Adhyaya 255
Nagara KhandaTirtha MahatmyaAdhyaya 255

Adhyaya 255

第255章把圣地(tīrtha)神学与居家礼仪教导融为一体。章中指出,甘达基河(Gaṇḍakī)中的圣石 śāligrāma 为自生(svayaṃbhū),乃自然显现、非人造;又将纳尔玛达河(Narmadā)与大自在天 Mahēśvara 相联系,确立自然显现之神圣类型。 随后列举多种奉爱方式——聆听、部分诵读、完整诵读,以及不欺不诈、以真诚心阅读——皆能成就“至上境界”,其特征为离忧无悲。并提出以四月斋期 Cāturmāsya 为中心的行持:为求利得而特别礼敬 Gaṇeśa,为求健康而礼敬太阳神 Sūrya;居士当修 pañcāyatana 之五神坛法,且在四月期间功德尤增。 本章尤推崇以 śāligrāma(并配以 dvāravatī-śilā、圣罗勒 tulasī、右旋法螺 dakṣiṇāvarta śaṅkha 等)礼拜 Lakṣmī–Nārāyaṇa,许以净罪、增福致富、令“Śrī”(吉祥与福德)安住家中,并导向解脱之果。结尾强调:奉爱对一切人皆足够,因为礼拜遍一切处的主宰,即等同礼拜整个宇宙。

Shlokas

Verse 1

गालव उवाच । एवं ते लब्धशापाश्च पार्वतीशाप पीडिताः । अनपत्या बभूवुश्च तथा च प्रतिमानवाः

伽罗婆说道:如是,他们既招致诅咒,又为帕尔瓦蒂之咒所折磨,遂成无嗣;并且宛如徒具形像之人——有人形而似失却生命的延续。

Verse 2

शालग्रामस्तु गंडक्यां नर्मदायां महेश्वरः । उत्पद्यते स्वयंभूश्च तावेतौ नैव कृत्रिमौ

沙拉格罗摩显现于甘达姬河,摩诃伊湿伐罗显现于纳尔玛达河。二者皆为自生(svayambhū),从非人手所造。

Verse 3

चतुर्विंशतिभेदेन शालग्रामगतो हरिः । परीक्ष्यः पुरुषैर्नित्यमेकरूपः सदाशिवः

住于沙拉格罗摩中的哈利,被称有二十四种差别之相;然信众当恒常观照,知其为唯一者——同一体性——正是常住吉祥天(萨达湿婆)。

Verse 4

शालग्रामशिला यत्र गंडकीविमले जले । तत्र स्नात्वा च पीत्वा च ब्रह्मणः पदमाप्नुयात्

凡沙拉格罗摩石所在之处,甘达姬清净之水流淌其间;于彼处沐浴并饮其水者,得至梵天之崇高境位(pada)。

Verse 5

तां पूजयित्वा विधिवद्गंडकीसंभवां शिलाम् । योगीश्वरो विशुद्धात्मा जायते नात्र संशयः

依正法仪轨礼敬那由甘达姬所生之石(沙拉格罗摩)者,必成瑜伽行者之尊,心灵清净;对此毫无疑惑。

Verse 6

एतत्ते कथितं सर्वं यत्पृष्टोऽहमिह त्वया । यथा हरो विप्रशापं प्राप्तवांस्तन्निशामय

你在此所问的一切,我都已尽数告知。现在请聆听:诃罗(湿婆)如何遭受一位婆罗门的诅咒。

Verse 7

यः शृणोति नरो भक्त्या वाच्यमानामिमां कथाम् । गिरीशनृत्यसंबन्धामुमादेहार्द्धवर्णिताम्

凡以虔敬之心聆听此被诵说的故事者——此事与吉利沙(湿婆)之舞相连,并述说乌玛与他同享半身——

Verse 8

ब्रह्मणः स्तुतिसंयुक्तां स गच्छेत्परमां गतिम् । श्लोकार्द्धं श्लोकपादं वा समस्तं श्लोकमेव वा

——并与梵天的赞颂相应——此人将得至上归趣;无论仅闻(或诵)半偈、四分之一偈,或整偈皆然。

Verse 9

यः पठेदविरोधेन मायामानविवर्जितः । स याति परमं स्थानं यत्र गत्वा न शोचति

凡无争诵此文者,远离欺诳与我慢,必至至上之处;既到彼处,便不复忧悲。

Verse 11

यथा ब्रह्मादयो देवा गीतवाद्याभियोगतः । परां सिद्धि मवापुस्ते दुर्गाशिवसमीपतः

正如梵天等诸天,以虔诚投入歌咏与器乐之供养,在杜尔迦与湿婆面前成就至上悉地——

Verse 12

वर्षाकाले च संप्राप्ते भक्तियोगे जनार्दने । महेश्वरेऽथ दुर्गायां न भूयः स्तनपो भवेत्

当雨季来临,若人安住于对阇那尔达那(Janārdana)的奉爱瑜伽,并同样虔敬礼奉大自在天(Maheśvara)与杜尔迦(Durgā),便不再复为吮乳之婴,亦即不再轮回再生。

Verse 13

गणेशस्य सदा कुर्याच्चातुर्मास्ये विशेषतः । पूजां मनुष्यो लाभार्थं यत्नो लाभप्रदो हि सः

人应当常常礼拜象头神伽内沙(Gaṇeśa),尤其在四月斋期(Cāturmāsya)之时。若为求兴盛而勤修此供奉,则此一精进本身确能赐予所得与增益。

Verse 14

सूर्यो नीरोगतां दद्याद्भक्त्या यैः पूज्यते हि सः । चातुर्मास्ये समायाते विशेषफलदो नृणाम्

太阳神苏利耶(Sūrya)赐予以奉爱礼拜他的人无病安康;而当神圣的四月斋期(Cāturmāsya)到来时,此等礼拜更为人间带来殊胜果报。

Verse 15

इदं हि पंचायतनं सेव्यते गृहमेधिभिः । चातुर्मास्ये विशेषेण सेवितं चिंतितप्रदम्

诚然,此五神坛(Pañcāyatana)之礼敬为居家之人所奉行;若在四月斋期(Cāturmāsya)中尤为专修,便能赐予心中所思所愿之成就。

Verse 16

शालग्रामगतं विष्णुं यः पूजयति नित्यदा । द्वारवतीचक्रशिलासहितं मोक्षदायकम्

凡每日礼拜住于娑罗伽罗摩(Śālagrāma)中的毗湿奴(Viṣṇu),并与德瓦拉瓦蒂(Dvāravatī)之神圣轮石(Cakra-śilā)同供者,即是在礼敬那赐予解脱(mokṣa)之本尊。

Verse 17

चातुर्मास्ये विशेषेण दर्शनादपि मुक्तिदम् । यस्मिन्स्तुते स्तुतं सर्वं पूजिते पूजितं जगत्

在四月斋期(Cāturmāsya)中,尤为殊胜,哪怕仅仅得见祂一面亦能赐予解脱。因为赞颂祂即是赞颂一切;礼拜祂即是礼拜整个世界。

Verse 18

पूजितः पठितो ध्यातः स्मृतो वै कलुषापहः । शालग्रामे किं पुनर्यच्छालग्रामगतो हरिः

当祂被礼拜、诵读、禅观或忆念时,必定能除去垢染。更何况当哈利(Hari)亲自住于圣石舍罗伽罗摩(Śālagrāma)之中!

Verse 19

पुनर्हि हरिनैवेद्यं फलं चापि धृतं जलम् । चातुर्मास्ये विशेषेण शालग्रामगतं शुभम्

再者,献给哈利的供品(naivedya)——果品以及手持以供的清水——在四月斋期中,若奉于住在舍罗伽罗摩圣石中的哈利,便格外吉祥。

Verse 20

तिलाः पुनंत्यर्पिताश्च शालग्रामस्य शूद्रज । चातुमास्ये विशेषेण नरं भक्त्या समन्वितम्

噢,首陀罗之子,献给舍罗伽罗摩(Śālagrāma)的芝麻能使人清净。尤其在四月斋期中,它能净化具足奉爱(bhakti)之人。

Verse 21

स लक्ष्मीसहितो नित्यं धनधान्यसमन्वितः । महाभाग्यवतां गेहे जायते नात्र संशयः

祂恒常与吉祥天女拉克什米(Lakṣmī)同在,具足财宝与谷粮,必在大福德之人的家中显现——对此毫无疑问。

Verse 22

स लक्ष्मीसहितो विष्णुर्विज्ञेयो नात्र संशयः । तं पूजयेन्महाभक्त्या स्थिरा लक्ष्मीर्गृहे भवेत्

当知彼即与吉祥天女拉克希米同在之毗湿奴,毫无疑惑。应以大虔敬礼拜之,则拉克希米之福德安住于家中。

Verse 23

तावद्दरिद्रता लोके तावद्गर्जति पातकम् । तावत्क्लेशाः शरीरेऽस्मिन्न यावत्पूजयेद्धरिम्

只要不礼拜哈利,世间贫乏不息,罪业喧嚣如吼,诸般苦恼亦在此身中不断。

Verse 24

स एव पूज्यते यत्र पंचक्रोशं पवित्रकम् । करोति सकलं क्षेत्रं न तवाऽशुभसंभवः

凡礼拜彼处,五拘舍之圣环皆得净化;彼令整个圣域清净无垢——于彼处,汝无由生起诸恶。

Verse 25

एतदेव महाभाग्यमेतदेवमहातपः । एष एव परो मोक्षो यत्र लक्ष्मीशपूजनम्

唯此为至上福分,唯此为最高苦行;此即至上解脱——在礼拜吉祥天女之主的所在。

Verse 26

शंखश्च दक्षिणावर्त्तो लक्ष्मीनारायणात्मकः । तुलसी कृष्णसारोऽत्र यत्र द्वारवती शिला । तत्र श्रीर्विजयो विष्णुर्मुक्तिरेवं चतुष्टयम्

凡有右旋法螺(达克希那瓦尔塔),具足吉祥天女—那罗延之体;凡有圣罗勒(图拉西)与黑羚羊皮;并有圣石德瓦拉瓦蒂石者——彼处具四种福德:吉祥富饶、胜利、毗湿奴临在与解脱。

Verse 27

लक्ष्मीनारायणे पूजां विधातुर्मनुजस्य तु । ददाति पुण्यमतुलं मुक्तो भवति तत्क्षणात्

凡修奉礼敬吉祥天女与那罗延者,得无比功德;于彼刹那即证解脱。

Verse 28

चातुर्मास्ये विशेषेण पूज्यो लक्ष्मीयुतो हरिः

尤当四月斋期(Cāturmāsya)之时,应礼拜与吉祥天女同在之诃利。

Verse 29

कुर्वतस्तस्य देवस्य ध्यानं कल्मषनाशनम् । तुलसीमञ्जरीभिश्च पूजितो जन्मनाशनः

观想彼神祇能灭除垢染;以圣罗勒(Tulasī)花簇供奉之时,彼即成为断除再生轮回者。

Verse 30

पूजितो बिल्वपत्रेण चातुर्मास्येऽघहृत्तमः

于四月斋期(Cāturmāsya)以毕尔瓦叶供奉之,彼即为至上除罪者。

Verse 31

सर्वप्रयत्नेन स एव सेव्यो यो व्याप्य विश्वं जगतामधीशः । काले सृजत्यत्ति च हेलया वा तं प्राप्य भक्तो न हि सीदतीति

当以一切努力唯独奉事彼一主——遍满宇宙、为众生之主宰者。随时而行,彼能创造,亦能收摄万有,甚至不费力;得至于彼之信徒,终不堕于败亡。

Verse 255

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये लक्ष्मीनारायणमहिमवर्णनंनाम पञ्चपञ्चाशदुत्तरद्विशततमोअध्यायः

至此,《圣·斯坎达大往世书》之《八万一千颂集》(Ekāśītisāhasrī Saṃhitā)第六部《那伽罗分卷》(Nāgara Khaṇḍa)中,哈塔凯湿瓦罗圣域(Hāṭakeśvara-kṣetra)功德章(Māhātmya)里,“舍沙卧眠”(Śeṣaśāyī)故事、梵天与那罗陀对话之“四月斋期功德”(Cāturmāsya Māhātmya)中,名为《赞颂吉祥天女与那罗延》(Lakṣmī–Nārāyaṇa)的第二百五十五章圆满结束。