疑——凭我此言——他将堕入化为苍鹭的境地。

Verse 112

ततः पश्यामि चात्मानं बकत्वेन समाश्रितम्

于是我看见自己——已依止于苍鹭之身,亦即化作苍鹭。

Verse 113

एवं मे दीर्घमायुष्यं संजातं शिवभक्तितः । घृतकम्बलमाहात्म्याद्बकत्वं मुनिशापतः

如是,由于对湿婆的虔敬,我得以寿命绵长;然而因与“酥毯”(Ghṛtakambala)相关的殊胜威德,又因一位牟尼的诅咒,我竟得了鹭鸟(baka)之身。

Verse 114

इंद्रद्युम्न उवाच एतदर्थं समानीतस्त्वत्सकाशं विहंगम । इंद्रद्युम्नस्य वार्तार्थं मरणे कृतनिश्चयः

因陀罗昙那说道:“鸟儿啊,正为此事你才被带到我面前——为传达关于因陀罗昙那的消息;而我已决意赴死。”

Verse 115

सा त्वया नैव विज्ञाता ममाभाग्यैर्विहंगम । सेवयिष्याम्यहं तस्मात्प्रदीप्तं हव्यवाहनम्

鸟儿啊,由于我的不幸,此事你并未知晓。因此我将投向炽燃之火——阿耆尼。

Verse 116

प्रतिज्ञातं मया पूर्वमेतन्निश्चित्य चेतसि । इंद्रद्युम्ने ह्यविज्ञाते संसेव्यः पावको मया

先前我已立下此誓,并在心中坚定决断:若因陀罗昙那仍不得人知,我便必须投向火焰。

Verse 117

तस्माद्देहि ममादेशं मार्कंडेयसमन्वितः । प्रविशामि यथा वह्निं भ्रष्टकीर्तिरहं बक

因此,请赐我许可,并与摩尔坎德耶同往,使我得以入于火中——我这名声已坠的鹭鸟(baka)。

Verse 118

मार्कंडेय उवाच । वेत्सि चान्यं नरं कञ्चिद्वयसा चात्मनोऽधिकम् । पृच्छामि येन तं गत्वा कृते ह्यस्य महात्मनः

马尔坎德耶说道:“你可知道还有别的男子,年岁比你更长吗?我问此事,是为前往见他,好为这位大心者作些应作之事。”

Verse 119

श्रद्धया परया युक्तः संप्राप्तोऽयं मया सह । तत्कथं त्यजति प्राणान्सहाये मयि संस्थिते

他具足至上的信心,与我同来。既然我这同伴就在身旁,他又怎能舍弃生命之息呢?

Verse 120

अपरं च क्षमं वाक्यं यत्त्वां वच्मि विहंगम । अयं दुःखेन संयुक्तः साधयिष्यति पावकम् । अहमेनमनुद्धृत्य कस्माद्गच्छामि चाश्रमम्

“鸟儿啊,请再容我说一句。此人被忧苦所缠,正要投身于火。我若不先救出他,怎能回到我的林居道院?”

Verse 121

सूत उवाच । तयोस्तं निश्चयं ज्ञात्वा बकः परमदुर्मना । सुचिरं चिंतयामास कथं स्यादेतयोः सुखम्

苏多说道:“得知他们二人的决意后,鸟巴迦极其忧伤。它沉思良久:‘如何才能使这二人得安乐?’”

Verse 122

ततो राजा मुनिश्चैव दारूण्याहृत्य पावकम् । प्रवेष्टुकामौ तौ दृष्ट्वा बको वचनमब्रवीत्

于是国王与牟尼拾聚柴薪,备起火焰。见二人皆欲入火,鸟巴迦便开口说道。

Verse 123

मम वाक्यं कुरु प्राज्ञ यदि जीवितुमिच्छसि । ज्ञातः सोऽद्य मया व्यक्तमिन्द्रद्युम्नं नराधिपम्

智者啊,若欲保全性命,当依我之言而行。今日我已分明认出他——人中王、因陀罗迦摩那王(Indradyumna)。

Verse 124

यो ज्ञास्यति मम ज्येष्ठः सर्वशास्त्रविचक्षणः । तत्त्वमेनं समादाय मरणे कृतनिश्चयम्

我之长兄,通达诸经论,必能洞知其真实。纵然此人已决意赴死,也当携他同往。

Verse 125

निश्वसन्तं यथा नागं बाष्पव्याकुललोचनम् । समागच्छ मया सार्धं कैलासं पर्वतं प्रति

其人长叹如龙蛇(那伽),泪雾盈眸。来吧,与我同往迦罗娑山(Kailāsa)。

Verse 126

यत्रास्ति दयितो मह्यमुलूकश्चिरजीवभाक् । स नूनं ज्ञास्यते तं हि मा वृथा मरणं कृथाः

彼处有我所爱之伴侣乌卢迦(Ulūka),享长寿者;他必能识此人并知其真相。莫要徒然投向死亡。

Verse 127

ततोऽसौ तेन संयुक्तो बकेन सुमहात्मना । मार्कंडेयेन संप्राप्तः कैलासं पर्वतोत्तमम्

于是他与大心者婆迦(Baka)及马尔坎德耶(Mārkaṇḍeya)同行,抵达迦罗娑山——诸山之最胜者。

Verse 128

सोऽपि दृष्ट्वा बकं प्राप्तं मित्रं परमसंमतम् । समागच्छदसौ हृष्टः स्वागतेनाभ्यनन्दयत्

他也看见婆迦前来——自己最敬重的挚友——便欢喜上前,以问候之辞迎接他。

Verse 129

अथ तं चैव विश्रान्तं समालिङ्ग्य मुहुर्मुहुः । प्राकारवर्णनामासौ वाक्यमेतदुवाच ह

随后,待他歇息之后,那位名为“普罗迦罗伐尔那”的人一次又一次拥抱他,并说道如下之言。

Verse 130

स्वागतं ते द्विजश्रेष्ठ भूप सुस्वागतं च ते । सख्येऽद्य यच्च ते कार्यं वदागमनकारणम्

欢迎你,噢最胜的二生者;也欢迎你,噢国王。今日以友相待,请告知你所办之事,以及你来此的缘由。

Verse 131

कावेतौ पुरुषौ प्राप्तौ त्वया सार्धं ममांतिकम् । दिव्यरूपौ महाभागौ तेजसा परिवारितौ

这两位随你来到我近前的人是谁——形貌如天神,福德殊胜,周身为光辉所环绕?

Verse 132

बक उवाच । एष मार्कंडसंज्ञोऽत्र प्रसिद्धो भुवनत्रये । महेश्वरप्रसादेन संसिद्धिं परमां गतः । द्वितीयोऽसौ सुहृच्चास्य कश्चिन्नो वेद्मि तत्त्वतः । मार्कंडेन समायातः सुहृदा व ममांतिकम्

婆迦说道:“此人名为摩罗迦ṇḍa,名闻三界。蒙大自在天(Maheśvara)之恩,他已证得至上成就。第二位是他的挚友——某一人;其实我并不真知其本质。他随摩罗迦ṇḍa同来我处,作为同伴与朋友。”

Verse 135

यदि जानासि तं भूपमिन्द्रद्युम्नं महामते । तत्त्वं कीर्तय येनासौ मरणाद्विनिवर्तते

噢,大慧者,若你认识那位因陀罗迦昙那王,请宣说真实之理,使他得以从死亡中回转。

Verse 136

चिरायुस्त्वं मया ज्ञातो ह्यतः प्राप्तोऽस्मि तेंऽतिकम्

我已知你寿命绵长,因此我来到你面前。

Verse 137

उलूक उवाच । अष्टाविंशत्प्रमाणेन कल्पा जातस्य मे स्थिताः । न दृष्टो न श्रुतः कश्चिदिंद्रद्युम्नो महीपतिः

乌卢迦说道:“按数计算,我的存在已历二十八劫(kalpa)。然而,我既未见过,也未听闻有名为因陀罗迦昙那的国王。”

Verse 138

इंद्रद्युम्न उवाच । तव कस्मादुलूकत्वं शीघ्रं तन्मे प्रकीर्तय । एतन्मे कौतुकं भावि यत्ते ह्यायुरनन्तकम् । उलूकत्वं च संजातं रौद्रं लोकविगर्हितम्

因陀罗迦昙那说道:“你为何成了猫头鹰?速速告知我。此事令我惊异——你的寿命确如无尽,然而猫头鹰之身却生起,凶怖而为世人所讥嫌。”

Verse 139

उलूक उवाच । शृणु तेऽहं प्रवक्ष्यामि दीर्घायुर्मे यथा स्थितम् । महेश्वरप्रसादेन बिल्वपत्रार्चनान्मया । उलूकत्वं मया प्राप्तं भृगोः शापान्महात्मनः

乌卢迦说道:“且听我说,我将为你解释我长寿如何得来。蒙大自在天(Maheśvara)之恩,我以毕罗叶(bilva)供奉礼拜,遂得长寿;而猫头鹰之身,则因大魂婆利古(Bhṛgu)仙人的诅咒而受。”

Verse 140

अहमासं पुरा विप्रः सर्वविद्यासु पारगः । चमत्कारपुरे श्रेष्ठे नाम्ना ख्यातस्तु घंटकः । ब्रह्मचारी दमोपेतो हरपूजार्चने रतः

往昔我曾为婆罗门,通达诸学。于名为“奇妙城”(Cāmatkārapura)的胜妙之都,我以“伽ṇṭaka”之名闻名——守梵行,具自制与戒律,恒常奉事礼拜哈罗(湿婆)。

Verse 141

अखंडितैर्बिल्वपत्रैरग्रजातैस्त्रिपत्रकैः । त्रिकालं पूजितः शंभुर्लक्षमात्रैः सदा मया

我以完好无缺的毕尔瓦叶——新生嫩叶、三叶成束——恒常一日三时礼供商婆(Śambhu),所献常至一“拉克”(十万)之数。

Verse 142

ततो वर्षसह्स्रांते तुष्टो मे भगवान्हरः । प्रोवाच दर्शनं गत्वा मेघगंभीरया गिरा

其后千年既满,蒙福的主哈罗因我而欢喜,于观见中显现,以如雷云般深沉的声音开口说道。

Verse 143

अहं तुष्टोऽस्मि ते वत्स वरं वरय सुव्रत । अखंडितैर्बिल्वपत्रैस्त्रिकाले यत्त्वयार्चितः

“孩子啊,我已悦纳于你。持戒坚固者,择取一愿吧——因为你以完好的毕尔瓦叶,一日三时供奉我。”

Verse 144

बिल्वस्य प्रसवाग्रेण त्रिपत्रेण प्रजायते । एकेनापि यथातुष्टिस्तथान्येषां न कोटिभिः

由毕尔瓦的嫩芽生出三叶之供;仅以其中一叶,湿婆亦得欢喜——而以他物供养纵至亿万,亦难得同等悦纳。

Verse 145

पुष्पाणामपि भद्रं ते सुगंधानामपि ध्रुवम् । सखे मया प्रणम्योच्चैः स प्रोक्तः शशिशेखरः

即使在诸花之中,你的亦最为吉祥;即使在芬芳供品之中,你的亦最为至上。友人啊——我恭敬顶礼,遂宣说:那位月冠之主,即是湿婆。

Verse 146

यदि तुष्टोसि मे देव यदि देयो वरो मम । तन्मां कुरु जगन्नाथ जरामरणवर्जितम्

“若主垂悦于我,若当赐我一愿——则啊,世间之主(Jagannātha),愿使我远离衰老与死亡。”

Verse 147

स तथेति प्रतिज्ञाय महादेवो महेश्वरः । कैलासं प्रति देवेशः क्षणाच्चादर्शनं गतः

大天摩诃提婆、至上自在的摩诃伊湿伐罗应诺道:“如是。”诸神之主遂转向凯拉萨;顷刻之间,便从视野中隐没。

Verse 148

ततोहं परितुष्टोथ वरं प्राप्य महेश्वरात् । कृतकृत्यमिवात्मानं चिंतयामि प्रहर्षितः

于是我也心满意足;既从摩诃伊湿伐罗得此恩赐,便自念如同已尽人生所当尽之事,欢喜踊跃。

Verse 149

एतस्मिन्नेव काले तु भार्गवो मुनिसत्तमः । कुशलः सर्वशास्त्रेषु वेदवेदांग पारगः

正当其时,最胜牟尼婆尔伽瓦在彼处——通达一切论典,精熟吠陀及其诸支(Vedāṅga)。

Verse 150

तस्य भार्याऽभवत्साध्वी नाम्ना ख्याता सुदर्शना । प्राणेभ्योऽपि प्रिया तस्य गालवस्य मुनेः सुता

他的妻子是一位贞善的淑女,名闻为“苏达尔沙那”(Sudarśanā),于他而言比生命更可爱;她乃圣者迦罗婆(Gālava)之女。

Verse 151

तस्य कन्या समभवद्रूपेणाप्रतिमा भुवि । सा मया सहसा दृष्टा क्रीडमाना यथेच्छया

他有一位女儿,姿容在大地上无与伦比。我忽然看见她,随心所欲、自在嬉戏。

Verse 152

मध्यक्षामा सुकेशी च बिंबोष्ठी दीर्घलोचना । तामहं वीक्षयित्वा तु कामदेववशं गतः

她腰肢纤细,秀发柔美,唇如频婆果(bimba)般红润,双眸修长。我一望见她,便落入伽摩(Kāma)——欲爱之神——的支配。

Verse 153

ततः पृष्टा मया कस्य कन्येयं चारुलोचना । विभक्तसर्वावयवा देवकन्येव राजते

于是我问道:“这位明眸的少女是谁的女儿?”她肢体匀称,光彩照人,宛如天界仙女。

Verse 154

सखीभिः कीर्तिता मह्यं भार्गवस्य मुनेः सुता । एषा चाद्यापि कन्यात्वे वर्तते चारुहासिनी

她的女伴告诉我:“她是婆尔伽婆(Bhārgava)圣者之女。直到如今仍守处女之身。”——那位含笑温柔、笑靥可亲的少女。

Verse 155

ततोऽहं भार्गवं गत्वा विनयेन समन्वितः । ययाचे कन्यकां ता च कृतांजलिपुटः स्थितः

随后我怀着谦卑前往婆伽婆(Bhārgava)处,恳求那位少女;我合掌恭立于前,以示敬礼。

Verse 156

सवर्णं मां परिज्ञाय सोऽपि भार्गवनंदनः । दत्तवांस्तां महाभाग विरूपस्यापि कन्यकाम्

他认出我在身份上相称;然而那位婆伽婆之子——噢有福者——竟仍将那少女许配出去,甚至给了维鲁帕(Virūpa)。

Verse 158

सुलज्जा साऽतिदुःखार्ता पश्यांब जनकेन च । विरूपाय प्रदत्तास्मि नाहं जीवितुमुत्सहे

她羞惭至极、悲苦难当,说道:“母亲啊,请看——我的父亲竟把我许给维鲁帕。我不愿再活下去。”

Verse 159

विषं वा भक्षयिष्यामि प्रवेक्ष्यामि हुताशनम् । तस्यास्तद्वचनं श्रुत्वा निषिद्धः स द्विजस्तया

“我宁可吞毒,或投身烈火。”听到她这番话,那位婆罗门便被她的抗议所制止,不敢再行。

Verse 160

कस्मान्नाथ प्रदत्तासौ विरूपाय त्वया विभो । कन्यकेयं सुरूपाढ्या सर्वलक्षणसंयुता

“为何啊,主宰大德者,你竟把她许给维鲁帕?这位少女容貌端丽,具足一切吉祥之相。”

Verse 161

एतच्छ्रुत्वा तु वचनं भार्गवो मुनिसत्तमः । ततस्तां गर्हयित्वासौ धिङ्नारी पुरुषायते

听闻此言,圣人中最尊贵的婆尔伽婆斥责道:“咄!女子竟如男子般行事。”

Verse 162

अनेन प्रार्थिता कन्या मया चास्मै प्रदीयते । तत्किं निषेधयसि मां दीयमानां सुतामिमाम्

“此人求取这少女,我便将女儿许配给他。既然女儿正被许配,你为何还要阻止我?”

Verse 163

इत्युक्त्वा स प्रसुष्वाप पत्न्याथ कन्यया समम्

说完这番话,他便与妻子和少女一同睡去了。

Verse 164

ततोऽर्द्धरात्रे चागत्य मया सुप्ता च भार्गवी । हृत्वा स्वभवने नीता निशि सुप्ते जने तदा

随后,我在午夜到来,婆尔伽维正在熟睡。趁着夜深人静,我将她劫走,带回了自己的住所。

Verse 165

नियुक्ता कामधर्मेण ह्यनिच्छंती बलान्मया । विप्रः प्रातर्जजागार पिता तस्यास्ततः परम्

虽非自愿,她仍被我强行施以情欲之事。此后,她的父亲——那位婆罗门——在清晨醒来。

Verse 166

क्वासौ सा दुहिता केन हृता नष्टा मदीयिका । अथासौ वीक्षितुं बाह्ये बभ्राम स्ववनांतिकम्

“我的女儿在哪里——是谁把她带走,使她从我身边失落?”于是他走到外面寻觅,在自家林苑近旁徘徊。

Verse 167

पदसंहतिमार्गेण मुनिभिर्बहुभिर्वृतः । तेन दृष्टाऽथ सा कन्या कृतकौतुकमंगला

沿着行人踏出的熟路,在众多仙贤围绕之中,他看见那少女——佩戴吉祥的婚线,并具备婚礼的瑞仪。

Verse 168

रुदंती सस्वनं तत्र लज्जमाना ह्यधोमुखी । ततः कोपपरीतात्मा मां प्रोवाच स भार्गवः

她在那里放声哭泣,羞惭而低首。随后婆罗伽婆心为忿怒所覆,对我说道。

Verse 169

निशाचरस्य धर्मेण यस्मादूढा सुता मम । निशाचरो भवानस्तु कर्मणानेन सांप्रतम्

“既然你以夜行者之法夺走我的女儿,那么就凭此行——就在此刻——你自己也成为尼沙遮罗(夜行者)吧!”

Verse 170

घंटक उवाच । निर्दोषं मां द्विजश्रेष्ठ कस्मात्त्वं शपसि द्रुतम् । त्वयैषा मे स्वयं दत्ता तेन रात्रौ हृता मया

伽ṇṭaka说道:“噢,婆罗门中最尊者,我本无过,你为何匆匆咒我?此女乃你亲自甘愿许与我,因此我才在夜间带走她。”

Verse 171

यो दत्वा कन्यकां पूर्वं पश्चाद्यच्छेन्न दुर्मतिः । स याति नरकं घोरं यावदाभूतसंप्लवम्

凡先将少女许与他人,后又欲夺回者——此等心怀恶念之人,必堕可怖地狱,直至众生坏灭之时。

Verse 172

अथासौ चिंतयामास सत्यमेतेन जल्पितम् । पश्चात्तापसमोपेतो वाक्यमेतदुवाच ह

于是他沉思道:“他所说的确是真实。”心怀悔恨,他便说出了这些话。

Verse 173

सत्यमेतत्त्वया प्रोक्तं न मे वचनमन्यथा । उलूकरूपसंयुक्तो भविष्यसि न संशयः

“你所说确为真实;我的话亦不会有别。毫无疑问,你将具足猫头鹰之形。”

Verse 174

उत्पत्स्यते यदा चात्र भर्तृयज्ञो महामुनिः । तस्योपदेशमासाद्य भूयः प्राप्स्यसि स्वां तनुम्

“并且当此地大牟尼婆尔特利耶阇那(Bhartṛyajña)降生之时,你若前往亲近并领受其教诲,便将再次复得本来之身。”

Verse 175

ततः कौशिकरूपं तु पश्याम्यात्मानमेव च । तथापि न स्मृतिर्नष्टा मम या पूर्वसंभवा

“随后我确实见到自己具作考希迦(Kauśika)之形;然而即便如此,我那源自前生的记忆并未消失。”

Verse 176

अथ या तत्सुता चोढा मया तस्मिन्गिरौ तदा । सापि मां संनिरीक्ष्याथ तद्रूपं दुःखसंयुता । प्रविष्टा हव्यवाहं सा विधवात्वमनिच्छती

随后,那人的女儿——我当时在那座山上娶为妻者——后来见我变成那般异相,便满怀悲痛。不愿承受寡居之苦,她投入了圣火之中。

Verse 177

एवं मे कौशिकत्वं हि संजातं तु महाद्युते । भार्गवस्य तु शापेन कन्यार्थे यत्तवोदितम्

大放光辉者啊,如此,我成为“考希迦”之身的境况确已发生——皆因婆伽婆(Bhārgava)的诅咒——正如你先前就那少女之事所言。

Verse 178

अखंडबिल्वपत्रेण पूजितो यन्महेश्वरः । चिरायुस्तेनसंजातं सत्यमेतन्मयोदितम्

由于以一片完整无缺的毕尔瓦叶供奉礼拜大自在天(Maheśvara),因此由此生起长寿。此言真实——我如是宣说。

Verse 179

सत्यं कथय यत्कृत्यं गृहायातस्य किं तव । प्रकरोमि महाभाग यद्यपि स्यात्सुदुर्लभम्

如实告知:你既已归家,如今还有何事当办?福德之人啊,我必为你成就,即便那事极难得亦然。

Verse 180

इन्द्रद्युम्न उवाच । इन्द्रद्युम्नस्य ज्ञानाय प्राप्तोऽहं यत्तवांतिकम् । नाडीजंघेन चानीतो मरणे कृतनिश्चयः

因陀罗迦昙那(Indradyumna)说道:“我来到你近前,是为使因陀罗迦昙那得以被真正识知。那提姜伽(Nāḍījaṅgha)带我而来,我已决意赴死。”

Verse 181

यदि नो ज्ञास्यति भवांस्तं कीर्त्या च कुलेन च । प्रविशामि ततो नूनं प्रदीप्तं हव्यवाहनम्

“若你不能凭其名望与族裔认出他,那么我必定投身于熊熊烈火之中。”

Verse 182

नो चेत्कीर्तय मे कञ्चिदन्यं तु चिरजीविनम् । पृच्छामि तेन तं गत्वा येन वेत्ति न वा च सः

“不然,就告诉我另一位长寿者。我将前往问他——他是否认识那人。”

Verse 183

बक उवाच । युक्तमुक्तमनेनाद्य तत्कुरुष्व वदास्य भोः । यदि जानासि कंचित्वमात्मनश्चिरजीविनम्

婆迦说道:“他今日所言确实得当。故当如此行,并告诉我,先生——为你自身之故,你在此世间可知有长寿者(cirajīvin)吗?”

Verse 184

नो चेदहमपि क्षिप्रं प्रविशामि हुताशनम् । मार्कंडेनापि सहितः सांप्रतं तव पश्यतः

“不然,我也将立刻入火——甚至与摩尔甘陀同往——就在此刻,当着你的面。”

Verse 185

एवम् ज्ञात्वा महाभाग चिन्तयस्व चिरंतनम् । कंचिद्भूमितलेऽन्यत्र यतस्त्वं चिरजीवधृक्

“既知如此,贤德之人啊,当深思熟虑,作长远之计。于大地他处寻一人——因为你是护持长寿之者。”

Verse 186

आशया परया प्राप्तस्तवाहं किल मंदिरे । पुमानेष विशेषेण मार्कंडेयः प्रियो मम

我怀着至高的希冀来到你的居所。此人——尤其是马尔坎德耶——为我所钟爱。

Verse 187

संत्यत्र पर्वतश्रेष्ठाः शतशोऽथ सहस्रशः । येषु सन्ति महाभागास्तापसाश्चिरजीविनः । नान्यथा जीवितं चास्य कथंचित्संभविष्यति

此地有无数上妙群山——成百上千——其上住着福德具足、寿命长久的苦行仙者。若非如此,他的性命将无从保全。

Verse 188

इंद्रद्युम्नस्य राजर्षेर्हितं परमकं भवेत् । तथावयोर्द्वयोश्चापि तस्माच्चिंतय सत्वरम्

此举将为王圣因陀罗迦昙那带来至上的利益,也同样惠及你我二人。因此请速速思量,尽快决断。

Verse 189

तस्य तं निश्चयं ज्ञात्वा मरणार्थं महीपतेः । स उलूकः कृपां गत्वा ततो वचनमब्रवीत्

得知国王已下定决心、意欲赴死后,猫头鹰乌卢迦心生悲悯,遂开口说道如下言辞。

Verse 190

यद्येवं तु महाभाग मर्तुकामोऽसि सांप्रतम् । तदागच्छ मया सार्धं गन्धमादनपर्वतम्

若果真如此,尊贵之人啊,若你此刻确欲求死——便随我前往甘达摩达那山。

Verse 191

तत्र संतिष्ठते गृध्रः स च मे परमः सुहृत् । चिरंतनस्तथा सम्यक्स ते ज्ञास्यति तं नृपम् । कथयिष्यत्यसंदिग्धं मम वाक्यादसंशयम्

彼处有一鹫鸟栖止,乃我至亲至友——古老而明辨。它将为你如实识认那位国王,并依我之言,无疑无惑地陈述其事。

Verse 192

तस्य तद्वचनं श्रुत्वा मार्कंडेयादिभिस्त्रिभिः । प्रोक्तः सर्वैर्महाभाग मा त्वं प्रविश पावकम्

闻其言后,以摩尔坎德耶为首的三人,连同众人,对那位贤贵者说道:“切莫入火。”

Verse 193

वयं यास्यामहे सर्वे त्वया सार्धं च तत्र हि । कदाचित्सोऽपि जानाति इंद्रद्युम्नं महीपतिम्

“我们众人都将与你同往彼处。或许那位也识得因陀罗迦陀优摩那王——大地之主。”

Verse 194

तेषां तद्वचनं श्रुत्वा आशया परया युतः । स राजा सह तैः सर्वैः प्रययौ गंधमादनम्

王闻其言,心怀至上希望,遂与众人一同启程,前往甘达摩陀那。

Verse 195

गृध्रराजोऽपि तान्दृष्ट्वा सर्वानेव कृतांजलिः । उलूकं पुरतो दृष्ट्वा प्रहृष्टः सन्मुखो ययौ

鹫王见众人皆至,合掌致敬;又见乌卢迦在前,心生欢喜,迎面趋前相接。

Verse 196

ततोऽब्रवीत्प्रहृष्टात्मा स्वागतं ते द्विजोत्तम । चिरकालात्प्रदृष्टोऽसि क एतेऽन्येऽत्र ये स्थिताः

随后他心中欢喜,说道:“欢迎你,噢最胜的两次生者!久别之后又得相见。此处站着的这些其他人是谁?”

Verse 197

उलूक उवाच । एष मे परमं मित्रं नाडीजंघो बकः स्मृतः । एतस्यापि तु मार्कण्डः संस्थितः परमः सुहृत्

乌卢迦说道:“这是我至亲的朋友,名为那地姜伽(Nāḍījaṅgha)的鹤。而对他而言,摩尔坎达(Mārkaṇḍa)亦是最亲密的善友。”

Verse 198

असौ त्रैलोक्यविख्यातः सप्तकल्पस्मरो भुवि । एतस्यापि सुहृत्कश्चिन्नैनं जानामि सत्वरम्

“他名闻三界,在人间历经七劫仍被追忆。然而至于他自己的朋友——确有其人——我一时却不知是谁。”

Verse 199

म्रियमाणो मया ह्येष समानी तस्तवांतिकम् । अयं जीवति विज्ञात इंद्रद्युम्ने नरेश्वरे । नो चेत्प्रविशति क्षिप्रं प्रदीप्तं हव्यवाहनम्

“此人临死之际,是我把他带到你面前。已查明:唯有在因陀罗迦昙那王(Indradyumna)仍为人所知之时,他才能存活;否则,他将迅速投入炽燃之火。”

Verse 200

स त्वं जानासि चेद्ब्रूहि इन्द्रद्युम्नं महीपतिम् । चिरंतनो मयापि त्वं तेन प्रष्टुं समागतः

“因此,若你知晓,请告诉我那位大地之王因陀罗迦昙那(Indradyumna)。你年岁久远;我也正是为询问他而来。”

Verse 201

गृध्र उवाच । इन्द्रद्युम्नेति विख्यातं राजानं न स्मराम्यहम् । न दृष्टो न श्रुतश्चापि इन्द्रद्युम्नो महीपतिः

秃鹫说道:“我不记得有哪位国王以‘因陀罗迦摩那(Indradyumna)’之名闻名。那位大地之主因陀罗迦摩那,我既未曾见过,也未曾听闻。”

Verse 202

तस्य तद्वचनं श्रुत्वा सोऽपि राजा सुदुर्मनाः । मनसा चिन्तयामास मरणे कृतनिश्चयः

听到他的话,那位国王也极其沮丧;心中反复思量,竟已决意赴死。

Verse 203

ततस्तु कौतुकाविष्टस्तं पप्रच्छ द्विजोत्तमम् । कर्मणा केन संप्राप्तमायुष्यं चेदृशं वद

随后,他因好奇心而起,便问那位最尊贵的两次出生者:“凭借何种业行,你得到了如此寿命?请告诉我。”

Verse 204

ततः संभावयिष्यामि श्रुत्वा तेऽहं विभावसुम्

“那么,待我听你说完,我将如法恭敬、尊崇毗婆婆苏(Vibhāvasu)。”