Adhyaya 264
Nagara KhandaTirtha MahatmyaAdhyaya 264

Adhyaya 264

本章以多层次的神学叙事,将神话战记与趋向解脱的教诲融为一体。开篇由梵天(Brahmā)描绘少年室建陀/迦尔蒂凯亚(Skanda/Kārttikeya)在雪山神女帕尔瓦蒂(Pārvatī)与湿婆(Śiva)身旁的神圣嬉戏(līlā),并以恒河(Gaṅgā)河岸为意象,彰显神祇与圣地景观的亲密相应。诸天因塔拉卡(Tāraka)受苦,向商羯罗(Śaṅkara)祈请;室建陀被任为统帅(senāpati),伴随天界赞颂、乐器齐鸣与宇宙助力,如火神阿耆尼(Agni)所赐之神力(śakti)。战事转至名为塔姆拉瓦蒂(Tāmravatī)之地,室建陀吹响海螺号令,召集敌我两军;天神与阿修罗展开大规模交战,描写溃败与毁灭。终而塔拉卡被诛灭,胜利祭仪与庆典随之举行,帕尔瓦蒂拥抱室建陀。 随后话题转向教法:湿婆提出婚姻(pāṇigrahaṇa)之议,室建陀以“智与离欲”(jñāna-vairāgya)的立场作答,宣示不执著、普遍之见,并指出真知稀有且须护持。他说当证悟遍一切处的梵(Brahman)时,瑜伽行者之作为自然止息;并对比易染执著之心与平等安住之心,强调知识是决定性的、亦最难得的成就。室建陀遂往鸠槃遮山(Krauñcaparvata)修苦行,持诵咒语(十二音节种子咒),摄伏诸根,超越神通(siddhi)所致之扰动。章末湿婆以慰藉之语教导帕尔瓦蒂,并宣说四月斋期(cāturmāsya)之功德能灭罪;苏多(Sūta)则以请众继续聆听作结,保存《往世书》对话传承的框架。

Shlokas

Verse 1

ब्रह्मोवाच । कार्तिकेयश्च पार्वत्याः प्राणेभ्यश्चातिवल्लभः । संक्रीडति समीपस्थो नानाचेष्टाभिरुद्यतः

梵天说道:迦尔蒂凯亚——为帕尔瓦蒂所爱,胜过她自身的生命气息——就在近旁嬉戏,以种种姿态与活动而灵动欢跃。

Verse 2

रक्तकांतिर्महातेजाः षण्मुखोऽद्भुत विक्रमः । क्वचिद्गायति चात्यर्थं क्वचिन्नृत्यति स्वेच्छया

他光辉赤红、威光炽盛,六面神容,神勇奇绝;时而欢喜高歌,时而随心自在起舞。

Verse 3

मातरं पितरं दृष्ट्वा विनयावनतः क्वचित् । क्वचिच्च गंगापुलिने सिकतालेपनाकृतिः

有时见到母亲与父亲,他便谦恭俯首致敬;有时在阇诃那毗(恒河)岸边,他以沙涂抹,捏塑成形而嬉戏。

Verse 4

गणैः सह विचिन्वानो विविधान्वनभूरुहान् । एवं प्रक्रीडितस्तस्य दिवसाः पंच जज्ञिरे

他与诸伽那随从同行,徜徉林间,观览森林中种种树木草木。如此嬉游之间,五日已然过去。

Verse 5

ततो देवा महेन्द्राद्यास्तारकत्रासविद्रुताः । स्तुवन्तः शंकरं सर्वे तारकस्य जिघृक्षया

于是诸天——以大因陀罗为首——因惧塔罗迦而奔逃;众皆赞颂商羯罗,渴望擒拿并降伏塔罗迦。

Verse 6

चक्रुः कुमारं सेनान्यं जाह्नव्यां स्वगणैः सुराः । सस्वनुर्देववाद्यानि पुष्पवर्षं पपात ह

在阇诃那毗(恒河)之上,诸天连同各自眷属,立鸠摩罗为天军统帅。天界乐器齐鸣,花雨纷纷而下。

Verse 7

वह्निस्तु स्वां ददौ शक्तिं हिमवान्वाहनं ददौ । सर्वदेवसमुद्भूतगणकोटिसमावृतः

火神阿耆尼赐下自身的神枪之力(śakti),雪山王喜马梵赐予坐骑。由诸天所生的亿万伽那环绕,他列阵而立。

Verse 8

प्रणम्य मुनिसंघेभ्यः प्रययौ रिपुविग्रहे । ताम्रवत्यां नगर्यां च शंखं दध्मौ प्रतापवान्

他礼敬诸牟尼众会,遂启程与敌交战。于铜河城(Tāmravatī)中,那威德者吹响了法螺。

Verse 9

ततस्तारकसैन्यस्य दैत्यदानवकोटयः । समाजग्मुस्तस्य पुराच्छंखनादभयातुराः

于是,从那城中,陀罗迦军中的亿万底提耶与达那婆聚集而来,因法螺之声而惊惧不安。

Verse 10

स्ववाहनसमारूढाः संयता बलदर्पिताः । देवाः सर्वेऽपि युयुधुः स्कन्दतेजोपबृंहिताः

诸天各乘自家神乘,严整自持,恃力而奋;众神皆战,因斯坎达的光辉而更得增盛。

Verse 11

तदा दानवसैन्यानि निजघान च सर्वशः । विष्णुचक्रेण ते छिन्नाः पेतुरुर्व्यां सहस्रशः

当时,达那婆诸军四面被击溃;被毗湿奴之轮(cakra)斩断,成千上万倒落大地。

Verse 12

ततो भग्नाश्च शतशो दानवा निहतास्तदा । नद्यः शोणितसंभूता जाता बहुविधामुने

于是,成百的达那婆被击溃并被诛灭。噢牟尼啊,诸般形态的河流由血而生,纷然涌现。

Verse 13

तद्भग्नं दानवबलं दृष्ट्वा स युयुधे रणे । बभंज सद्यो देवेशो बाणजालैरनेकधा

见魔军已然溃散,他仍在战阵中鏖战。诸天之主立刻以万般箭网,将其尽数摧折。

Verse 14

शक्तिनायुध्य गंगिन्याश्चिक्षेप कृष्णप्रेरिताः । सरथं च सयंतारं चक्रे तं भस्मसात्क्षणात्

在黑天的催策下,神圣之众掷出沙克提与诸般兵器;顷刻之间,连同战车与御者在内,将他化为灰烬。

Verse 15

शेषाः पातालमगमन्हतं दृष्ट्वाऽथ तारकम् । ततो देवगणाः सर्वे शसंसुस्तस्य विक्रमम्

见塔罗迦已被诛灭,余敌遁入帕塔拉。于是诸天众神齐声称颂他的英雄威力。

Verse 16

देवदुन्दुभयो नेदुः पुष्पवृष्टिस्तथाऽभवत् । ते लब्धविजयाः सर्वे महेश्वरपुरोगमाः

天鼓齐鸣,花雨纷纷而下。众神皆得胜而欢喜——由大自在天(摩醯首罗)为先导。

Verse 17

सिषिचुः सर्वदेवानां सेनापत्ये षडाननम् । ततः स्कंदं समालिंग्य पार्वती हर्षगद्गदा

众天神为六面圣者行灌顶礼,立其为诸神军旅之统帅。随后,帕尔瓦蒂因欢喜而声音颤动,拥抱了斯坎达。

Verse 18

मांगल्यानि तदा चक्रे स्वसखीभिः समावृता । एवं च तारकं हत्वा सप्तमेऽहनि बालकः

她被自己的侍伴环绕,当时举行了诸般吉祥仪轨。如此,诛灭塔拉卡之后,神圣之童于第七日圆满成就。

Verse 19

मंदराचलमासाद्य पितरौ संप्रहर्षयन् । उवाच सकलं स्कन्दः परमानंदनिर्भरः

抵达曼陀罗山,使双亲欢悦之时,斯坎达充溢无上喜乐,将一切详尽宣说。

Verse 20

काले दारक्रियां तस्य चिन्तयामास शंकरः । स उवाच प्रसन्नात्मा गांगेयममितद्युतिम्

时机成熟之际,商羯罗思量其子之婚礼仪轨;他心怀澄明,向那恒河所生、光辉无量者开口。

Verse 21

प्राप्तः कालस्तव विभो पाणिग्रहणसंमतः । कुरु दारान्समासाद्य धर्मस्ते पुंससंमतः

“噢,大主啊,你当受纳执手成婚之礼的时辰已至。请迎娶配偶,建立家室——此乃与你尊位相称、为正法所许可之道。”

Verse 23

क्रीडस्व विविधैर्भोगैर्विमानैः सह कामिकैः । तच्छ्रुत्वा भगवान्स्कन्दः पितरं वाक्यमब्रवीत् । अहमेव हि सर्वत्र दृश्यः सर्वगणेषु च । दृश्यादृश्यपदार्थेषु किं गृह्णामि त्यजामि किम्

“当与种种妙乐同游,乘天界飞车(vimāna),偕所爱眷属而嬉戏。”闻此,圣主斯坎达答父曰:“唯我遍在一切处——于诸众中亦显现。于可见与不可见诸法中,我还有何可取?又有何可舍?”

Verse 24

याः स्त्रियः सकला विश्वे पार्वत्या ताः समा हि मे । नराः सर्वेऽपि देवेश भवद्वत्तान्विलोकये

“世间一切女子,于我皆与帕尔瓦蒂无二;一切男子亦然,噢诸天之主,我皆观之与汝平等。”

Verse 25

त्वं गुरुर्मां च रक्षस्व पुनर्नरकमज्जनात् । येन ज्ञातमिदं ज्ञानं त्वत्प्रसादादखंडितम्

“汝为我之上师——愿再护我,莫使我沉沦地狱。凭汝恩德,我已悟得此不破不缺之智;愿其不致失落。”

Verse 26

पुनरेव महाघोरसंसाराब्धौ निमज्जये । दीपहस्तो यथा वस्तु दृष्ट्वा तत्करणं त्यजेत्

愿我不再沉没于广大而可怖的轮回之海——如持灯之人,一旦见到所求之物,便止息寻觅之劳。

Verse 27

तथा ज्ञानमधिप्राप्य योगी त्यजति संसृतिम् । ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञ परमेश्वर

如是,瑜伽行者既圆满得智,便舍离生死流转。既证知遍一切处之梵(Brahman)——噢至上自在、全知之主——(即得解脱)。

Verse 28

निवर्त्तंते क्रियाः सर्वा यस्य तं योगिनं विदुः । विषये लुब्धचित्तानां वनेऽपि जायते रतिः

一切强迫之行在其内止息者,人们称之为瑜伽行者;而贪恋诸境、心逐欲尘者,即使身在林野,执著亦会生起。

Verse 29

सर्वत्र समदृष्टीनां गेहे मुक्तिर्हि शाश्वती । ज्ञानमेव महेशान मनुष्याणां सुदुर्लभम्

对处处平等观者而言,解脱确是恒常的,即便住在家中亦然。噢,摩诃伊舍那啊,人间最为难得的,唯有真知。

Verse 30

लब्धं ज्ञानं कथमपि पंडितो नैव पातयेत् । नाहमस्मि न माता मे न पिता न च बांधवः

无论以何种方式得来,智者都不应让已得之智坠落失散。“我非(身我);亦非‘我母’,亦非‘我父’,亦无任何‘亲属’能真实界定我。”

Verse 31

ज्ञानं प्राप्य पृथक्भावमापन्नो भुवनेष्वहम् । प्राप्यं भागमिदं दैवात्प्रभावात्तव नार्हसि

既得真知,我于诸世界中已至于离别之境(与世俗身份相分)。此一分命数由宿业而来;愿凭汝威力,莫令其变异(莫使我退堕)。

Verse 32

वक्तुमेवंविधं वाक्यं मुमुक्षोर्मे न संशयः । यदाग्रहपरा देवी पुनःपुनरभाषत

我毫不怀疑,此等言辞正适合求解脱者。于是女神执志不移,反复再三地宣说。

Verse 33

तदा तौ पितरौ नत्वा गतोऽसौ क्रौञ्चपर्वतम् । तत्राश्रमे महापुण्ये चचार परमं तपः

于是他礼拜双亲之后,前往鸠兰遮山(Krauñca)。在那功德无量的圣修林中,他修行最上苦行(tapas)。

Verse 34

जजाप परमं ब्रह्म द्वादशाक्षरबीजकम् । पूर्वं ध्यानेन सर्वाणि वशीकृत्येन्द्रियाणि च

他持诵至上梵——以十二音节为种子的真言。先以禅观摄持,使一切诸根(感官)悉皆调伏。

Verse 35

ममतां संवियुज्याथ ज्ञानयोगमवाप्तवान् । सिद्धयस्तस्य निर्विघ्ना अणिमाद्या यदाऽगताः

他舍离执著与“我所”的心,证得智瑜伽(Jñāna-yoga)。于是诸悉地(siddhi),以阿尼玛(aṇimā)等为首,无碍而自至。

Verse 36

तदा तासां गणा क्रुद्धो वाक्यमेतदुवाच ह । ममापि दु्ष्टभावेन यदि यूयमुपागताः

这时,他们的首领忿怒,开口说道:“若你们也怀着恶意来近我……”

Verse 37

तदास्मत्समशांतानां नाभिभूतिं करिष्यथ । एवं ज्ञात्वा महेशोऽपि यतो ज्ञानमहोदयम्

“那样的话,你们便不能压伏如我等这般寂静者。”明了此理,摩诃伊湿伐罗(Maheśa)亦转向智慧大光明的升起。

Verse 38

मत्तोऽपि ज्ञानयोगेनस्कन्दोऽप्यधिकभावभृत् । विस्मयाविष्टहृदयः पार्वतीमनुशिष्टवान्

甚至超越于我,斯甘达以“智瑜伽”承载更深的灵性炽烈;心怀惊叹,遂教诲帕尔瓦蒂。

Verse 39

पुत्रशोकपरां चोमां शुभैर्वाक्यामृतैर्हरः । चातुर्मासस्य माहात्म्यं सर्वपापप्रणाशनम्

哈利以吉祥如甘露之语安慰因丧子而悲恸的乌玛,并宣说四月斋期(Cāturmāsya)的伟大功德——能灭尽一切罪业。

Verse 40

महेश्वरो वा मधुकैटभारिर्हृद्याश्रितो ध्यानमयोऽद्वितीयः । अभेदबुद्ध्या परमार्तिहंता रिपुः स एवातिप्रियो भवेत्ततः

无论是大自在天(Maheśvara)或诛灭摩度与凯塔婆者——安住于心、由禅观所成、无二唯一者——若以不二之智(abheda-buddhi)观之,便成摧破至上苦厄者;因此,纵是仇敌亦变得极其可亲。

Verse 41

सूत उवाच । एतद्वः कथितं विप्राश्चातुर्मास्यसमुद्भवम् । माहात्म्यं विस्तरेणैव किमन्यच्छ्रोतुमिच्छथ

苏多说道:“诸位婆罗门,我已详尽讲述由四月斋期(Cāturmāsya)所生的此等功德。你们还想听什么?”

Verse 264

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तारकासुरवधो नाम चतुःषष्ट्युत्तरद्विशततमोऽध्यायः

至此,《圣·斯甘达大往世书》之《八万一千颂集》(Ekāśītisāhasrī Saṃhitā)中,第六部《城邑篇》(Nāgara Khaṇḍa)之《哈塔凯湿瓦拉圣域功德》(Hāṭakeśvara-kṣetra Māhātmya)、《舍沙卧者传》(Śeṣaśāyī Upākhyāna)、梵天与那罗陀对话之《四月斋期功德》(Cāturmāsya Māhātmya)内,名为《诛灭塔拉卡苏罗》(Tārakāsura-vadha)的第264章圆满结束。