Adhyaya 220
Nagara KhandaTirtha MahatmyaAdhyaya 220

Adhyaya 220

本章以问答与譬事相结合,作出一段兼具历法技术与宗教义理的论述,说明施行 śrāddha(祭祖施食)之时机及其果报。阿那尔塔(Anarta)问婆尔特利耶阇那(Bhartṛyajña):为何在阴历第十三日(trayodaśī)行 śrāddha,竟可能导致宗族衰败(vaṁśa-kṣaya)。婆尔特利耶阇那解释:若遇一种特殊历象条件 gajacchāyā(“象影”之征),与月宿星位及近于日月食的情形相关,则此日之 śrāddha 成为 akṣaya(果报不坏),能令祖先满足长达十二年。 经文又以供品为叙事线索:如蜜与乳相和,以及特定肉类如 khaḍga、vādhrīṇasa 等。其缘起故事中,一位古代般遮罗(Pāñcāla)之王西塔阿湿瓦(Sitāśva)被婆罗门问及为何其 śrāddha 供馔异常,含蜂蜜、kālaśāka 与 khaḍga-māṁsa。国王坦言前生为猎人,曾偷听圣者阿耆尼韦舍(Agniveśa)讲授 gajacchāyā śrāddha 之法,虽仅作粗略供养,却仍得转生为王,并使祖先欢喜。 章末写到诸天忧惧 trayodaśī śrāddha 之力过于卓绝,遂立下诅咒:自此在该日行 śrāddha 将具灵性风险,若不相应其法,可能招致 vaṁśa-kṣaya。由是既设立谨慎的仪轨界限,又保全“象影”条件之殊胜叙事。

Shlokas

Verse 1

ये वांछंति ममाभीष्टं श्राद्धे भुक्त्वाऽथ पैतृके

凡求我所喜爱之愿者——在为祖灵举行的施食祭(Śrāddha)中供养受邀者之后……

Verse 2

आनर्त उवाच । त्रयोदश्यां कृते श्राद्धे कस्माद्वंशक्षयो भवेत् । एतन्मे सर्वमाचक्ष्व विस्तरात्त्वं महा मुने । भर्तृयज्ञ उवाच । एषा मेध्यतमा राजन्युगादिः कलिसंभवा । स्नाने दाने जपे होमे श्राद्धे ज्ञेया तथाऽक्षया

阿那尔塔王问道:“若在十三日(Trayodaśī)行祖灵施食祭(Śrāddha),为何会有家族衰落之说?大牟尼啊,请为我详尽开示。”婆尔特利耶祭(Bhartṛyajña)答曰:“大王,此日最为清净,是迦梨时代所兴起的开运之日。于沐浴、布施、持咒(japa)、火供(homa)与施食祭中,当知此为‘阿克沙雅’(Akṣayā)——果报不灭之吉祥月日。”

Verse 3

अस्यां चेत्तु गजच्छाया तिथौ राजन्प्रजायते । तदाऽक्षयं मघायोगे श्राद्धं संजायते ध्रुवम्

大王啊,若在此一月日(tithi)出现“象影”(Gajacchāyā)之吉相,则与摩伽(Maghā)相合之时,施食祭(Śrāddha)必定成为阿克沙雅(akṣaya)——果报不灭。

Verse 4

यः क्षीरं मधुना युक्तं तस्मिन्नहनि यच्छति । पितॄनुद्दिश्य यो मांसं दद्याद्वाध्रीणसं च यः

凡于此日供献蜜乳者——又凡为诸祖灵(Pitṛ)而施与肉食者,乃至施与“vādhrīṇasa”之肉者——

Verse 5

वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी । त्रिःपिबंत्विंद्रियक्षीणं श्वेतं वृद्धमजापतिम्

以“vādhrīṇasa”之肉,祖灵(Pitṛ)得以满足十二年之久。(传本又云:)“愿彼等饮三次——感官衰弱者、白者、老者与‘ajā-pati’。”此语义多晦,然依传承存录。

Verse 6

तं तु वाध्रीणसं विद्यात्सर्वयूथाधिपं तथा । खड्गमांसं च वा दद्यात्तृप्तिर्द्वादशवार्षिकी । संजायते न संदेहस्तेषां वाक्यं न मे मृषा

当知 vādhrīṇasa 为诸群畜之主;或可奉献 khaḍga 之肉,则祖灵(Pitṛ)得满足达十二年,毫无疑惑。他们之言不虚,我之言亦不妄。

Verse 7

आसीद्रथंतरे कल्पे पूर्वं पार्थिवसत्तमः । सिताश्वो नाम पांचालदेशीयःपितृभक्तिमान्

在更早的时代,于罗檀多罗劫(Rathantara Kalpa)中,曾有一位卓越的国王,名为悉多阿湿婆(Sitāśva),出自般遮罗(Pañcāla)之地,虔敬奉事祖灵(Pitṛ)。

Verse 8

मधुना कालशाकेन खड्गमांसेन केवलम् । स हि श्राद्धं त्रयोदश्यां कुरु ते पायसेन च

“当于月之第十三日行施罗陀(śrāddha):以蜂蜜、以深色叶菜(kālaśāka),并唯以 khaḍga 之肉为供;又当备办 pāyasa(甜乳饭)以佐其仪。”

Verse 9

सोमवंशं समुद्दिश्य श्राद्धं यच्छति भक्तितः

“他以虔敬之心奉献施罗陀(śrāddha),并将其回向、奉献于苏摩王族(Somavaṃśa)——月族。”

Verse 10

अथ तैर्बाह्मणैः सर्वैः स भूयः कौतुकान्वितैः । कस्यचित्त्वथ कालस्य पृष्टो भुक्त्वा यथेच्छया

“随后,那些婆罗门(brāhmaṇa)众人随意而食,皆得饱足;过了一段时日,他们满怀好奇,又再度向他发问。”

Verse 11

श्राद्धादनंतरं राजन्दृष्ट्वा तं श्रद्धयाऽन्वितम् । पादावमर्द्दनपरं प्रणिपातपुरः सरम्

“大王啊,施行完施罗达(śrāddha)之后立刻,见他充满信心——专心为人按摩足部,并率先俯伏顶礼——(众人便对他说……)。”

Verse 12

ब्राह्मणा ऊचुः । कृत्वा श्राद्धं महाराज प्रदातव्याऽथ दक्षिणा । ब्राह्मणेभ्यस्ततः श्राद्धं पितॄणां चोपतिष्ठति

婆罗门们说道:“大王啊,行完施罗达(śrāddha)之后,应当奉献达克希那(dakṣiṇā,供养之礼)。因为当它施与婆罗门时,这份施罗达便如法到达,并同样利益祖先。”

Verse 13

सा त्वया कल्पिताऽस्माकं वितीर्णाद्यापि नो नृप । कुप्याकुप्यं परित्यज्य तां देहि नृप मा चिरम्

“大王啊,你为我们所许的达克希那(dakṣiṇā)至今仍未赐下。请放下‘贵重或不贵重’的计较,赐与我们吧,大王——莫要迟延。”

Verse 14

भर्तृयज्ञ उवाच । तच्छ्रुत्वा च नृपः प्राह संप्रहृष्टेन चेतसा । धन्योऽस्म्यनुगृहीतोऽस्मि विप्रैरद्य न संशयः

婆罗多利耶阇那(Bhartṛyajña)说:“国王听罢,心中欢喜,便说道:‘我真有福;今日我确已蒙婆罗门垂恩——毫无疑虑。’”

Verse 15

तस्माद्ब्रूत महाभागा युष्मभ्यं किं ददाम्यहम्

“因此,诸位贤贵者,请明言:我当赐予你们什么?”

Verse 16

वर न्नागान्मदोन्मत्तान्भद्रजातिसमुद्भवान् । किं वा सप्तिप्रधानांश्च मनोमारुतरंहसः

“(我当奉献)上等雄象,发情醉狂,出自高贵的婆陀罗族系?抑或奉献骏马之首,奔逸如风,迅疾无比?”

Verse 17

किं वा स्थानानि चित्राणि ग्रामाणि नगराणि च । पितॄनुद्दिश्य यत्किंचिन्नादेयं विद्यते यतः

“或(我当奉献)悦意的封地——村落乃至城邑?因为一旦为祖灵而施与,便无一物可称‘不可施’。”

Verse 18

ब्राह्मणा ऊचुः । नास्माकं वाजिभिः कार्यं न रत्नैर्न च हस्तिभिः । न देशैर्ग्राममुख्यैर्वा नान्येनापि च केनचित्

婆罗门众说道:“我们不需骏马,不需珍宝,也不需大象;不需封土与大村,亦不需任何别物。”

Verse 19

यदर्थेन महाराज पृष्टोस्माभिर्यतो भवान् । तस्मान्नो दक्षिणां देहि संदेहघ्नां तपोत्तम

“大王啊,正为此事我们才向您发问;因此请赐予我们能断除疑惑的达克希那(供养之礼),噢,苦行中最胜者。”

Verse 20

यां पृच्छामो वयं सर्वे कौतूहलसमाहिताः

“那一事,正是我们众人怀着强烈好奇、凝神专注而发问的……”

Verse 21

राजोवाच । उपदेशाधिकारोऽस्ति ब्राह्मणानां महात्मनाम् । दातुं नैव ग्रहीतुं च नी चजात्यस्य वैदिकाः

国王说道:“给予教导的权威属于拥有伟大灵魂的婆罗门。研习吠陀之人,绝不应给予行为卑劣、出身低微者任何事物,亦不应从其处接受任何事物。”

Verse 22

सोऽहं राजा न सर्वज्ञो यो यच्छामि द्विजोत्तमाः । उपदेशं हि युष्मभ्यं सर्वज्ञेभ्यो विचक्षणाः

“最好的再生族啊,身为国王的我并非全知;但我仍向你们提供教导——尽管你们睿智明辨,仿佛无所不知。”

Verse 23

ब्राह्मणा ऊचुः । गुरुशिष्यसमुत्थोऽयमुपदेशो महीपते । प्रार्थयामो वयं किंचिन्मा भयं त्वं समाविश

婆罗门说道:“国王啊,这番教导源于师徒之间的正当关系。我们向您请求一事——请不要让恐惧占据您的心。”

Verse 24

वयं च प्रश्नमेकं हि पृच्छामो यदि भूपते । ब्रूषे कौतुकयुक्तानां सर्वेषां च द्विजन्मनाम्

“国王啊,我们要问的确实只有一个问题。如果您愿意回答,请为所有充满热切好奇心的再生族回答。”

Verse 25

तस्माद्वद महाभाग यदि जानासि तत्त्वतः । न चेद्गुह्यतमं किंचित्पृच्छामस्त्वां कुतूहलात्

“因此,幸运者啊,如果您真正知晓实相,请说出来。若非如此,出于神圣的好奇心,我们要向您询问一件极其隐秘之事。”

Verse 26

राजोवाच । यदि वः संशयो विप्रा युष्मत्प्रश्नमसंशयम् । कथयिष्याभि चेद्गुह्यं तद्वद्ध्वं गप्ल ज्वराः

国王说道:“噢,婆罗门们,若你们心有疑惑,就当毫不迟疑地提出你们的问题。若我将宣说一门隐秘的教诲,你们也应当明白直陈……”

Verse 27

ब्राह्मणा ऊचुः । अन्नेषु च विचित्रेषु लेह्येषु विविधेषु च । अमृतेष्वेषु सर्वेषु तथा पेयेषु पार्थिव

婆罗门们说道:“大王啊,在种种食物之中,在诸般可舔的甘美点心之中,在这一切如甘露般的佳肴之中,并且同样在饮品之中……”

Verse 28

तस्मादद्य दिने ब्रूहि मधु यच्छसि गर्हितम् । वर्तते च यथाऽभक्ष्यं ब्राह्मणानां विशेषतः

因此,请你今日告诉我们:为何你要供奉蜂蜜——此物被讥为不宜食用,尤其对婆罗门而言更被视为禁忌?

Verse 29

तथा विचित्र मासेषु संस्थितेषु नराधिप । खङ्गमांसं निरास्वादं कस्माद्यच्छसि केवलम्

再者,噢人中王——当诸多吉祥佳月已至——为何你只献上淡而无味的“卡昂伽”之肉?

Verse 30

संति शाकानि राजेन्द्र पावनीयानि सर्वशः । सुष्ठु स्वादु कराण्यत्र व्यञ्जनार्थं महीपते

噢诸王之最,这里有诸般蔬菜,处处能净化身心;其味甘美,足以调制成佳肴,噢大地之主。

Verse 31

कालशाकं सकटुकं मुखाऽधिजनकं महत् । कस्माद्यच्छसि चास्माकं भक्त्या परमया युतः । न श्राद्धे प्रतिषेधश्च प्रकर्तव्यः कथंचन

你既具至上的虔敬(bhakti),为何还供给我们 kālaśāka 这般辛辣、强烈刺激口舌之物?在 śrāddha 祭仪中,绝不可掺入任何不当之事。

Verse 32

न च त्याज्यं समुच्छिष्टं तेन भुंजामहे ततः । तदत्र कारणेनैव गुरुणा भाव्यमेव हि । येन त्वं यच्छसि प्राय एतत्सिद्धिर्भवेत्स्थिता

此物也不可当作“残余”而弃置,因此我们便食用它。然而此中必有重大缘由——你常常如此供献——使这所期之仪轨确能圆满成就。

Verse 33

तस्मात्कथय नः सर्वं परं कौतूहलं हि नः । निःस्वादितं यथा दद्यादीदृक्छ्राद्धे विगर्हितम्

因此请将一切告知我们——我们的好奇甚深——为何有人会在 śrāddha 中供献这般寡味、为人所讥的食物。

Verse 34

यथा त्वं नृपशार्दूल श्रद्धया संप्रयच्छसि

你这“诸王之虎”,为何能以信心供献(此物)?

Verse 35

तच्छ्रुत्वा वचनं तेषां ब्राह्मणानां महात्मनाम् । स वैलक्ष्यस्मितं प्राह सलज्जं पृथिवीपतिः

听闻那些大心 brāhmaṇa 的言辞,地上之主便带着窘迫的微笑答道,满怀羞惭。

Verse 36

गुह्यमेतन्महाभागा अस्माकं यदि संस्थितम् । अवाच्यमपि वक्ष्यामि शृणुध्वं सुसमाहिताः

诸位有福者,此事乃与我性命相系的秘密。纵使不宜宣说,我亦将说出。请以专注之心谛听。

Verse 37

अहमासं पुरा पापो लुब्धकश्चान्य जन्मनि । निहंता सर्वजंतूनां तथा भक्षयिता पुनः

往昔在另一世中,我曾为罪业深重的猎人:屠戮诸类众生,且又以其肉为食。

Verse 38

पर्यटामि तदारण्ये धनुषा मृगयारतः । सिंहो व्याघ्रो गजेन्द्रो वा शरभो वा द्विजो त्तमाः

噢,最胜之二生者,我曾在那林中徘徊,手执弓矢,乐于狩猎——或狮、或虎、或王象,乃至凶猛的舍罗婆兽。

Verse 39

मद्बाणगोचरं प्राप्तो न जीवत्यपि कर्हिचित् । कस्यचित्त्वथ कालस्य भ्रममाणो महीतले

凡落入我箭矢所及者,从无生还;其后经一段时日,我在大地上流转徘徊,

Verse 40

संप्राप्तोऽहं महाभागा अग्नि वेशस्य सन्मुनेः । आश्रमे समनुप्राप्तो निशीथे क्षुत्पिपासितः

诸位贤善者,我来到善圣阿耆尼吠舍之精舍;我于半夜抵达,饥渴煎迫。

Verse 41

तावत्तत्र सशिष्याणां श्राद्धकर्मविधिं वदन् । संस्थितो वेष्टितः शिष्यैः समन्ताद्द्विजसत्तमाः

当时,噢最尊胜的婆罗门,他立于彼处,向弟子宣说施罗达(śrāddha)祭仪的正当次第,诸学徒从四面环绕侍立。

Verse 42

अग्निवेश उवाच । ऋक्षे पित्र्ये यदा चन्द्रो हंसश्चापि करे व्रजेत् । त्रयोदशी तु सा च्छाया विज्ञेया कुञ्जरोद्भवा

阿耆尼吠舍言:当月亮行于与祖灵(Pitṛ)相应的宿位,而“天鹅”(Haṃsa)星宿亦入于“迦罗”(Kara)之宫时,此影当知为“象生”之兆;其日即第十三月日——特罗约达湿(trayodaśī)。

Verse 43

पित्र्ये यदास्थितश्चेन्दुर्हंसश्चापि करे स्थितः । तिथिर्वैश्रवणी या च सा च्छाया कुञ्जरस्य च

当月亮安住于与祖灵(Pitṛ)相应之宿,而“天鹅”(Haṃsa)亦驻于“迦罗”(Kara)时,那名为“毗舍罗婆尼”(Vaiśravaṇī)的月日,也应认作象之“影兆”。

Verse 44

सैंहिकेयो यदा चंद्रं ग्रसते पर्वसंधिषु । हस्तिच्छाया तु सा ज्ञेया तस्यां श्राद्धं समाचरेत्

当赛因希凯耶(Rāhu,罗睺)在半月交界之际吞噬月轮(即月食之时),此当知为“象影”(hasti-chāyā);于彼时应如法修行施罗达(śrāddha)。

Verse 45

तस्यां यः कुरुते श्राद्धं जलैरपि प्रभक्तितः । यावद्द्वादश वर्षाणि पितरस्तस्य तर्पिताः

凡于彼时行施罗达(śrāddha)者,纵仅以清水奉献,然以至诚奉爱而作,其祖先亦得满足,长达十二年。

Verse 46

वनस्पतिगते सोमे या च्छाया पूर्वतोमुखी । गजच्छाया तु सा ज्ञेया पितॄणां दत्तमक्षयम्

当月亮行至“Vanaspati”之位,而“影”面向东方时,应知此为“象影”(gaja-chāyā);此时所献于祖灵(pitṛ)的供品,功德不坏,永不耗尽。

Verse 47

सा भवेच्च न सन्देहः पुण्यदा पैतृकी तिथिः । तस्यां श्राद्धं प्रकर्तव्यं संभाराः संभृताश्च ये

此日确实无疑,是赐予福德的祖先之日(tithi)。当于此日必定行施罗陀(śrāddha),以所备齐的一切仪供之物而行。

Verse 48

प्रभाते तु न सन्देहः पितॄणां परितृप्तये । शाकैस्तथैंगुदैर्बिल्वैर्बदरैश्चिर्भटैरपि

于黎明之时,毫无疑问,诸父祖灵(pitṛ)皆得圆满满足——无论以叶菜、以 iṅguda 之果、以 bilva、以 badara(枣果),乃至以 cirbhaṭa 瓠瓜为供亦然。

Verse 49

यदन्नं पुरुषोऽश्नाति तदन्नास्तस्य देवताः । बाढमित्येव ते प्रोच्य गताः स्वंस्वं निकेतनम्

“人所食之食,即为与其相应之诸神所可受之食。”他们说道“诚然如此”,遂表同意,各自归于本居之处。

Verse 50

सर्वे शिष्या महाभागाः नारायणपुरोगमाः । अग्निवेश्योऽपि सुष्वाप समामन्त्र्य द्विजोत्तमान्

诸位福德弟子皆留于彼处,以那罗延那(Nārāyaṇa)为首;阿耆尼吠舍耶(Agniveśya)亦然,恭敬辞别诸最胜二生者后,便安然入睡。

Verse 51

तेन संकथ्यमानं च रात्रौ तच्च श्रुतं मया । अहं चापि करिष्यामि प्रातः श्राद्धमसंशयम्

他在夜间所讲述的一切,我也亲耳听闻。我亦必在清晨举行施罗达(śrāddha)祭仪——毫无疑虑。

Verse 52

निहत्य खड्गमादाय तस्य मांसं सुपुष्कलम् । तथा मधु समादाय कालशाकं विशेषतः

他杀了一头犀牛,取其丰厚之肉;又备得蜂蜜——尤其还备了迦罗沙迦(kālaśāka)青菜——(以供仪式之用)。

Verse 53

स्वजातीयेभ्य आदाय तर्पयिष्यामि तान्पितॄन्

我将从本族亲众处取来(这些供品),以塔尔帕那(tarpaṇa)之礼使诸父祖灵(pitṛs)得以满足。

Verse 54

एवं निश्चित्य मनसा प्रसुप्तोऽहं द्विजोत्तमाः । ततः प्रभाते विमले प्रोद्गते रविमण्डले

我心中既如此决断,便沉沉睡去,噢诸位最胜的再生者。随后在清净的黎明,当日轮朗然升起之时,

Verse 55

मधुजालानि भूरीणि गृहीतानि मया ततः । कालशाकं तथा लब्धं स्वेच्छया द्विजसत्तमाः

随后我采集了许多蜂巢蜜;迦罗沙迦(kālaśāka)青菜也随我所愿而得,噢最胜的再生者。

Verse 56

ततः सर्वं समादाय श्रपितं तत्क्षणान्मया । स्नात्वा च निजवर्गाणां पितॄनुद्दिश्य चात्मनः । प्रदत्तं लुब्धकानां च भक्तिपूर्वं द्विजोत्तमाः

于是我把一切都收拢起来,当下便烹煮完成。沐浴之后,我为自身福祉,并以此供奉我族系的祖灵(Pitṛ);随后又以虔敬之心,也施与猎人们,噢,最殊胜的二次生者。

Verse 57

एवं मया पुरा दत्तं पितॄ नुद्दिश्य तान्निजान् । नान्यत्किंचिन्मया दत्तं कदाचित्कस्यचिद्विजाः

如是,在久远以前,我曾将那供施回向给我自己的祖灵(Pitṛ)。噢,婆罗门们,我从未在任何时候再把别的东西施与任何人。

Verse 58

ततः कालेन महता मृत्युं प्राप्तोऽस्म्यहं द्विजाः । तद्दानस्य प्रभावेन पार्थिवीं योनिमाश्रितः

其后经久岁月,我终至死亡,噢,二次生者。然而凭借那布施的威德,我得以在世间再获人身之生。

Verse 59

एवं जातिस्मरत्वं च सञ्जातं मे द्विजोत्तमाः । ते च मे तर्पितास्तेन खड्गमांसेन माक्षिकैः

如是,噢,最胜婆罗门,我心中生起了忆念前生的能力(jāti-smara)。并且因那一举,我的祖先得受“塔尔帕那”(tarpaṇa)之供养,以迦陀伽之肉与蜂蜜而得满足。

Verse 60

संप्राप्ताः परमां प्रीतिं ततो द्वाशवार्षिकीम् । एतस्मात्कारणाच्छ्राद्धं प्रकरोमि द्विजोत्तमाः

他们获得了至上的欢悦与满足,延续十二年之久。正因如此,噢,最胜婆罗门,我如今举行 śrāddha(祭祖追荐之礼)。

Verse 61

खड्गमांसेन मधुना कालशाकेन भूरिशः । विधिहीनं द्विजैर्हीनं तिलदर्भैर्विवर्जितम्

以伽ḍ伽之肉、蜂蜜与丰盛的迦罗-沙迦菜蔬所作——此施祖祭(śrāddha)缺失正仪,缺少婆罗门,亦无芝麻与达尔婆草。

Verse 62

मया तद्विहितं श्राद्धं तस्यैतत्फलमागतम् । सांप्रतं विधिना सम्यग्ब्राह्मणैर्वेदपारगैः

那一场施祖祭(śrāddha)由我所行,而今此果报由彼而至。然如今此祭依正法仪轨而作,并由通达吠陀的婆罗门主持。

Verse 63

उपविष्टैः करोम्येव यच्छ्राद्धं श्रद्धयान्वितः । दर्भैस्तिलैः समोपेतं मन्त्रवच्च द्विजोत्तमाः

我令诸位安坐,以信心行施祖祭(śrāddha)——具达尔婆草与芝麻,并以真言相随;噫,最胜婆罗门啊。

Verse 64

नो जानामि फलं किं वा सांप्रतं च भविष्यति । तस्मादेवं परिज्ञाय यूयं चैव द्विजोत्तमाः

我不知如今将生起何等果报。故而既如此了知,诸位亦当如是,噫,最胜婆罗门——

Verse 65

संतर्पयध्वं च पितॄन्निजान्गजदिने स्थिते । छायायां चैव जातायां कुञ्जरस्य द्विजोत्तमाः

诸位亦当令自家祖灵(pitṛ)得以满足,噫,最胜婆罗门;当“伽阇日”(Gaja-day)来临之时——亦即象之影现起之时。

Verse 66

येन संजायते तृप्तिः पितॄणां द्वादशाब्दिकी । युष्माकं च गतिः श्रेष्ठा यथा जाता ममाधुना

由此,诸祖灵(Pitṛ)得以满足十二年;而你们的归趣亦臻至上,如同我如今所成就的一般。

Verse 67

भर्तृयज्ञ उवाच । तस्य तद्वचनं श्रुत्वा सर्वे ते ब्राह्मणोत्तमाः । संतुष्टाः साधुवादांश्च ददुस्तस्य महीपतेः

婆尔特利耶阇那说道:闻其言后,诸位最胜婆罗门皆心生欢喜,遂向那位国王献上赞颂与祝福。

Verse 68

ततःप्रभृति चक्रुस्ते श्राद्धानि द्विजसत्तमाः । त्रयोदश्यां नभस्यस्य कृष्णायां भक्तितत्पराः

自此以后,那些最胜婆罗门便以虔敬之心,于那婆娑月(Bhādrapada)黑分的十三日(Trayodaśī)开始奉行施祖的Śrāddha仪轨。

Verse 69

मधुना कालशाकेन खड्गमांसेन तर्पिताः । प्राप्नुवंति परां सिद्धिं विमानवरमास्थिताः

以蜂蜜、kāla-śāka青菜与犀牛之肉为供而得满足者,登上殊胜天车(vimāna),证得至上的成就。

Verse 70

स्पर्धंते सहिता दैवैः पितरश्च विशेषतः । वंशजेन प्रदत्तस्य प्रभावात्सुरसत्तमाः

噢,诸天之最胜者!诸祖灵(Pitṛ)尤为如此,与众天神同在,因后裔所献供品之威力而彼此竞胜。

Verse 71

श्राद्धार्थं संपरिज्ञाय मन्त्रं चक्रुः परस्परम् । आदित्या वसवो रुद्रा नासत्यावपि पार्थिव

他们既已明了施行Śrāddha(祭祖供养)之旨意,便彼此商议制定一则真言——大王啊——即诸阿底提耶(Āditya)、诸婆苏(Vasu)、诸鲁陀罗(Rudra),以及那娑底耶双神(Nāsatya,阿湿毗尼)。

Verse 72

यथा न भवति श्राद्धं तस्मिन्नहनि भूतले । यत्प्रभावाद्वयं सर्वे मानुषैः श्राद्धमाश्रितैः । न यामोऽभिभवस्थानं तस्माच्छप्स्यामहे च तान्

“为使那一日于大地之上不再举行Śrāddha——因为依止Śrāddha之人类的威力,使我等皆不能陷入被制伏之境——故而我们将诅咒他们。”

Verse 73

अद्यप्रभृति यः श्राद्धं त्रयोदश्यां करिष्यति । कन्यासंस्थे सहस्रांशौ तस्य स्याद्वंशसंक्षयः

“自今日起,凡于十三日(trayodaśī)之时,当千光之日神在处女宫(Kanyā)之位而行Śrāddha者,其家族血脉将遭断绝。”

Verse 74

इति शापेन देवानां निर्दग्धेयं महातिथिः

于是,由诸天的诅咒,此一伟大月日(tithi)被“焚灼”,遂成不堪用于仪式之日。

Verse 76

ततःप्रभृति नैतस्या क्रियते श्राद्धमुत्तमम् । यः प्रमादेन कुरुते तस्य स्याद्वंश संक्षयः

自此以后,于该月日不再举行殊胜的Śrāddha;若有人因疏忽而行之,其家族血脉将遭断绝。

Verse 220

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे गजच्छायामाहात्म्यवर्णनंनाम विंशत्युत्तरद्विशत तमोऽध्यायः

至此,《圣·斯甘达大往世书》Ekāśīti-sāhasrī Saṃhitā 中,第六部 Nāgara Khaṇḍa 之 Hāṭakeśvara-kṣetra Māhātmya 内、Śrāddha-kalpa 里的第220章——名为《Gajacchāyā 圣地威德之阐述》——圆满结束。