Adhyaya 257
Nagara KhandaTirtha MahatmyaAdhyaya 257

Adhyaya 257

第257章以神学式对话阐明“持咒资格”(mantra-adhikāra)与严谨的奉爱修持。帕尔瓦蒂请求大自在天详述十二音节圣咒的功德、正确形态、所得果报与修诵仪轨。湿婆说明依种姓与住期(varṇa/āśrama)而设的规则:二次生者诵持时须加持“唵”(praṇava oṃ);而妇女与首陀罗则以礼敬语作前导,特指“namo bhagavate vāsudevāya”,不加“唵”,并援引《往世书》与《忆念书》的裁定。又警示若违背所定次第(krama),即成过失,招致不善后果。 帕尔瓦蒂提出教义张力:她以三母音(mātrā)而礼拜,却被告知无“唵”之资格。湿婆尊崇“唵”为本初原理,梵天、毗湿奴与湿婆之观念根基皆寓于其中,但指出资格可由苦行(tapas)而得,尤以为取悦哈利而守持四月斋戒(Cāturmāsya)为要。本章进一步融汇苦行与奉爱:苦行能成就目标与德行却极艰难;苦行真正的增长以对哈利的奉爱为标志,而无奉爱的苦行则被视为衰减。忆念毗湿奴能净化言语;宣说哈利事迹(Hari-kathā)如灯破暗,能除罪障。最终帕尔瓦蒂在雪山希摩遮罗以梵行与简朴修四月苦行,于规定时刻观想哈利—商羯罗;末尾赞颂(归于伽罗婆)称她为宇宙之母、超越三德(guṇa)的本性(prakṛti),并以其苦行为本段誓愿与圣地体系中的典范。

Shlokas

Verse 1

पार्वत्युवाच । द्वादशाक्षरमाहात्म्यं मम विस्तरतो वद । यथावर्णं यत्फलं च यथा च क्रियते मया

帕尔瓦蒂说道:“请为我详尽开示十二音节真言的伟大功德——其依音节而成的正当形态、所结之果报,以及我应当如何修持。”

Verse 2

श्रीमहादेव उवाच । द्विजातीनां सहोंकारसहितो द्वादशाक्षरः । स्त्रीशूद्राणां नमस्कारपूर्वकः समुदाहृतः

圣大自在天说道:“对两次出生者(再生族),十二音节真言当与‘唵(Oṃ)’同诵;对妇女与首陀罗,则宣说应先以礼敬之辞‘南无(namo)’为首。”

Verse 3

प्रकृतीनां रामनाम संमतो वा षडक्षरः । सोऽपि प्रणवहीनः स्यात्पुराणस्मृतिनिर्णयः

对于一般之人,认可并受持被称为“罗摩圣名(Rāma-nāma)”的六音节法句;而此亦应不带“普拉纳瓦”——即不加“唵(Oṃ)”。此乃诸《往世书》与《忆念书》之定论。

Verse 4

क्रमोऽयं सर्ववर्णानां प्रकृतीनां सदैव हि । क्रमेण रहितो यस्तु करोति मनुजो जपम् । तस्य प्रकुप्यति विभुर्नरकादिप्रदायकः

诚然,此乃为一切阶层与凡众所恒常确立之次第。若有人不依此正当次第而行持念诵(japa),则主宰震怒,成为赐与地狱等诸苦果之施与者。

Verse 5

पार्वत्युवाच । मया त्रिमात्रया स्वामिन्सेव्यते जगदीश्वरः । रूपमस्य कथं जाने वचसामप्यगोचरम्

帕尔瓦蒂说道:“主啊,我以三摩怛罗(三mātrā)而奉事礼拜宇宙之主;然而祂的圣相连言语亦不可及,我又如何得知?”

Verse 6

ईश्वर उवाच प्रणवस्याधिकारो न तवास्ति वरवर्णिनि । नमो भगवते वासुदेवायेति जपः सदा

自在天说道:“美丽的女神啊,你无权持诵圣音普拉那瓦(唵)。因此,应恒常念诵:‘南无薄伽梵·婆苏提婆耶。’”

Verse 7

पार्वत्युवाच । यदि सप्रणवं दद्याद्द्वादशाक्षरचिंतनम । प्रणवे नाधिकारो मे कथं भवति धूर्जटे

帕尔瓦蒂说道:“若十二音节真言的观修须与普拉那瓦(唵)同授,而我又无资格持诵普拉那瓦,那么此法如何能适用于我呢?噢,杜尔阇蒂!”

Verse 8

ईश्वर उवाच । प्रणवः सर्वदेवानामादिरेष प्रकीर्तितः । ब्रह्मा विष्णुः शिवश्चैव वसंति दयितायुताः

自在天说道:“普拉那瓦(唵)被宣说为一切诸天的本初源头。于其中,梵天、毗湿奴与湿婆亦同住,并与其所爱之配偶俱在。”

Verse 9

तत्र सर्वाणि भूतानि सर्व तीर्थानि भागशः । तिष्ठंति सर्वतीर्थानि कैवल्यं ब्रह्म एव यः

“于其中,一切众生与一切圣渡处(tīrtha)各依其分而住。彼处亦摄一切tīrtha——诚然,那就是梵(Brahman)自身,即独存解脱之境(kaivalya)。”

Verse 10

तस्य योग्या तदा देवि भविष्यसि यदा तपः । चातुर्मास्ये हरिप्रीत्यै करिष्यसि शुभानने

“女神啊,容颜吉祥者,当你修持苦行之时,便将具足其资格。在恰图尔玛夏(Cāturmāsya)期间,为令哈利欢喜,你当行此清净苦行。”

Verse 11

तपसा प्राप्यते कामस्तपसा च महत्फलम् । तपसा जायते सर्वं तत्तपः सुलभं नरैः

以苦行(tapas)可得所愿;以苦行可生广大果报。万事皆由苦行而生——然此等苦行,世人并不易成就。

Verse 12

यशः सौभाग्यमतुलं क्षमासत्यादयो गुणाः । सुलभं तपसा नित्यं तपश्चर्त्तुं न शक्यते

名声、无比的福运,以及忍辱、真实等德行,常由苦行(tapas)而得;然而要恒常持守苦行,并非易事。

Verse 13

यदा हि तपसो वृद्धिस्तदा भक्तिर्हरौ भवेत् । तदा हि तपसो हानिर्यदा भक्तिं विना कृतम्

当苦行(tapas)增长之时,对哈利(Hari)的奉爱(bhakti)应当生起;然而若无奉爱而行苦行,苦行便会衰减,实则日渐亏损。

Verse 14

तावत्तपांसि गर्जंति देहेऽस्मिन्सततं नृणाम् । यदा विष्णुं स्मरेन्नित्यं जिह्वाग्रं पावनं भवेत्

只要诸般苦行在此人身之中不断“轰鸣”。然而当人恒常忆念毗湿奴(Viṣṇu)时,连舌尖也成为净化之处,堪为圣言之器。

Verse 15

यथा प्रदीपे ज्वलिते प्रणश्यति महत्तमः । तथा हरेः कथायां च याति पापमनेकधा

正如灯火一燃,深重黑暗便消亡;同样,在讲诵哈利(Hari)圣事之中,诸罪亦以种种途径远离而去。

Verse 16

तस्मात्पार्वति यत्नेन हरौ सुप्ते तपः कुरु । चातुर्मास्येऽथ संप्राप्ते प्रणवेन समन्वितम्

因此,哦帕尔瓦蒂,当圣期中哈利“安睡”之时,你当勤勉修持苦行;待四月斋期(Cāturmāsya)到来,应与圣音普罗那瓦(Oṃ)相应而行。

Verse 17

विशुद्धहृदया भूत्वा मन्त्रराजमिमं जप स एव भगवांस्तुष्टो द्वादशाक्षरसंयुतम्

当以清净之心,持诵此“诸咒之王”。彼至福之主若生欢喜,便以具十二音节之真言赐予成就。

Verse 18

प्रदास्यति परं ज्ञानं ब्रह्मरूपमखण्डितम् । ब्रह्मकल्पांतकोटीषु जप त्वं द्वादशाक्षरम्

它将赐予至上的智慧——不分不裂、即梵(Brahman)之自性。故当历经无数亿劫及其终尽之时,你仍应持诵十二音节真言。

Verse 19

मन्त्रराजं सप्रणवं ध्यायेत्सोऽपि न पश्यति । इत्युक्ता सा तपोनिष्ठा तपश्चरितुमागता

纵然观想与普罗那瓦(Oṃ)相应的“诸咒之王”,也并非仅凭此便能得见究竟。她既受此教诲,便以苦行坚住之心,前往修持塔帕斯。

Verse 20

हिमाचलस्य शिखरे चातुर्मास्ये समागते । ब्रह्मचर्यव्रतपरा वसनत्रयसंयुता

当神圣的四月斋期(Cāturmāsya)到来时,她住于喜马山(Himācala)之巅——专志守持梵行誓戒,身披三重衣。

Verse 21

प्रातर्मध्येऽपराह्ने च ध्यायन्ती हरिशंकरम् । वपुर्यथा पुरा कृष्टं पूजने शंकरस्य च

清晨、正午与午后,她观想礼念哈利—商羯罗;因奉事商羯罗之故,她的身形如昔日一般渐渐消瘦。

Verse 22

सखीजन समायुक्ता पितुः शृंगे मनोहरे । अतपत्सा विशालाक्षी क्षमादिगुणसंयुता

她与众侍女相随,在父亲那可爱之峰上;那位广目者具足忍辱等德,修行苦行。

Verse 23

गालव उवाच । या हि योगीश्वरध्येया या वन्द्या विश्ववन्दिता । जननी या च विश्वस्य साऽपि कामात्तपोगता

伽罗婆说道:那位为诸瑜伽自在者所当观想者,那位应受礼敬、为世间所礼敬者,那位为宇宙之母者——她也因一念欲愿而趋入苦行。

Verse 24

या हि प्रकृतिसद्रूपा तडित्कोटिसमप्रभा । विरजा या स्वयं वन्द्या गुणातीताचरत्तपः

她的形相与本初的普拉克里蒂相应,光辉胜过亿万道闪电;无垢清净,自身即应受礼敬,超越诸古那——而修行苦行。

Verse 25

पृथ्व्यंबु तेजो वायुश्च गगनं यन्मयं विदुः । मूलप्रकृतिरूपा या सा चकारोत्तम तपः

人们知晓:地、水、火、风与虚空皆由她所成;她以根本普拉克里蒂为体,修行了最上等的苦行。

Verse 26

या स्थावरं जंगममाशु विश्वं व्याप्य स्थिता या प्रकृतेः पुरापि । स्पृहादिरूपेण च तृप्तिदात्री देवे प्रसुप्ते तपसाऽप शुद्धिम्

她遍满并安住于整个世界——不动与动者皆然;她在显现的自性(Prakṛti)之前已然存在;又以渴慕等形相赐予满足。当天神沉睡之时,她以苦行之力涤除垢染。

Verse 257

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये द्वादशाक्षरनाममहिमपूर्वकपार्वतीतपोवर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः

至此,《圣·室建陀大往世书》八万一千颂本中,第六部《城邑品》(Nāgara-khaṇḍa)之“哈塔凯湿伐罗圣域功德”(Hāṭakeśvara-kṣetra-māhātmya)内,“舍沙卧眠”故事中,梵天与那罗陀对话所述“恰图尔玛夏”(Cāturmāsya)赞颂里,名为《先说十二音节圣名之功德而后叙述帕尔瓦蒂苦行》的第二五七章圆满结束。